विद्येश्वर संहिता

अध्याय 19: कलियुग में पार्थिव लिंग सर्वश्रेष्ठ

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां साध्यसाधनखंडे पार्थिवशिवलिंगपूजनमाहात्म्यवर्णनं नामैकोनविंशोऽध्यायः ॥

37 श्लोक · 19 में से 25

इस अध्याय में क्या होता है

कलियुग में पार्थिव लिंग सर्वश्रेष्ठ

ऋषि सूत को आशीर्वाद देकर पार्थिव लिंग की महिमा फिर पूछते हैं, जैसी व्यास ने कही थी। सूत कहते हैं कि सब लिंगों में मिट्टी का पार्थिव लिंग श्रेष्ठ है। विष्णु, ब्रह्मा, ऋषि, देवता, असुर और मनुष्य सबने इसकी पूजा से अभीष्ट पाया। सत्ययुग में लिंग रत्न का था, त्रेता में स्वर्ण का, द्वापर में पारे का, और कलियुग में मिट्टी का है। जैसे देवताओं में महेश्वर, नदियों में गंगा, नगरियों में काशी और व्रतों में शिवरात्रि श्रेष्ठ है, वैसे ही लिंगों में पार्थिव। जो प्रतिदिन इसे बनाकर बिल्वपत्र से पूजता है, वह इसी शरीर से रुद्रलोक में सम्मानित होता है। चल लिंग अखण्ड बने, और स्थावर लिंग वेदिका सहित दो खण्डों में, इसके विपरीत कभी नहीं।

ऋषय ऊचुः

19.1

सूत सूत चिरंजीव धन्यस्त्वं शिवभक्तिमान् ।
सम्यगुक्तस्त्वया लिंगमहिमा सत्फलप्रदः

sūta sūta ciraṃjīva dhanyastvaṃ śivabhaktimān |
samyaguktastvayā liṃgamahimā satphalapradaḥ

19.2

यत्र पार्थिवमाहेशलिंगस्य महिमाधुना ।
सर्वोत्कृष्टश्च कथितो व्यासतो ब्रूहि तं पुनः

yatra pārthivamāheśaliṃgasya mahimādhunā |
sarvotkṛṣṭaśca kathito vyāsato brūhi taṃ punaḥ

सूत उवाच

19.3

शृणुध्वमृषयः सर्वे सद्भक्त्या हरतो खिलाः ।
शिवपार्थिवलिंगस्य महिमा प्रोच्यते मया

śṛṇudhvamṛṣayaḥ sarve sadbhaktyā harato khilāḥ |
śivapārthivaliṃgasya mahimā procyate mayā

19.4

उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम् ।
तस्य पूजनतो विप्रा बहवः सिद्धिमागताः

ukteṣveteṣu liṃgeṣu pārthivaṃ liṃgamuttamam |
tasya pūjanato viprā bahavaḥ siddhimāgatāḥ

19.5

हरिर्ब्रह्मा च ऋषयः सप्रजापतयस्तथा ।
संपूज्य पार्थिवं लिंगं प्रापुःसर्वेप्सितं द्विजाः

harirbrahmā ca ṛṣayaḥ saprajāpatayastathā |
saṃpūjya pārthivaṃ liṃgaṃ prāpuḥsarvepsitaṃ dvijāḥ

19.6

देवासुरमनुष्याश्च गंधर्वोरगराक्षसाः ।
अन्येपि बहवस्तं संपूज्य सिद्धिं गताः परम्

devāsuramanuṣyāśca gaṃdharvoragarākṣasāḥ |
anyepi bahavastaṃ saṃpūjya siddhiṃ gatāḥ param

19.7

कृते रत्नमयं लिंगं त्रेतायां हेमसंभवम् ।
द्वापरे पारदं श्रेष्ठं पार्थिवं तु कलौ युगे

kṛte ratnamayaṃ liṃgaṃ tretāyāṃ hemasaṃbhavam |
dvāpare pāradaṃ śreṣṭhaṃ pārthivaṃ tu kalau yuge

19.8

अष्टमूर्तिषु सर्वासु मूर्तिर्वै पार्थिवी वरा ।
अनन्यपूजिता विप्रास्तपस्तस्मान्महत्फलम्

aṣṭamūrtiṣu sarvāsu mūrtirvai pārthivī varā |
ananyapūjitā viprāstapastasmānmahatphalam

19.9

यथा सर्वेषु देवेषु ज्येष्ठः श्रेष्ठो महेश्वरः ।
एवं सर्वेषु लिंगेषु पार्थिवं श्रेष्टमुच्यते

yathā sarveṣu deveṣu jyeṣṭhaḥ śreṣṭho maheśvaraḥ |
evaṃ sarveṣu liṃgeṣu pārthivaṃ śreṣṭamucyate

