क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणीः ।
स्वैरं चरन्त्यो विविशुः तृणलोभेन गह्वरम्
krīḍāsakteṣu gopeṣu tadgāvo dūracāriṇīḥ |
svairaṃ carantyo viviśuḥ tṛṇalobhena gahvaram
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकोनविंशोऽध्यायः ॥
16 श्लोक · 19 में से 90
ग्वालबाल खेल में मग्न हैं और गौएँ घास के लोभ में दूर मुंज के घने वन में चली जाती हैं। बालक पदचिह्न देखकर उन्हें पुकारते हैं, कृष्ण गम्भीर स्वर में उनके नाम लेकर बुलाते हैं और गौएँ उत्तर देती हैं। तभी हवा के झोंकों से भीषण दावानल चारों ओर भड़क उठता है। डरे हुए बालक कृष्ण और बलराम की शरण लेते हैं: हम आपके अपने हैं, हमें बचाइए। कृष्ण कहते हैं, डरो मत, आँखें मूँद लो। वे आँखें मूँदते हैं और योगेश्वर सारी आग पी जाते हैं। आँखें खोलने पर वे स्वयं को गौओं सहित भाण्डीर वट के पास पाते हैं और कृष्ण को देवता मानते हैं। साँझ को वे बाँसुरी बजाते हुए व्रज लौटते हैं और गोपियाँ आनन्दित होती हैं।
श्रीशुक उवाच
क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणीः ।
स्वैरं चरन्त्यो विविशुः तृणलोभेन गह्वरम्
krīḍāsakteṣu gopeṣu tadgāvo dūracāriṇīḥ |
svairaṃ carantyo viviśuḥ tṛṇalobhena gahvaram
अजा गावो महिष्यश्च निर्विशन्त्यो वनाद् वनम् ।
ईषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः
ajā gāvo mahiṣyaśca nirviśantyo vanād vanam |
īṣīkāṭavīṃ nirviviśuḥ krandantyo dāvatarṣitāḥ
तेऽपश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा ।
जातानुतापा न विदुः विचिन्वन्तो गवां गतिम्
te'paśyantaḥ paśūn gopāḥ kṛṣṇarāmādayastadā |
jātānutāpā na viduḥ vicinvanto gavāṃ gatim
तृणैस्तत्खुरदच्छिन्नैः गोष्पदैः अंकितैर्गवाम् ।
मार्गं अन्वगमन् सर्वे नष्टाजीव्या विचेतसः
tṛṇaistatkhuradacchinnaiḥ goṣpadaiḥ aṃkitairgavām |
mārgaṃ anvagaman sarve naṣṭājīvyā vicetasaḥ
मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम् ।
सम्प्राप्य तृषिताः श्रान्ताः ततस्ते संन्यवर्तयन्
muñjāṭavyāṃ bhraṣṭamārgaṃ krandamānaṃ svagodhanam |
samprāpya tṛṣitāḥ śrāntāḥ tataste saṃnyavartayan
ता आहूता भगवता मेघगम्भीरया गिरा ।
स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः
tā āhūtā bhagavatā meghagambhīrayā girā |
svanāmnāṃ ninadaṃ śrutvā pratineduḥ praharṣitāḥ
ततः समन्ताद् वनधूमकेतुः
यदृच्छयाभूत् क्षयकृत् वनौकसाम् ।
समीरितः सारथिनोल्बणोल्मुकैः
विलेलिहानः स्थिरजङ्गमान् महान्
tataḥ samantād vanadhūmaketuḥ
yadṛcchayābhūt kṣayakṛt vanaukasām |
samīritaḥ sārathinolbaṇolmukaiḥ
vilelihānaḥ sthirajaṅgamān mahān
तं आपतन्तं परितो दवाग्निं
गोपाश्च गावः प्रसमीक्ष्य भीताः ।
ऊचुश्च कृष्णं सबलं प्रपन्ना
यथा हरिं मृत्युभयार्दिता जनाः
taṃ āpatantaṃ parito davāgniṃ
gopāśca gāvaḥ prasamīkṣya bhītāḥ |
ūcuśca kṛṣṇaṃ sabalaṃ prapannā
yathā hariṃ mṛtyubhayārditā janāḥ
कृष्ण कृष्ण महावीर हे रामामित विक्रम ।
दावाग्निना दह्यमानान् प्रपन्नान् त्रातुमर्हथः
kṛṣṇa kṛṣṇa mahāvīra he rāmāmita vikrama |
dāvāgninā dahyamānān prapannān trātumarhathaḥ
नूनं त्वद्बान्धवाः कृष्ण न चार्हन्त्यवसीदितुम् ।
वयं हि सर्वधर्मज्ञ त्वन्नाथाः त्वत्परायणाः
nūnaṃ tvadbāndhavāḥ kṛṣṇa na cārhantyavasīditum |
vayaṃ hi sarvadharmajña tvannāthāḥ tvatparāyaṇāḥ
वचो निशम्य कृपणं बन्धूनां भगवान् हरिः ।
निमीलयत मा भैष्ट लोचनानीत्यभाषत
vaco niśamya kṛpaṇaṃ bandhūnāṃ bhagavān hariḥ |
nimīlayata mā bhaiṣṭa locanānītyabhāṣata
तथेति मीलिताक्षेषु भगवान् अग्निमुल्बणम् ।
पीत्वा मुखेन तान्कृच्छ्राद् योगाधीशो व्यमोचयत्
tatheti mīlitākṣeṣu bhagavān agnimulbaṇam |
pītvā mukhena tānkṛcchrād yogādhīśo vyamocayat
ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः ।
निशाम्य विस्मिता आसन् आत्मानं गाश्च मोचिताः
tataśca te'kṣīṇyunmīlya punarbhāṇḍīramāpitāḥ |
niśāmya vismitā āsan ātmānaṃ gāśca mocitāḥ
कृष्णस्य योगवीर्यं तद् योगमायानुभावितम् ।
दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम्
kṛṣṇasya yogavīryaṃ tad yogamāyānubhāvitam |
dāvāgnerātmanaḥ kṣemaṃ vīkṣya te menire'maram
गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः ।
वेणुं विरणयन् गोष्ठं अगाद् गोपैरभिष्टुतः
gāḥ sannivartya sāyāhne saharāmo janārdanaḥ |
veṇuṃ viraṇayan goṣṭhaṃ agād gopairabhiṣṭutaḥ
गोपीनां परमानन्द आसीद् गोविन्ददर्शने ।
क्षणं युगशतमिव यासां येन विनाभवत्
gopīnāṃ paramānanda āsīd govindadarśane |
kṣaṇaṃ yugaśatamiva yāsāṃ yena vinābhavat
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)