दशम स्कन्ध

अध्याय 9: यशोदा ने दामोदर को ऊखल से बाँधा

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे नवमोऽध्यायः ॥

23 श्लोक · 9 में से 90

इस अध्याय में क्या होता है

यशोदा ने दामोदर को ऊखल से बाँधा

एक सुबह यशोदा स्वयं दही मथती हैं और पुत्र की लीलाएँ गाती हैं। भूखे कृष्ण आते हैं, वे दूध पिलाती हैं, फिर चूल्हे पर उफनते दूध को देखकर दौड़ जाती हैं। रूठकर कृष्ण दही की मटकी फोड़ते हैं, कोने में माखन खाते हैं और ऊखल पर चढ़कर बन्दरों को बाँटते हैं। यशोदा छड़ी लेकर पीछे दौड़ती हैं; जिन्हें योगी तप से नहीं पा सकते, वे भागते हैं और माँ उन्हें पकड़ लेती हैं। वे उन्हें ऊखल से बाँधना चाहती हैं, पर जितनी भी रस्सियाँ जोड़ें, हर बार दो अंगुल छोटी पड़ती है। माँ को थकी और पसीने से भीगी देखकर वे स्वयं बँध जाते हैं। शुकदेव कहते हैं कि ऐसी कृपा ब्रह्मा, शिव या लक्ष्मी को भी नहीं मिली। बँधे हुए दामोदर दो अर्जुन वृक्षों की ओर सरकते हैं।

श्रीशुक उवाच

9.1

एकदा गृहदासीषु यशोदा नन्दगेहिनी ।
कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि

ekadā gṛhadāsīṣu yaśodā nandagehinī |
karmāntaraniyuktāsu nirmamantha svayaṃ dadhi

9.2

यानि यानीह गीतानि तद्बालचरितानि च ।
दधिनिर्मन्थने काले स्मरन्ती तान्यगायत

yāni yānīha gītāni tadbālacaritāni ca |
dadhinirmanthane kāle smarantī tānyagāyata

9.3

क्षौमं वासः पृथुकटितटे
बिभ्रती सूत्रनद्धं ।
पुत्रस्नेहस्नुतकुचयुगं
जातकम्पं च सुभ्रूः ।
रज्ज्वाकर्षश्रमभुजचलत्
कङ्कणौ कुण्डले च
स्विन्नं वक्त्रं कबरविगलन्
मालती निर्ममन्थ

kṣaumaṃ vāsaḥ pṛthukaṭitaṭe
bibhratī sūtranaddhaṃ |
putrasnehasnutakucayugaṃ
jātakampaṃ ca subhrūḥ |
rajjvākarṣaśramabhujacalat
kaṅkaṇau kuṇḍale ca
svinnaṃ vaktraṃ kabaravigalan
mālatī nirmamantha

9.4

तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः ।
गृहीत्वा दधिमन्थानं न्यषेधत्प्रीतिमावहन्

tāṃ stanyakāma āsādya mathnantīṃ jananīṃ hariḥ |
gṛhītvā dadhimanthānaṃ nyaṣedhatprītimāvahan

9.5

तमङ्कमारूढमपाययत् स्तनं
स्नेहस्नुतं सस्मितमीक्षती मुखम् ।
अतृप्तमुत्सृज्य जवेन सा ययौ
उत्सिच्यमाने पयसि त्वधिश्रिते

tamaṅkamārūḍhamapāyayat stanaṃ
snehasnutaṃ sasmitamīkṣatī mukham |
atṛptamutsṛjya javena sā yayau
utsicyamāne payasi tvadhiśrite

9.6

सञ्जातकोपः स्फुरितारुणाधरं
सन्दश्य दद्भिर्दधिमन्थभाजनम् ।
भित्त्वा मृषाश्रुर्दृषदश्मना रहो
जघास हैयङ्गवमन्तरं गतः

sañjātakopaḥ sphuritāruṇādharaṃ
sandaśya dadbhirdadhimanthabhājanam |
bhittvā mṛṣāśrurdṛṣadaśmanā raho
jaghāsa haiyaṅgavamantaraṃ gataḥ

9.7

उत्तार्य गोपी सुशृतं पयः पुनः
प्रविश्य संदृश्य च दध्यमत्रकम् ।
भग्नं विलोक्य स्वसुतस्य कर्म
तज्जहास तं चापि न तत्र पश्यती

uttārya gopī suśṛtaṃ payaḥ punaḥ
praviśya saṃdṛśya ca dadhyamatrakam |
bhagnaṃ vilokya svasutasya karma
tajjahāsa taṃ cāpi na tatra paśyatī

9.8

उलूखलाङ्घ्रेरुपरि व्यवस्थितं
मर्काय कामं ददतं शिचि स्थितम् ।
हैयङ्गवं चौर्यविशङ्कितेक्षणं
निरीक्ष्य पश्चात् सुतमागमच्छनैः

ulūkhalāṅghrerupari vyavasthitaṃ
markāya kāmaṃ dadataṃ śici sthitam |
haiyaṅgavaṃ cauryaviśaṅkitekṣaṇaṃ
nirīkṣya paścāt sutamāgamacchanaiḥ

