दशम स्कन्ध

अध्याय 26: गोपों का विस्मय, नन्द द्वारा गर्ग-वचन का स्मरण

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षड्विंशोऽध्यायः ॥

25 श्लोक · 26 में से 90

इस अध्याय में क्या होता है

गोपों का विस्मय, नन्द द्वारा गर्ग-वचन का स्मरण

जो कुछ देखा उससे चकित गोप नन्द के पास आते हैं। सात वर्ष का बालक एक हाथ पर सप्ताह भर पर्वत कैसे उठाए रहा, जैसे हाथी कमल उठा ले? वे उसकी लीलाएँ गिनाते हैं: पूतना, छकड़ा, तृणावर्त, अर्जुन वृक्ष, बक, धेनुक, कालिय, प्रलम्ब, दावानल। ग्वालों में जन्मा यह बालक सबका प्रेम क्यों खींचता है? नन्द नामकरण के समय गर्ग के वचन सुनाते हैं: इस बालक ने अन्य युगों में अलग वर्ण लिए, कभी वसुदेव के यहाँ जन्मा, यह तुम्हारा आनन्द बढ़ाएगा और हर संकट से पार लगाएगा; जो इससे प्रेम करते हैं उन्हें कोई नहीं जीत सकता। यह गुणों में नारायण के समान है। यह सुनकर गोप निश्चिन्त होते हैं और नन्द तथा कृष्ण का आदर करते हैं।

श्रीशुक उवाच

26.1

एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते ।
अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः

evaṃvidhāni karmāṇi gopāḥ kṛṣṇasya vīkṣya te |
atadvīryavidaḥ procuḥ samabhyetya suvismitāḥ

26.2

बालकस्य यदेतानि कर्माणि अति अद्भुतानि वै ।
कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम्

bālakasya yadetāni karmāṇi ati adbhutāni vai |
kathamarhatyasau janma grāmyeṣvātmajugupsitam

26.3

यः सप्तहायनो बालः करेणैकेन लीलया ।
कथं बिभ्रद् गिरिवरं पुष्करं गजराडिव

yaḥ saptahāyano bālaḥ kareṇaikena līlayā |
kathaṃ bibhrad girivaraṃ puṣkaraṃ gajarāḍiva

26.4

तोकेनामीलिताक्षेण पूतनाया महौजसः ।
पीतः स्तनः सह प्राणैः कालेनेव वयस्तनोः

tokenāmīlitākṣeṇa pūtanāyā mahaujasaḥ |
pītaḥ stanaḥ saha prāṇaiḥ kāleneva vayastanoḥ

26.5

हिन्वतोऽधः शयानस्य मास्यस्य चरणावुदक् ।
अनोऽपतद् विपर्यस्तं रुदतः प्रपदाहतम्

hinvato'dhaḥ śayānasya māsyasya caraṇāvudak |
ano'patad viparyastaṃ rudataḥ prapadāhatam

26.6

एकहायन आसीनो ह्रियमाणो विहायसा ।
दैत्येन यस्तृणावर्त महन् कण्ठग्रहातुरम्

ekahāyana āsīno hriyamāṇo vihāyasā |
daityena yastṛṇāvarta mahan kaṇṭhagrahāturam

26.7

क्वचिद् हैयङ्गवस्तैन्ये मात्रा बद्ध उलूखले ।
गच्छन् अर्जुनयोर्मध्ये बाहुभ्यां तावपातयत्

kvacid haiyaṅgavastainye mātrā baddha ulūkhale |
gacchan arjunayormadhye bāhubhyāṃ tāvapātayat

26.8

वने सञ्चारयन् वत्सान् सरामो बालकैर्वृतः ।
हन्तुकामं बकं दोर्भ्यां मुखतोऽरिमपाटयत्

vane sañcārayan vatsān sarāmo bālakairvṛtaḥ |
hantukāmaṃ bakaṃ dorbhyāṃ mukhato'rimapāṭayat

26.9

वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया ।
हत्वा न्यपातयत्तेन कपित्थानि च लीलया

vatseṣu vatsarūpeṇa praviśantaṃ jighāṃsayā |
hatvā nyapātayattena kapitthāni ca līlayā

26.10

हत्वा रासभदैतेयं तद्बन्धूंश्च बलान्वितः ।
चक्रे तालवनं क्षेमं परिपक्व फलान्वितम्

hatvā rāsabhadaiteyaṃ tadbandhūṃśca balānvitaḥ |
cakre tālavanaṃ kṣemaṃ paripakva phalānvitam

26.11

प्रलम्बं घातयित्वोग्रं बलेन बलशालिना ।
अमोचयद् व्रजपशून् गोपांश्चारण्यवह्नितः

pralambaṃ ghātayitvograṃ balena balaśālinā |
amocayad vrajapaśūn gopāṃścāraṇyavahnitaḥ

