विद्येश्वर संहिता

अध्याय 15: देश, काल और दान का सुपात्र

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां पंचदशोध्यायः ॥

61 श्लोक · 15 में से 25

इस अध्याय में क्या होता है

देश, काल और दान का सुपात्र

सूत पूजा के स्थानों का क्रम बताते हैं। स्वच्छ घर मूल फल देता है; गोशाला दस गुना, फिर नदीतट, बिल्व, तुलसी या पीपल का मूल, देवालय, तीर्थ, और सात गंगाओं के तट: गंगा, गोदावरी, कावेरी, ताम्रपर्णी, सिन्धु, सरयू और रेवा। उनसे ऊपर समुद्रतट और पर्वत-शिखर, और सबसे ऊपर वह स्थान जहाँ मन रम जाए। काल का भी क्रम है: संक्रान्ति, विषुव, अयन, चन्द्रग्रहण और सूर्यग्रहण, हर एक दस गुना। पात्र वह है जो पतन से बचाए, विशेषकर गायत्री जप से शुद्ध ब्राह्मण। हर दान का अपना फल है: भूमि से प्रतिष्ठा, तिल से बल, घी से पुष्टि, वस्त्र से आयु। निर्धन वाणी और शरीर से, जप और तीर्थयात्रा द्वारा पूजा करे। ईश्वर को अर्पित हर कर्म मोक्ष देता है।

ऋषय ऊचुः

15.1

देशादीन्क्रमशो ब्रूहि सूत सर्वार्थवित्तम् ।
(सूत उवाच)
शुद्धं गृहं समफलं देवयज्ञादिकर्मसु

deśādīnkramaśo brūhi sūta sarvārthavittam |
(sūta uvāca)
śuddhaṃ gṛhaṃ samaphalaṃ devayajñādikarmasu

15.2

ततो दशगुणं गोष्ठं जलतीरं ततो दश ।
ततो दशगुणं बिल्वतुलस्यश्वत्थमूलकम्

tato daśaguṇaṃ goṣṭhaṃ jalatīraṃ tato daśa |
tato daśaguṇaṃ bilvatulasyaśvatthamūlakam

15.3

ततो देवालयं विद्यात्तीर्थतीरं ततो दश ।
ततो दशगुणं नद्यास्तीर्थनद्यास्ततो दश

tato devālayaṃ vidyāttīrthatīraṃ tato daśa |
tato daśaguṇaṃ nadyāstīrthanadyāstato daśa

15.4

सप्तगंगानदीतीरं तस्या दशगुणं भवेत् ।
गंगा गोदावरी चैव कावेरी ताम्रपर्णिका

saptagaṃgānadītīraṃ tasyā daśaguṇaṃ bhavet |
gaṃgā godāvarī caiva kāverī tāmraparṇikā

15.5

सिंधुश्च सरयू रेवा सप्तगंगाः प्रकीर्तिताः ।
ततोऽब्धितीरं दश च पर्वताग्रे ततो दश

siṃdhuśca sarayū revā saptagaṃgāḥ prakīrtitāḥ |
tato'bdhitīraṃ daśa ca parvatāgre tato daśa

15.6

सर्वस्मादधिकं ज्ञेयं यत्र वा रोचते मनः ।
कृते पूर्णफलं ज्ञेयं यज्ञदानादिकं तथा

sarvasmādadhikaṃ jñeyaṃ yatra vā rocate manaḥ |
kṛte pūrṇaphalaṃ jñeyaṃ yajñadānādikaṃ tathā

15.7

त्रेतायुगे त्रिपादं च द्वापरेऽर्धं सदा स्मृतम् ।
कलौ पादं तु विज्ञेयं तत्पादोनं ततोर्द्धके

tretāyuge tripādaṃ ca dvāpare'rdhaṃ sadā smṛtam |
kalau pādaṃ tu vijñeyaṃ tatpādonaṃ tatorddhake

15.8

शुद्धात्मनः शुद्धदिनं पुण्यं समफलं विदुः ।
तस्माद्दशगुणं ज्ञेयं रविसंक्रमणे बुधाः

śuddhātmanaḥ śuddhadinaṃ puṇyaṃ samaphalaṃ viduḥ |
tasmāddaśaguṇaṃ jñeyaṃ ravisaṃkramaṇe budhāḥ

