तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ ।
बद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ
tatrāṃtare tau ca nāthaṃ praṇamya vidhimādhavau |
baddhāṃjalipuṭau tūṣṇīṃ tasthaturdakṣavāmagau
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां नवमोऽध्यायः ॥
46 श्लोक · 9 में से 25
ब्रह्मा और विष्णु महादेव को परिवार सहित सिंहासन पर बिठाकर उत्तम उपचारों से पूजते हैं। प्रसन्न शिव कहते हैं कि यह दिन उन्हें प्रिय शिवरात्रि कहलाएगा: इस रात उपवास करके लिंग या प्रतिमा की पूजा से वर्षभर की पूजा का फल मिलता है। जिस घड़ी वे स्तम्भ रूप में प्रकट हुए, मार्गशीर्ष की आर्द्रा, वह विशेष पवित्र है। अग्निलिंग छोटा होकर सबके दर्शन के लिए रहेगा और अरुणाचल कहलाएगा, जहाँ रहने और मरने से मुक्ति मिलती है। वे गिरी सेनाओं को जिलाकर उपदेश देते हैं: केवल उनके ही दो रूप हैं, निष्कल लिंग उनके ब्रह्म होने का और सकल रूप उनके ईश्वर होने का बोध कराता है। जहाँ उनका लिंग प्रतिष्ठित हो, वहाँ वे स्वयं रहते हैं।
नंदिकेश्वर उवाच
तत्रांतरे तौ च नाथं प्रणम्य विधिमाधवौ ।
बद्धांजलिपुटौ तूष्णीं तस्थतुर्दक्षवामगौ
tatrāṃtare tau ca nāthaṃ praṇamya vidhimādhavau |
baddhāṃjalipuṭau tūṣṇīṃ tasthaturdakṣavāmagau
तत्र संस्थाप्य तौ देवं सकुटुंबं वरासने ।
पूजयामासतुः पूज्यं पुण्यैः पुरुषवस्तुभिः
tatra saṃsthāpya tau devaṃ sakuṭuṃbaṃ varāsane |
pūjayāmāsatuḥ pūjyaṃ puṇyaiḥ puruṣavastubhiḥ
पौरुषं प्राकृतं वस्तुज्ञेयं दीर्घाल्पकालिकम् ।
हारनूपुरकेयूरकिरीटमणिकुंडलैः
pauruṣaṃ prākṛtaṃ vastujñeyaṃ dīrghālpakālikam |
hāranūpurakeyūrakirīṭamaṇikuṃḍalaiḥ
यज्ञसूत्रोत्तरीयस्रक्क्षौममाल्यांगुलीयकैः ।
पुष्पतांबूलकर्पूरचंदनागुरुलेपनैः
yajñasūtrottarīyasrakkṣaumamālyāṃgulīyakaiḥ |
puṣpatāṃbūlakarpūracaṃdanāgurulepanaiḥ
धूपदीपसितच्छत्रव्यजनध्वजचामरैः ।
अन्यैर्दिव्योपहारैश्च वाण्मनोतीतवैभवैः
dhūpadīpasitacchatravyajanadhvajacāmaraiḥ |
anyairdivyopahāraiśca vāṇmanotītavaibhavaiḥ
पतियोग्यैः पश्वलभ्यैस्तौ समर्चयतां पतिम् ।
यद्यच्छ्रेष्ठतमं वस्तु पतियोग्यं हितद्ध्वजे
patiyogyaiḥ paśvalabhyaistau samarcayatāṃ patim |
yadyacchreṣṭhatamaṃ vastu patiyogyaṃ hitaddhvaje
तद्वस्त्वखिलमीशोपि पारं पर्यचिकीर्षया ।
सभ्यानां प्रददौ हृष्टः पृथक्तत्र यथाक्रमम्
tadvastvakhilamīśopi pāraṃ paryacikīrṣayā |
sabhyānāṃ pradadau hṛṣṭaḥ pṛthaktatra yathākramam
कोलाहलो महानासीत्तत्र तद्वस्तु गृह्णताम् ।
तत्रैव ब्रह्मविष्णुभ्यां चार्चितः शंकरः पुरा
kolāhalo mahānāsīttatra tadvastu gṛhṇatām |