26.12

आशीविषतमाहीन्द्रं दमित्वा विमदं ह्रदात् ।
प्रसह्योद्वास्य यमुनां चक्रेऽसौ निर्विषोदकाम्

āśīviṣatamāhīndraṃ damitvā vimadaṃ hradāt |
prasahyodvāsya yamunāṃ cakre'sau nirviṣodakām

26.13

दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् ।
नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम्

dustyajaścānurāgo'smin sarveṣāṃ no vrajaukasām |
nanda te tanaye'smāsu tasyāpyautpattikaḥ katham

26.14

क्व सप्तहायनो बालः क्व महाद्रिविधारणम् ।
ततो नो जायते शङ्का व्रजनाथ तवात्मजे

kva saptahāyano bālaḥ kva mahādrividhāraṇam |
tato no jāyate śaṅkā vrajanātha tavātmaje

श्रीनन्द उवाच

26.15

श्रूयतां मे वचो गोपा व्येतु शङ्का च वोऽर्भके ।
एनं कुमारमुद्दिश्य गर्गो मे यदुवाच ह

śrūyatāṃ me vaco gopā vyetu śaṅkā ca vo'rbhake |
enaṃ kumāramuddiśya gargo me yaduvāca ha

26.16

वर्णास्त्रयः किलास्यासन् गृह्णतोऽनुयुगं तनूः ।
शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः

varṇāstrayaḥ kilāsyāsan gṛhṇato'nuyugaṃ tanūḥ |
śuklo raktastathā pīta idānīṃ kṛṣṇatāṃ gataḥ

26.17

प्रागयं वसुदेवस्य क्वचित् जातः तवात्मजः ।
वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते

prāgayaṃ vasudevasya kvacit jātaḥ tavātmajaḥ |
vāsudeva iti śrīmān abhijñāḥ sampracakṣate

26.18

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।
गुण कर्मानुरूपाणि तान्यहं वेद नो जनाः

bahūni santi nāmāni rūpāṇi ca sutasya te |
guṇa karmānurūpāṇi tānyahaṃ veda no janāḥ

26.19

एष वः श्रेय आधास्यद् गोपगोकुलनन्दनः ।
अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ

eṣa vaḥ śreya ādhāsyad gopagokulanandanaḥ |
anena sarvadurgāṇi yūyamañjastariṣyatha

26.20

पुरानेन व्रजपते साधवो दस्युपीडिताः ।
अराजके रक्ष्यमाणा जिग्युर्दस्यून्समेधिताः

purānena vrajapate sādhavo dasyupīḍitāḥ |
arājake rakṣyamāṇā jigyurdasyūnsamedhitāḥ

26.21

य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः ।
नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः

ya etasmin mahābhāgāḥ prītiṃ kurvanti mānavāḥ |
nārayo'bhibhavantyetān viṣṇupakṣānivāsurāḥ

26.22

तस्मान् नन्द कुमारोऽयं नारायणसमो गुणैः ।
श्रिया कीर्त्यानुभावेन तत्कर्मसु न विस्मयः

tasmān nanda kumāro'yaṃ nārāyaṇasamo guṇaiḥ |
śriyā kīrtyānubhāvena tatkarmasu na vismayaḥ

26.23

इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते ।
मन्ये नारायणस्यांशं कृष्णं अक्लिष्टकारिणम्

ityaddhā māṃ samādiśya garge ca svagṛhaṃ gate |
manye nārāyaṇasyāṃśaṃ kṛṣṇaṃ akliṣṭakāriṇam

26.24

इति नन्दवचः श्रुत्वा गर्गगीतं व्रजौकसः ।
दृष्टश्रुतानुभावास्ते कृष्णस्यामिततेजसः ।
मुदिता नन्दमानर्चुः कृष्णं च गतविस्मयाः

iti nandavacaḥ śrutvā gargagītaṃ vrajaukasaḥ |
dṛṣṭaśrutānubhāvāste kṛṣṇasyāmitatejasaḥ |
muditā nandamānarcuḥ kṛṣṇaṃ ca gatavismayāḥ

26.25

देवे वर्षति यज्ञविप्लवरुषा
वज्रास्मवर्षानिलैः ।
सीदत्पालपशुस्त्रि आत्मशरणं
दृष्ट्वानुकम्प्युत्स्मयन् ।
उत्पाट्यैककरेण शैलमबलो
लीलोच्छिलीन्ध्रं यथा ।
बिभ्रद् गोष्ठमपान्महेन्द्रमदभित्
प्रीयान्न इन्द्रो गवाम्

deve varṣati yajñaviplavaruṣā
vajrāsmavarṣānilaiḥ |
sīdatpālapaśustri ātmaśaraṇaṃ
dṛṣṭvānukampyutsmayan |
utpāṭyaikakareṇa śailamabalo
līlocchilīndhraṃ yathā |
bibhrad goṣṭhamapānmahendramadabhit
prīyānna indro gavām

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)