ततः पर्वण्युपावृत्ते प्रचण्डः पांशुवर्षणः
भीमो वायुरभूद्राजन्पूयगन्धस्तु सर्वशः
tataḥ parvaṇyupāvṛtte pracaṇḍaḥ pāṃśuvarṣaṇaḥ
bhīmo vāyurabhūdrājanpūyagandhastu sarvaśaḥ
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे बलदेवतीर्थयात्रानिरूपणं नामैकोनाशीतितमोऽध्यायः ॥
34 श्लोक · 79 में से 90
पर्व के दिन दुर्गन्धित आँधी और धूल, पीब तथा रक्त की वर्षा यज्ञशाला पर होती है, और त्रिशूलधारी बल्वल प्रकट होता है। बलराम हल और मूसल बुलाकर हल से दानव को खींचते हैं और मूसल से उसके सिर पर प्रहार करते हैं; वह लाल पर्वत-सा गिरता है। ऋषियों का आशीर्वाद लेकर बलराम तीर्थयात्रा करते हैं: कौशिकी, सरयू, प्रयाग, गोमती, गण्डकी, गया, गंगासागर, महेन्द्र, गोदावरी, श्रीशैल, वेंकट, काञ्ची, कावेरी, श्रीरंगम्, मदुरा, सेतुबन्ध, कन्याकुमारी, मलय पर्वत जहाँ वे अगस्त्य को प्रणाम करते हैं, गोकर्ण और प्रभास। कुरुक्षेत्र पहुँचकर वे भीम और दुर्योधन को गदा लिए एक-दूसरे के चक्कर काटते पाते हैं और रोकना चाहते हैं, पर वे नहीं मानते, तो वे द्वारका लौट आते हैं। बाद में नैमिष में यज्ञ करके वे ऋषियों को आत्मज्ञान देते हैं।
श्रीशुक उवाच
ततः पर्वण्युपावृत्ते प्रचण्डः पांशुवर्षणः
भीमो वायुरभूद्राजन्पूयगन्धस्तु सर्वशः
tataḥ parvaṇyupāvṛtte pracaṇḍaḥ pāṃśuvarṣaṇaḥ
bhīmo vāyurabhūdrājanpūyagandhastu sarvaśaḥ
अभवद्यज्ञशालायां सोऽन्वदृश्यत शूलधृक्
abhavadyajñaśālāyāṃ so'nvadṛśyata śūladhṛk
तप्तताम्रशिखाश्मश्रुं दंष्ट्रोग्रभ्रुकुटीमुखम्
taptatāmraśikhāśmaśruṃ daṃṣṭrograbhrukuṭīmukham
हलं च दैत्यदमनं ते तूर्णमुपतस्थतुः
halaṃ ca daityadamanaṃ te tūrṇamupatasthatuḥ
मूषलेनाहनत्क्रुद्धो मूर्ध्नि ब्रह्मद्रुहं बलः
mūṣalenāhanatkruddho mūrdhni brahmadruhaṃ balaḥ
सोऽपतद्भुवि निर्भिन्न ललाटोऽसृक्समुत्सृजन्
मुञ्चन्नार्तस्वरं शैलो यथा वज्रहतोऽरुणः
so'patadbhuvi nirbhinna lalāṭo'sṛksamutsṛjan
muñcannārtasvaraṃ śailo yathā vajrahato'ruṇaḥ
अभ्यषिञ्चन्महाभागा वृत्रघ्नं विबुधा यथा
abhyaṣiñcanmahābhāgā vṛtraghnaṃ vibudhā yathā
वैजयन्तीं ददुर्मालां श्रीधामाम्लानपङ्कजां
रामाय वाससी दिव्ये दिव्यान्याभरणानि च
vaijayantīṃ dadurmālāṃ śrīdhāmāmlānapaṅkajāṃ
rāmāya vāsasī divye divyānyābharaṇāni ca
स्नात्वा सरोवरमगाद्यतः सरयूरास्रवत्
snātvā sarovaramagādyataḥ sarayūrāsravat
स्नात्वा सन्तर्प्य देवादीन्जगाम पुलहाश्रमम्
snātvā santarpya devādīnjagāma pulahāśramam
गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः
गयां गत्वा पितॄनिष्ट्वा गङ्गासागरसङ्गमे
gomatīṃ gaṇḍakīṃ snātvā vipāśāṃ śoṇa āplutaḥ
gayāṃ gatvā pitṝniṣṭvā gaṅgāsāgarasaṅgame
उपस्पृश्य महेन्द्रा द्रौ रामं दृष्ट्वाभिवाद्य च
सप्तगोदावरीं वेणां पम्पां भीमरथीं ततः
upaspṛśya mahendrā drau rāmaṃ dṛṣṭvābhivādya ca
saptagodāvarīṃ veṇāṃ pampāṃ bhīmarathīṃ tataḥ
स्कन्दं दृष्ट्वा ययौ रामः श्रीशैलं गिरिशालयम्
द्र विडेषु महापुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः
skandaṃ dṛṣṭvā yayau rāmaḥ śrīśailaṃ giriśālayam
dra viḍeṣu mahāpuṇyaṃ dṛṣṭvādriṃ veṅkaṭaṃ prabhuḥ
कामकोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्वराम्