9.9

तां आत्तयष्टिं प्रसमीक्ष्य सत्वरः
ततोऽवरुह्यापससार भीतवत् ।
गोप्यन्वधावन्न यमाप योगिनां
क्षमं प्रवेष्टुं तपसेरितं मनः

tāṃ āttayaṣṭiṃ prasamīkṣya satvaraḥ
tato'varuhyāpasasāra bhītavat |
gopyanvadhāvanna yamāpa yogināṃ
kṣamaṃ praveṣṭuṃ tapaseritaṃ manaḥ

9.10

अन्वञ्चमाना जननी बृहच्चलत्
श्रोणीभराक्रान्तगतिः सुमध्यमा ।
जवेन विस्रंसितकेशबन्धन
च्युतप्रसूनानुगतिः परामृशत्

anvañcamānā jananī bṛhaccalat
śroṇībharākrāntagatiḥ sumadhyamā |
javena visraṃsitakeśabandhana
cyutaprasūnānugatiḥ parāmṛśat

9.11

कृतागसं तं प्ररुदन्तमक्षिणी
कर्षन्तमञ्जन्मषिणी स्वपाणिना ।
उद्वीक्षमाणं भयविह्वलेक्षणं
हस्ते गृहीत्वा भिषयन्त्यवागुरत्

kṛtāgasaṃ taṃ prarudantamakṣiṇī
karṣantamañjanmaṣiṇī svapāṇinā |
udvīkṣamāṇaṃ bhayavihvalekṣaṇaṃ
haste gṛhītvā bhiṣayantyavāgurat

9.12

त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला ।
इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा

tyaktvā yaṣṭiṃ sutaṃ bhītaṃ vijñāyārbhakavatsalā |
iyeṣa kila taṃ baddhuṃ dāmnātadvīryakovidā

9.13

न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् ।
पूर्वापरं बहिश्चान्तः जगतो यो जगच्च यः

na cāntarna bahiryasya na pūrvaṃ nāpi cāparam |
pūrvāparaṃ bahiścāntaḥ jagato yo jagacca yaḥ

9.14

तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् ।
गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा

taṃ matvātmajamavyaktaṃ martyaliṅgamadhokṣajam |
gopikolūkhale dāmnā babandha prākṛtaṃ yathā

9.15

तद्दाम बध्यमानस्य स्वार्भकस्य कृतागसः ।
द्व्यङ्गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिका

taddāma badhyamānasya svārbhakasya kṛtāgasaḥ |
dvyaṅgulonamabhūttena sandadhe'nyacca gopikā

9.16

यदाऽऽसीत् तदपि न्यूनं तेनान्यदपि सन्दधे ।
तदपि द्व्यङ्गुलं न्यूनं यद् यद् आदत्त बन्धनम्

yadā''sīt tadapi nyūnaṃ tenānyadapi sandadhe |
tadapi dvyaṅgulaṃ nyūnaṃ yad yad ādatta bandhanam

9.17

एवं स्वगेहदामानि यशोदा सन्दधत्यपि ।
गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत्

evaṃ svagehadāmāni yaśodā sandadhatyapi |
gopīnāṃ susmayantīnāṃ smayantī vismitābhavat

9.18

स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः ।
दृष्ट्वा परिश्रमं कृष्णः कृपयाऽऽसीत् स्वबन्धने

svamātuḥ svinnagātrāyā visrastakabarasrajaḥ |
dṛṣṭvā pariśramaṃ kṛṣṇaḥ kṛpayā''sīt svabandhane

9.19

एवं सन्दर्शिता ह्यङ्ग हरिणा भृत्यवश्यता ।
स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे

evaṃ sandarśitā hyaṅga hariṇā bhṛtyavaśyatā |
svavaśenāpi kṛṣṇena yasyedaṃ seśvaraṃ vaśe

9.20

नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया ।
प्रसादं लेभिरे गोपी यत् तत्प्राप विमुक्तिदात्

nemaṃ viriñco na bhavo na śrīrapyaṅgasaṃśrayā |
prasādaṃ lebhire gopī yat tatprāpa vimuktidāt

9.21

नायं सुखापो भगवान् देहिनां गोपिकासुतः ।
ज्ञानिनां चात्मभूतानां यथा भक्तिमतां इह

nāyaṃ sukhāpo bhagavān dehināṃ gopikāsutaḥ |
jñānināṃ cātmabhūtānāṃ yathā bhaktimatāṃ iha

9.22

कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः ।
अद्राक्षीत् अर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ

kṛṣṇastu gṛhakṛtyeṣu vyagrāyāṃ mātari prabhuḥ |
adrākṣīt arjunau pūrvaṃ guhyakau dhanadātmajau

9.23

पुरा नारदशापेन वृक्षतां प्रापितौ मदात् ।
नलकूवरमणिग्रीवौ इति ख्यातौ श्रियान्वितौ

purā nāradaśāpena vṛkṣatāṃ prāpitau madāt |
nalakūvaramaṇigrīvau iti khyātau śriyānvitau

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)