19.10

यथा नदीषु सर्वासु ज्येष्ठा श्रेष्ठा सुरापगा ।
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते

yathā nadīṣu sarvāsu jyeṣṭhā śreṣṭhā surāpagā |
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate

19.11

यथा सर्वेषु मंत्रेषु प्रणवो हि महान्स्मृतः ।
तथेदं पार्थिवं श्रेष्ठमाराध्यं पूज्यमेव हि

yathā sarveṣu maṃtreṣu praṇavo hi mahānsmṛtaḥ |
tathedaṃ pārthivaṃ śreṣṭhamārādhyaṃ pūjyameva hi

19.12

यथा सर्वेषु वर्णेषु ब्राह्मणःश्रेष्ठ उच्यते ।
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते

yathā sarveṣu varṇeṣu brāhmaṇaḥśreṣṭha ucyate |
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate

19.13

यथा पुरीषु सर्वासु काशीश्रेष्ठतमा स्मृता ।
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते

yathā purīṣu sarvāsu kāśīśreṣṭhatamā smṛtā |
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate

19.14

यथा व्रतेषु सर्वेषु शिवरात्रिव्रतं परम् ।
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्थमुच्यते

yathā vrateṣu sarveṣu śivarātrivrataṃ param |
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣthamucyate

19.15

यथा देवीषु सर्वासु शैवीशक्तिः परास्मृता ।
तथा सर्वेषु लिंगेषु पार्थिवं श्रेष्ठमुच्यते

yathā devīṣu sarvāsu śaivīśaktiḥ parāsmṛtā |
tathā sarveṣu liṃgeṣu pārthivaṃ śreṣṭhamucyate

19.16

प्रकृत्यपार्थिवं लिंगं योन्यदेवं प्रपूजयेत् ।
वृथा भवति सा पूजा स्नानदानादिकं वृथा

prakṛtyapārthivaṃ liṃgaṃ yonyadevaṃ prapūjayet |
vṛthā bhavati sā pūjā snānadānādikaṃ vṛthā

19.17

पार्थिवाराधनं पुण्यं धन्यमायुर्विवर्धनम् ।
तुष्टिदं पुष्टिदंश्रीदं कार्यं साधकसत्तमैः

pārthivārādhanaṃ puṇyaṃ dhanyamāyurvivardhanam |
tuṣṭidaṃ puṣṭidaṃśrīdaṃ kāryaṃ sādhakasattamaiḥ

19.18

यथा लब्धोपचारैश्च भक्त्या श्रद्धासमन्वितः ।
पूजयेत्पार्थिवं लिंगं सर्वकामार्थसिद्धिदम्

yathā labdhopacāraiśca bhaktyā śraddhāsamanvitaḥ |
pūjayetpārthivaṃ liṃgaṃ sarvakāmārthasiddhidam

19.19

यः कृत्वा पार्थिवं लिंगे पूजयेच्छुभवेदिकम् ।
इहैव धनवाञ्छ्रीमानंते रुद्रो भिजायते

yaḥ kṛtvā pārthivaṃ liṃge pūjayecchubhavedikam |
ihaiva dhanavāñchrīmānaṃte rudro bhijāyate

19.20

त्रिसंध्यं योर्चयंल्लिंगं कृत्वा बिल्वेन पार्थिवम् ।
दशैकादशकंयावत्तस्य पुण्यफलं शृणु

trisaṃdhyaṃ yorcayaṃlliṃgaṃ kṛtvā bilvena pārthivam |
daśaikādaśakaṃyāvattasya puṇyaphalaṃ śṛṇu

19.21

अनेनैव स्वदेहेन रुद्र लोके महीयते ।
पापहं सर्वमर्त्यानां दर्शनात्स्पर्शनादपि

anenaiva svadehena rudra loke mahīyate |
pāpahaṃ sarvamartyānāṃ darśanātsparśanādapi

19.22

जीवन्मुक्तः स वैज्ञानी शिव एव न संशयः ।
तस्य दर्शनमात्रेण भुक्तिर्मुक्तिश्च जायते

jīvanmuktaḥ sa vaijñānī śiva eva na saṃśayaḥ |
tasya darśanamātreṇa bhuktirmuktiśca jāyate

19.23

शिवं यः पूजयेन्नित्यं कृत्वा लिंगं तु पार्थिवम् ।
यावज्जीवनपर्यंतं स याति शिवमन्दिरम्

śivaṃ yaḥ pūjayennityaṃ kṛtvā liṃgaṃ tu pārthivam |
yāvajjīvanaparyaṃtaṃ sa yāti śivamandiram

19.24

मृडेनाप्रमितान्वर्षाञ्छिवलोकेहि तिष्ठति ।
सकामः पुनरागत्य राजेन्द्रो भारते भवेत्

mṛḍenāpramitānvarṣāñchivalokehi tiṣṭhati |
sakāmaḥ punarāgatya rājendro bhārate bhavet

