ययातेश्चातुर्थपुत्रस्यानोःसभानलचक्षुः परमेषुसंज्ञास्त्रयः पुत्रा बभूवुः
yayāteścāturthaputrasyānoḥsabhānalacakṣuḥ parameṣusaṃjñāstrayaḥ putrā babhūvuḥ
इति श्रीविष्णुमहापुराणे चतुर्थांशेऽष्टादशोऽध्यायः ॥
30 श्लोक · 18 में से 24
पराशर ययाति के चौथे पुत्र अनु का वंश बताते हैं। कालानल, सृंजय और जनमेजय से होता हुआ यह उशीनर और तितिक्षु तक आता है। उशीनर के पुत्र शिबि के चार पुत्र हैं, वृषदर्भ, सुवीर, केकय और मद्रक। तितिक्षु से बलि होते हैं, जिनकी पत्नी से दीर्घतमा ऋषि अंग, वंग, कलिंग, सुह्म और पौण्ड्र को उत्पन्न करते हैं, और पाँच देश उन्हीं के नाम से जाने जाते हैं। अंग वंश में रोमपाद अज के पुत्र दशरथ के मित्र हैं, जो अपनी पुत्री शान्ता निःसन्तान रोमपाद को पालने देते हैं। चम्प चम्पा नगरी बसाते हैं। आगे अधिरथ को गंगा में एक पेटी मिलती है, जिसमें पृथा द्वारा त्यागे कर्ण हैं, और वे उन्हें पुत्र बना लेते हैं। कर्ण के पुत्र वृषसेन पर अंग वंश पूरा होता है।
श्रीपराशर उवाच
ययातेश्चातुर्थपुत्रस्यानोःसभानलचक्षुः परमेषुसंज्ञास्त्रयः पुत्रा बभूवुः
yayāteścāturthaputrasyānoḥsabhānalacakṣuḥ parameṣusaṃjñāstrayaḥ putrā babhūvuḥ
सभानलपुत्रः कालानलः
sabhānalaputraḥ kālānalaḥ
कालानलात्सृंजयः
kālānalātsṛṃjayaḥ
सृंजयात्पुरञ्जयः
sṛṃjayātpurañjayaḥ
पुरञ्जयाज्जनमेजयः
purañjayājjanamejayaḥ
तस्मान्महाशालः
tasmānmahāśālaḥ
तस्माच्च महामनाः
tasmācca mahāmanāḥ
तस्मादुशीनरतितीक्षू द्वौ पुत्रावुत्पन्नौ
tasmāduśīnaratitīkṣū dvau putrāvutpannau
उशीनरस्यापि शिबिनृगनवकृमि वर्माख्याः पञ्च पुत्रा बभूवुः
uśīnarasyāpi śibinṛganavakṛmi varmākhyāḥ pañca putrā babhūvuḥ
पृषदर्भसुवीरकेकयमद्रकाश्चत्वारशिशबिपुत्राः
pṛṣadarbhasuvīrakekayamadrakāścatvāraśiśabiputrāḥ
तितीक्षोरपि रुशद्रथः पुत्रोऽभूत्
titīkṣorapi ruśadrathaḥ putro'bhūt
तस्यापि हेमः हेमस्यापि सुतपाः सुतपसश्च बलिः
tasyāpi hemaḥ hemasyāpi sutapāḥ sutapasaśca baliḥ
यस्य क्षेत्रे दीर्घतमसांगवङ्गकलिङ्गसुह्यपौण्ड्राख्यं वालेयं क्षत्रमजन्यत
yasya kṣetre dīrghatamasāṃgavaṅgakaliṅgasuhyapauṇḍrākhyaṃ vāleyaṃ kṣatramajanyata
तन्नामसंतसतिसंज्ञाश्च पञ्चविषयाः बभूवुः
tannāmasaṃtasatisaṃjñāśca pañcaviṣayāḥ babhūvuḥ
अङ्गादनपानस्ततो दिविरथस्तस्माद्धर्मरथः
aṅgādanapānastato divirathastasmāddharmarathaḥ
ततश्चित्ररथः रोमपादसंज्ञः
tataścitrarathaḥ romapādasaṃjñaḥ
यस्य दशरथो मित्रं जज्ञे
yasya daśaratho mitraṃ jajñe
यस्याजपुत्रो दशरथः शान्तां नाम कन्यामनपत्यस्यदुहितृत्वे युयोज
yasyājaputro daśarathaḥ śāntāṃ nāma kanyāmanapatyasyaduhitṛtve yuyoja
रोमपादाच्चतुरङ्गः तस्मात्पृथुलाक्षः
romapādāccaturaṅgaḥ tasmātpṛthulākṣaḥ
ततश्चंपः यश्चंपां निवेशायामास
tataścaṃpaḥ yaścaṃpāṃ niveśāyāmāsa
चंपस्य हर्यङ्गो नामात्मजोऽभूत्
caṃpasya haryaṅgo nāmātmajo'bhūt
हर्यङ्गाद्भद्ररथः भद्ररथाद्बृहद्रथः बृहद्रथाद्बृहत्कर्मा बृहत्कर्मणश्च वृहद्भानुस्तस्माच्च बृहन्मनाः बृहन्मनसो जयद्रथः
haryaṅgādbhadrarathaḥ bhadrarathādbṛhadrathaḥ bṛhadrathādbṛhatkarmā bṛhatkarmaṇaśca vṛhadbhānustasmācca bṛhanmanāḥ bṛhanmanaso jayadrathaḥ
जयद्रथो ब्रहमक्षत्रान्तरालसंभूत्यां पत्न्यां विजयं नाम पुत्रमजीजनत्
jayadratho brahamakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putramajījanat
विजयश्च धृतिं पुत्रमवाप
vijayaśca dhṛtiṃ putramavāpa
तस्यापि धृतव्रतः पुत्रोऽभूत्
tasyāpi dhṛtavrataḥ putro'bhūt
धृतव्रतात्सत्यकर्मा
dhṛtavratātsatyakarmā
सत्यकर्मणस्त्वतिरथः
satyakarmaṇastvatirathaḥ
यो गङ्गाङ्गतो मञ्जूषागतं पृथापविद्धं कर्णं पुत्रमवाप
yo gaṅgāṅgato mañjūṣāgataṃ pṛthāpaviddhaṃ karṇaṃ putramavāpa
कर्णाद्वृषसेनः इत्येतदन्ता अङ्गवंश्याः
karṇādvṛṣasenaḥ ityetadantā aṅgavaṃśyāḥ
अतश्च पुरुवंशं श्रोतुमर्हसि
ataśca puruvaṃśaṃ śrotumarhasi
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)