15.9

विषुवे तद्दशगुणमयने तद्दश स्मृतम् ।
तद्दश मृगसंक्रांतौ तच्चंद्र ग्रहणे दश

viṣuve taddaśaguṇamayane taddaśa smṛtam |
taddaśa mṛgasaṃkrāṃtau taccaṃdra grahaṇe daśa

15.10

ततश्च सूर्यग्रहणे पूर्णकालोत्तमे विदुः ।
जगद्रूपस्य सूर्यस्य विषयोगाच्च रोगदम्

tataśca sūryagrahaṇe pūrṇakālottame viduḥ |
jagadrūpasya sūryasya viṣayogācca rogadam

15.11

अतस्तद्विषशांत्यर्थं स्नानदानजपांश्चरेत् ।
विषशांत्यर्थकालत्वात्स कालः पुण्यदः स्मृतः

atastadviṣaśāṃtyarthaṃ snānadānajapāṃścaret |
viṣaśāṃtyarthakālatvātsa kālaḥ puṇyadaḥ smṛtaḥ

15.12

जन्मर्क्षे च व्रतांते च सूर्यरागोपमं विदुः ।
महतां संगकालश्च कोट्यर्कग्रहणं विदुः

janmarkṣe ca vratāṃte ca sūryarāgopamaṃ viduḥ |
mahatāṃ saṃgakālaśca koṭyarkagrahaṇaṃ viduḥ

15.13

तपोनिष्ठा ज्ञाननिष्ठा योगिनो यतयस्तथा ।
पूजायाः पात्रमेते हि पापसंक्षयकारणम्

taponiṣṭhā jñānaniṣṭhā yogino yatayastathā |
pūjāyāḥ pātramete hi pāpasaṃkṣayakāraṇam

15.14

चतुर्विंशतिलक्षं वा गायत्र्या जपसंयुतः ।
ब्राह्मणस्तु भवेत्पात्रं संपूर्णफलभोगदम्

caturviṃśatilakṣaṃ vā gāyatryā japasaṃyutaḥ |
brāhmaṇastu bhavetpātraṃ saṃpūrṇaphalabhogadam

15.15

पतनात्त्रायत इति पात्रं शास्त्रे प्रयुज्यते ।
दातुश्च पातकात्त्राणात्पात्रमित्यभिधीयते

patanāttrāyata iti pātraṃ śāstre prayujyate |
dātuśca pātakāttrāṇātpātramityabhidhīyate

15.16

गायकं त्रायते पाताद्गायत्रीत्युच्यते हि सा ।
यथाऽर्थहिनो लोकेऽस्मिन्परस्यार्थं न यच्छति

gāyakaṃ trāyate pātādgāyatrītyucyate hi sā |
yathā'rthahino loke'sminparasyārthaṃ na yacchati

15.17

अर्थवानिह यो लोके परस्यार्थं प्रयच्छति ।
स्वयं शुद्धो हि पूतात्मा नरान्संत्रातुमर्हति

arthavāniha yo loke parasyārthaṃ prayacchati |
svayaṃ śuddho hi pūtātmā narānsaṃtrātumarhati

15.18

गायत्रीजपशुद्धो हि शुद्धब्राह्मण उच्यते ।
तस्माद्दाने जपे होमे पूजायां सर्वकर्मणि

gāyatrījapaśuddho hi śuddhabrāhmaṇa ucyate |
tasmāddāne jape home pūjāyāṃ sarvakarmaṇi

15.19

दानं कर्तुं तथा त्रातुं पात्रं तु ब्राह्मणोर्हति ।
अन्नस्य क्षुधितं पात्रं नारीनरमयात्मकम्

dānaṃ kartuṃ tathā trātuṃ pātraṃ tu brāhmaṇorhati |
annasya kṣudhitaṃ pātraṃ nārīnaramayātmakam

15.20

ब्राह्मणं श्रेष्ठमाहूय यत्काले सुसमाहितम् ।
तदर्थं शब्दमर्थं वा सद्बोधकमभीष्टदम्

brāhmaṇaṃ śreṣṭhamāhūya yatkāle susamāhitam |
tadarthaṃ śabdamarthaṃ vā sadbodhakamabhīṣṭadam