19.25

निष्कामः पूजयेन्नित्यं पार्थिवंलिंगमुत्तमम् ।
शिवलोके सदा तिष्ठेत्ततः सायुज्यमाप्नुयात्

niṣkāmaḥ pūjayennityaṃ pārthivaṃliṃgamuttamam |
śivaloke sadā tiṣṭhettataḥ sāyujyamāpnuyāt

19.26

पार्थिवं शिवलिंगं च विप्रो यदि न पूजयेत् ।
स याति नरकं घोरं शूलप्रोतं सुदारुणम्

pārthivaṃ śivaliṃgaṃ ca vipro yadi na pūjayet |
sa yāti narakaṃ ghoraṃ śūlaprotaṃ sudāruṇam

19.27

यथाकथंचिद्विधिना रम्यं लिंगं प्रकारयेत् ।
पंचसूत्रविधानां च पार्थिवेन विचारयेत्

yathākathaṃcidvidhinā ramyaṃ liṃgaṃ prakārayet |
paṃcasūtravidhānāṃ ca pārthivena vicārayet

19.28

अखण्डं तद्धि कर्तव्यं न विखण्डं प्रकारयेत् ।
द्विखण्डं तु प्रकुर्वाणो नैव पूजाफलं लभेत्

akhaṇḍaṃ taddhi kartavyaṃ na vikhaṇḍaṃ prakārayet |
dvikhaṇḍaṃ tu prakurvāṇo naiva pūjāphalaṃ labhet

19.29

रत्नजं हेमजं लिंगं पारदं स्फाटिकं तथा ।
पार्थिवं पुष्परागोत्थमखंडं तु प्रकारयेत्

ratnajaṃ hemajaṃ liṃgaṃ pāradaṃ sphāṭikaṃ tathā |
pārthivaṃ puṣparāgotthamakhaṃḍaṃ tu prakārayet

19.30

अखंडं तु चरं लिंगं द्विखंडमचरं स्मृतम् ।
खंडाखंडविचारोयं सचराचरयोः स्मृतः

akhaṃḍaṃ tu caraṃ liṃgaṃ dvikhaṃḍamacaraṃ smṛtam |
khaṃḍākhaṃḍavicāroyaṃ sacarācarayoḥ smṛtaḥ

19.31

वेदिका तु महाविद्या लिंगं देवो महेश्वरः ।
अतो हि स्थावरे लिंगे स्मृता श्रेष्ठादिखंडिता

vedikā tu mahāvidyā liṃgaṃ devo maheśvaraḥ |
ato hi sthāvare liṃge smṛtā śreṣṭhādikhaṃḍitā

19.32

द्विखंडं स्थावरं लिंगं कर्तव्यं हि विधानतः ।
अखंडं जंगमं प्रोक्तंश् ऐवसिद्धान्तवेदिभिः

dvikhaṃḍaṃ sthāvaraṃ liṃgaṃ kartavyaṃ hi vidhānataḥ |
akhaṃḍaṃ jaṃgamaṃ proktaṃś aivasiddhāntavedibhiḥ

19.33

द्विखंडं तु चरां लिंगं कुर्वन्त्यज्ञानमोहिताः ।
नैव सिद्धान्तवेत्तारो मुनयः शास्त्रकोविदाः

dvikhaṃḍaṃ tu carāṃ liṃgaṃ kurvantyajñānamohitāḥ |
naiva siddhāntavettāro munayaḥ śāstrakovidāḥ

19.34

अखंडं स्थावरं लिंगं द्विखंडं चरमेव च ।
येकुर्वन्तिनरामूढानपूजाफलभागिनः

akhaṃḍaṃ sthāvaraṃ liṃgaṃ dvikhaṃḍaṃ carameva ca |
yekurvantinarāmūḍhānapūjāphalabhāginaḥ

19.35

तस्माच्छास्त्रोक्तविधिना अखंडं चरसंज्ञकम् ।
द्विखंडं स्थावरं लिंगं कर्तव्यं परया मुदा

tasmācchāstroktavidhinā akhaṃḍaṃ carasaṃjñakam |
dvikhaṃḍaṃ sthāvaraṃ liṃgaṃ kartavyaṃ parayā mudā

19.36

अखंडे तु चरे पूजा सम्पूर्णफलदायिनी ।
द्विखंडे तु चरे पूजामहाहानिप्रदा स्मृता

akhaṃḍe tu care pūjā sampūrṇaphaladāyinī |
dvikhaṃḍe tu care pūjāmahāhānipradā smṛtā

19.37

अखंडे स्थावरे पूजा न कामफलदायिनी ।
प्रत्यवायकरी नित्यमित्युक्तं शास्त्रवेदिभिः

akhaṃḍe sthāvare pūjā na kāmaphaladāyinī |
pratyavāyakarī nityamityuktaṃ śāstravedibhiḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)