श्रीरन्गाख्यं महापुण्यं यत्र सन्निहितो हरिः
kāmakoṣṇīṃ purīṃ kāñcīṃ kāverīṃ ca saridvarām
śrīrangākhyaṃ mahāpuṇyaṃ yatra sannihito hariḥ
ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मथुरां तथा
सामुद्रं सेतुमगमत्महापातकनाशनम्
ṛṣabhādriṃ hareḥ kṣetraṃ dakṣiṇāṃ mathurāṃ tathā
sāmudraṃ setumagamatmahāpātakanāśanam
कृतमालां ताम्रपर्णीं मलयं च कुलाचलम्
kṛtamālāṃ tāmraparṇīṃ malayaṃ ca kulācalam
योजितस्तेन चाशीर्भिरनुज्ञातो गतोऽर्णवम्
yojitastena cāśīrbhiranujñāto gato'rṇavam
दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सः
ततः फाल्गुनमासाद्य पञ्चाप्सरसमुत्तमम्
विष्णुः सन्निहितो यत्र स्नात्वास्पर्शद्गवायुतम्
dakṣiṇaṃ tatra kanyākhyāṃ durgāṃ devīṃ dadarśa saḥ
tataḥ phālgunamāsādya pañcāpsarasamuttamam
viṣṇuḥ sannihito yatra snātvāsparśadgavāyutam
ततोऽभिव्रज्य भगवान्केरलांस्तु त्रिगर्तकान्
गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्जटेः
tato'bhivrajya bhagavānkeralāṃstu trigartakān
gokarṇākhyaṃ śivakṣetraṃ sānnidhyaṃ yatra dhūrjaṭeḥ
आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकमगाद्बलः
तापीं पयोष्णीं निर्विन्ध्यामुपस्पृश्याथ दण्डकम्
āryāṃ dvaipāyanīṃ dṛṣṭvā śūrpārakamagādbalaḥ
tāpīṃ payoṣṇīṃ nirvindhyāmupaspṛśyātha daṇḍakam
मनुतीर्थमुपस्पृश्य प्रभासं पुनरागमत्
manutīrthamupaspṛśya prabhāsaṃ punarāgamat
श्रुत्वा द्विजैः कथ्यमानं कुरुपाण्डवसंयुगे
सर्वराजन्यनिधनं भारं मेने हृतं भुवः
śrutvā dvijaiḥ kathyamānaṃ kurupāṇḍavasaṃyuge
sarvarājanyanidhanaṃ bhāraṃ mene hṛtaṃ bhuvaḥ
वारयिष्यन्विनशनं जगाम यदुनन्दनः
vārayiṣyanvinaśanaṃ jagāma yadunandanaḥ
युधिष्ठिरस्तु तं दृष्ट्वा यमौ कृष्णार्जुनावपि
अभिवाद्याभवंस्तुष्णीं किं विवक्षुरिहागतः
yudhiṣṭhirastu taṃ dṛṣṭvā yamau kṛṣṇārjunāvapi
abhivādyābhavaṃstuṣṇīṃ kiṃ vivakṣurihāgataḥ
मण्डलानि विचित्राणि चरन्ताविदमब्रवीत्
maṇḍalāni vicitrāṇi carantāvidamabravīt
एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम्
ekaṃ prāṇādhikaṃ manye utaikaṃ śikṣayādhikam
न लक्ष्यते जयोऽन्यो वा विरमत्वफलो रणः
na lakṣyate jayo'nyo vā viramatvaphalo raṇaḥ
अनुस्मरन्तावन्योन्यं दुरुक्तं दुष्कृतानि च
anusmarantāvanyonyaṃ duruktaṃ duṣkṛtāni ca
उग्रसेनादिभिः प्रीतैर्ज्ञातिभिः समुपागतः
ugrasenādibhiḥ prītairjñātibhiḥ samupāgataḥ
क्रत्वङ्गं क्रतुभिः सर्वैर्निवृत्ताखिलविग्रहम्
kratvaṅgaṃ kratubhiḥ sarvairnivṛttākhilavigraham
तेभ्यो विशुद्धं विज्ञानं भगवान्व्यतरद्विभुः
येनैवात्मन्यदो विश्वमात्मानं विश्वगं विदुः
tebhyo viśuddhaṃ vijñānaṃ bhagavānvyataradvibhuḥ
yenaivātmanyado viśvamātmānaṃ viśvagaṃ viduḥ
रेजे स्वज्योत्स्नयेवेन्दुः सुवासाः सुष्ठ्वलङ्कृतः
reje svajyotsnayevenduḥ suvāsāḥ suṣṭhvalaṅkṛtaḥ
अनन्तस्याप्रमेयस्य मायामर्त्यस्य सन्ति हि
anantasyāprameyasya māyāmartyasya santi hi
सायं प्रातरनन्तस्य विष्णोः स दयितो भवेत्
sāyaṃ prātaranantasya viṣṇoḥ sa dayito bhavet
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)