tatraiva brahmaviṣṇubhyāṃ cārcitaḥ śaṃkaraḥ purā
प्रसन्नः प्राह तौ नम्रौ सस्मितं भक्तिवर्धनः ।
(ईश्वर उवाच)
तुष्टोऽहमद्य वां वत्सौ पूजयाऽस्मिन्महादिने
prasannaḥ prāha tau namrau sasmitaṃ bhaktivardhanaḥ |
(īśvara uvāca)
tuṣṭo'hamadya vāṃ vatsau pūjayā'sminmahādine
दिनमेतत्ततः पुण्यं भविष्यति महत्तरम् ।
शिवरात्रिरिति ख्याता तिथिरेषा मम प्रिया
dinametattataḥ puṇyaṃ bhaviṣyati mahattaram |
śivarātririti khyātā tithireṣā mama priyā
एतत्काले तु यः कुर्यात्पूजां मल्लिंगबेरयोः ।
कुर्यात्तु जगतः कृत्यं स्थितिसर्गादिकं पुमान्
etatkāle tu yaḥ kuryātpūjāṃ malliṃgaberayoḥ |
kuryāttu jagataḥ kṛtyaṃ sthitisargādikaṃ pumān
शिवरात्रावहोरात्रं निराहारो जितेंद्रि यः ।
अर्चयेद्वा यथान्यायं यथाबलमवंचकः
śivarātrāvahorātraṃ nirāhāro jiteṃdri yaḥ |
arcayedvā yathānyāyaṃ yathābalamavaṃcakaḥ
यत्फलं मम पूजायां वर्षमेकं निरंतरम् ।
तत्फलं लभते सद्यः शिवरात्रौ मदर्चनात्
yatphalaṃ mama pūjāyāṃ varṣamekaṃ niraṃtaram |
tatphalaṃ labhate sadyaḥ śivarātrau madarcanāt
मद्धर्मवृद्धिकालोऽयं चंद्र काल इवांबुधेः ।
प्रतिष्ठाद्युत्सवो यत्र मामको मंगलायनः
maddharmavṛddhikālo'yaṃ caṃdra kāla ivāṃbudheḥ |
pratiṣṭhādyutsavo yatra māmako maṃgalāyanaḥ
यत्पुनः स्तंभरूपेण स्वाविरासमहं पुरा ।
स कालो मार्गशीर्षे तु स्यादाद्रा र् ऋक्षमर्भकौ
yatpunaḥ staṃbharūpeṇa svāvirāsamahaṃ purā |
sa kālo mārgaśīrṣe tu syādādrā r ṛkṣamarbhakau
आद्रा र्यां मार्गशीर्षे तु यः पश्येन्मामुमासखम् ।
मद्बेरमपि वा लिंगं स गुहादपि मे प्रियः
ādrā ryāṃ mārgaśīrṣe tu yaḥ paśyenmāmumāsakham |
madberamapi vā liṃgaṃ sa guhādapi me priyaḥ
अलं दर्शनमात्रेण फलं तस्मिन्दिने शुभे ।
अभ्यर्चनं चेदधिकं फलं वाचामगोचरम्
alaṃ darśanamātreṇa phalaṃ tasmindine śubhe |
abhyarcanaṃ cedadhikaṃ phalaṃ vācāmagocaram
रणरंगतलेऽमुष्मिन्यदहं लिंगवर्ष्मणा ।
जृंभितो लिंगवत्तस्माल्लिंगस्थानमिदं भवेत्
raṇaraṃgatale'muṣminyadahaṃ liṃgavarṣmaṇā |
jṛṃbhito liṃgavattasmālliṃgasthānamidaṃ bhavet
अनाद्यंतमिदं स्तंभमणुमात्रं भविष्यति ।
दर्शनार्थं हि जगतां पूजनार्थं हि पुत्रको
anādyaṃtamidaṃ staṃbhamaṇumātraṃ bhaviṣyati |
darśanārthaṃ hi jagatāṃ pūjanārthaṃ hi putrako
भोगावहमिदं लिंगं भुक्तिं मुक्त्येकसाधनम् ।
दर्शनस्पर्शनध्यानाज्जंतूनां जन्ममोचनम्
bhogāvahamidaṃ liṃgaṃ bhuktiṃ muktyekasādhanam |
darśanasparśanadhyānājjaṃtūnāṃ janmamocanam
अनलाचलसंकाशं यदिदं लिंगमुत्थितम् ।
अरुणाचलमित्येव तदिदं ख्यातिमेष्यति
analācalasaṃkāśaṃ yadidaṃ liṃgamutthitam |
aruṇācalamityeva tadidaṃ khyātimeṣyati
अत्र तीर्थं च बहुधा भविष्यति महत्तरम् ।
मुक्तिरप्यत्र जंतूनां वासेन मरणेन च
atra tīrthaṃ ca bahudhā bhaviṣyati mahattaram |
muktirapyatra jaṃtūnāṃ vāsena maraṇena ca
रथोत्सवादिकल्याणं जनावासं तु सर्वतः ।
अत्र दत्तं हुतं जप्तं सर्वं कोटिगुणं भवेत्
rathotsavādikalyāṇaṃ janāvāsaṃ tu sarvataḥ |
atra dattaṃ hutaṃ japtaṃ sarvaṃ koṭiguṇaṃ bhavet
मत्क्षेत्रादपि सर्वस्मात्क्षेत्रमेतन्महत्तरम् ।
अत्र संस्मृतिमात्रेण मुक्तिर्भवति देहिनाम्
matkṣetrādapi sarvasmātkṣetrametanmahattaram |
atra saṃsmṛtimātreṇa muktirbhavati dehinām
तस्मान्महत्तरमिदं क्षेत्रमत्यंतशोभनम् ।
सर्वकल्याणसंपूर्णं सर्वमुक्तिकरं शुभम्
tasmānmahattaramidaṃ kṣetramatyaṃtaśobhanam |
sarvakalyāṇasaṃpūrṇaṃ sarvamuktikaraṃ śubham
अर्चयित्वाऽत्र मामेव लिंगे लिंगिनमीश्वरम् ।
सालोक्यं चैव सामीप्यं सारूप्यं सार्ष्टिरेव च
arcayitvā'tra māmeva liṃge liṃginamīśvaram |
sālokyaṃ caiva sāmīpyaṃ sārūpyaṃ sārṣṭireva ca
सायुज्यमिति पंचैते क्रियादीनां फलं मतम् ।
सर्वेपि यूयं सकलं प्राप्स्यथाशु मनोरथम्
sāyujyamiti paṃcaite kriyādīnāṃ phalaṃ matam |
sarvepi yūyaṃ sakalaṃ prāpsyathāśu manoratham
इत्यनुगृह्य भगवान्विनीतौ विधिमाधवौ ।
यत्पूर्वं प्रहतं युद्धे तयोः सैन्यं परस्परम्
ityanugṛhya bhagavānvinītau vidhimādhavau |
yatpūrvaṃ prahataṃ yuddhe tayoḥ sainyaṃ parasparam
तदुत्थापयदत्यर्थं स्वशक्त्याऽमृतधारया ।
तयोर्मौढ्यं च वैरं च व्यपनेतुमुवाच तौ
tadutthāpayadatyarthaṃ svaśaktyā'mṛtadhārayā |
tayormauḍhyaṃ ca vairaṃ ca vyapanetumuvāca tau
सकलं निष्कलं चेति स्वरूपद्वयमस्ति मे ।
नान्यस्य कस्यचित्तस्मादन्यः सर्वोप्यनीश्वरः
sakalaṃ niṣkalaṃ ceti svarūpadvayamasti me |
nānyasya kasyacittasmādanyaḥ sarvopyanīśvaraḥ
पुरस्तात्स्तंभरूपेण पश्चाद्रू पेण चार्भकौ ।
ब्रह्मत्वं निष्कलं प्रोक्तमीशत्वं सकलं तथा
purastātstaṃbharūpeṇa paścādrū peṇa cārbhakau |
brahmatvaṃ niṣkalaṃ proktamīśatvaṃ sakalaṃ tathā
द्वयं ममैव संसिद्धं न मदन्यस्य कस्यचित् ।
तस्मादीशत्वमन्येषां युवयोरपि न क्वचित्
dvayaṃ mamaiva saṃsiddhaṃ na madanyasya kasyacit |
tasmādīśatvamanyeṣāṃ yuvayorapi na kvacit
तदज्ञानेन वां वृत्तमीशमानं महाद्भुतम् ।
तन्निराकर्तुमत्रैवमुत्थितोऽहं रणक्षितौ
tadajñānena vāṃ vṛttamīśamānaṃ mahādbhutam |
tannirākartumatraivamutthito'haṃ raṇakṣitau
त्यजतं मानमात्मीयं मयीशे कुरुतं मतिम् ।
मत्प्रसादेन लोकेषु सर्वोप्यर्थः प्रकाशते
tyajataṃ mānamātmīyaṃ mayīśe kurutaṃ matim |
matprasādena lokeṣu sarvopyarthaḥ prakāśate
गुरूक्तिर्व्यंजकं तत्र प्रमाणं वा पुनः पुनः ।
ब्रह्मतत्त्वमिदं गूढं भवत्प्रीत्या भणाम्यहम्
gurūktirvyaṃjakaṃ tatra pramāṇaṃ vā punaḥ punaḥ |
brahmatattvamidaṃ gūḍhaṃ bhavatprītyā bhaṇāmyaham
अहमेव परं ब्रह्म मत्स्वरूपं कलाकलम् ।
ब्रह्मत्वादीश्वरश्चाहं कृत्यं मेनुग्रहादिकम्
ahameva paraṃ brahma matsvarūpaṃ kalākalam |
brahmatvādīśvaraścāhaṃ kṛtyaṃ menugrahādikam
बृहत्त्वाद्बृंहणत्वाच्च ब्रह्माहं ब्रह्मकेशवौ ।
समत्वाद्व्यापकत्वाच्च तथैवात्माहमर्भकौ
bṛhattvādbṛṃhaṇatvācca brahmāhaṃ brahmakeśavau |
samatvādvyāpakatvācca tathaivātmāhamarbhakau
अनात्मानः परे सर्वे जीवा एव न संशयः ।
अनुग्रहाद्यं सर्गांतं जगत्कृत्यं च पंकजम्
anātmānaḥ pare sarve jīvā eva na saṃśayaḥ |
anugrahādyaṃ sargāṃtaṃ jagatkṛtyaṃ ca paṃkajam
ईशत्वादेव मे नित्यं न मदन्यस्य कस्यचित् ।
आदौ ब्रह्मत्त्वबुद्ध्यर्थं निष्कलं लिंगमुत्थितम्
īśatvādeva me nityaṃ na madanyasya kasyacit |
ādau brahmattvabuddhyarthaṃ niṣkalaṃ liṃgamutthitam
तस्मादज्ञातमीशत्वं व्यक्तं द्योतयितुं हि वाम् ।
सकलोहमतो जातः साक्षादीशस्तु तत्क्षणात्
tasmādajñātamīśatvaṃ vyaktaṃ dyotayituṃ hi vām |
sakalohamato jātaḥ sākṣādīśastu tatkṣaṇāt
सकलत्वमतो ज्ञेयमीशत्वं मयि सत्वरम् ।
यदिदं निष्कलं स्तंभं मम ब्रह्मत्वबोधकम्
sakalatvamato jñeyamīśatvaṃ mayi satvaram |
yadidaṃ niṣkalaṃ staṃbhaṃ mama brahmatvabodhakam
लिंगलक्षणयुक्तत्वान्मम लिंगं भवेदिदम् ।
तदिदं नित्यमभ्यर्च्यं युवाभ्यामत्र पुत्रकौ
liṃgalakṣaṇayuktatvānmama liṃgaṃ bhavedidam |
tadidaṃ nityamabhyarcyaṃ yuvābhyāmatra putrakau
मदात्मकमिदं नित्यं मम सान्निध्यकारणम् ।
महत्पूज्यमिदं नित्यमभेदाल्लिंगसिंगिनोः
madātmakamidaṃ nityaṃ mama sānnidhyakāraṇam |
mahatpūjyamidaṃ nityamabhedālliṃgasiṃginoḥ
यत्रप्रतिष्ठितं येन मदीयं लिंगमीदृशम् ।
तत्र प्रतिष्ठितः सोहमप्रतिष्ठोपि वत्सकौ
yatrapratiṣṭhitaṃ yena madīyaṃ liṃgamīdṛśam |
tatra pratiṣṭhitaḥ sohamapratiṣṭhopi vatsakau
मत्साम्यमेकलिंगस्य स्थापने फलमीरितम् ।
द्वितीये स्थापिते लिंगे मदैक्यं फलमेव हि
matsāmyamekaliṃgasya sthāpane phalamīritam |
dvitīye sthāpite liṃge madaikyaṃ phalameva hi
लिंगं प्राधान्यतः स्थाप्यं तथाबेरं तु गौणकम् ।
लिंगाभावेन तत्क्षेत्रं सबेरमपि सर्वतः
liṃgaṃ prādhānyataḥ sthāpyaṃ tathāberaṃ tu gauṇakam |
liṃgābhāvena tatkṣetraṃ saberamapi sarvataḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)