15.21

इच्छावतः प्रदानं च संपूर्णफलदं विदुः ।
यत्प्रश्नानंतरं दत्तं तदर्धं फलदं विदुः

icchāvataḥ pradānaṃ ca saṃpūrṇaphaladaṃ viduḥ |
yatpraśnānaṃtaraṃ dattaṃ tadardhaṃ phaladaṃ viduḥ

15.22

यत्सेवकाय दत्तं स्यात्तत्पादफलदं विदुः ।
जातिमात्रस्य विप्रस्य दीनवृत्तेर्द्विजर्षभाः

yatsevakāya dattaṃ syāttatpādaphaladaṃ viduḥ |
jātimātrasya viprasya dīnavṛtterdvijarṣabhāḥ

15.23

दत्तमर्थं हि भोगाय भूर्लोकेदशवार्षिकम् ।
वेदयुक्तस्य विप्रस्य स्वर्गे हि दशवार्षिकम्

dattamarthaṃ hi bhogāya bhūrlokedaśavārṣikam |
vedayuktasya viprasya svarge hi daśavārṣikam

15.24

गायत्रीजपयुक्तस्य सत्ये हि दशवार्षिकम् ।
विष्णुभक्तस्य विप्रस्य दत्तं वैकुंठदं विदुः

gāyatrījapayuktasya satye hi daśavārṣikam |
viṣṇubhaktasya viprasya dattaṃ vaikuṃṭhadaṃ viduḥ

15.25

शिवभक्तस्य विप्रस्य दत्तं कैलासदं विदुः ।
तत्तल्लोकोपभोगार्थं सर्वेषां दानमिष्यते

śivabhaktasya viprasya dattaṃ kailāsadaṃ viduḥ |
tattallokopabhogārthaṃ sarveṣāṃ dānamiṣyate

15.26

दशांगमन्नं विप्रस्य भानुवारे ददन्नरः ।
परजन्मनि चारोग्यं दशवर्षं समश्नुते

daśāṃgamannaṃ viprasya bhānuvāre dadannaraḥ |
parajanmani cārogyaṃ daśavarṣaṃ samaśnute

15.27

बहुमानमथाह्वानमभ्यंगं पादसेवनम् ।
वासो गंधाद्यर्चनं च घृतापूपरसोत्तरम्

bahumānamathāhvānamabhyaṃgaṃ pādasevanam |
vāso gaṃdhādyarcanaṃ ca ghṛtāpūparasottaram

15.28

षड्रसं व्यंजनं चैव तांबूलं दक्षिणोत्तरम् ।
नमश्चानुगमश्चैव स्वन्नदानं दशांगकम्

ṣaḍrasaṃ vyaṃjanaṃ caiva tāṃbūlaṃ dakṣiṇottaram |
namaścānugamaścaiva svannadānaṃ daśāṃgakam

15.29

दशांगमन्नं विप्रेभ्यो दशभ्यो वै ददन्नरः ।
अर्कवारे तथाऽऽरोग्यं शतवर्षं समश्नुते

daśāṃgamannaṃ viprebhyo daśabhyo vai dadannaraḥ |
arkavāre tathā''rogyaṃ śatavarṣaṃ samaśnute

15.30

सोमवारादिवारेषु तत्तद्वारगुणं फलम् ।
अन्नदानस्य विज्ञेयं भूर्लोके परजन्मनि

somavārādivāreṣu tattadvāraguṇaṃ phalam |
annadānasya vijñeyaṃ bhūrloke parajanmani

15.31

सप्तस्वपि च वारेषु दशभ्यश्च दशांगकम् ।
अन्नं दत्त्वा शतं वर्षमारोग्यादिकमश्नुते

saptasvapi ca vāreṣu daśabhyaśca daśāṃgakam |
annaṃ dattvā śataṃ varṣamārogyādikamaśnute

15.32

एवं शतेभ्यो विप्रेभ्यो भानुवारे ददन्नरः ।
सहस्रवर्षमारोग्यं शर्वलोके समश्नुते

evaṃ śatebhyo viprebhyo bhānuvāre dadannaraḥ |
sahasravarṣamārogyaṃ śarvaloke samaśnute

15.33

सहस्रेभ्यस्तथा दत्त्वाऽयुतवर्षं समश्नुते ।
एवं सोमादिवारेषु विज्ञेयं हि विपश्चिता

sahasrebhyastathā dattvā'yutavarṣaṃ samaśnute |
evaṃ somādivāreṣu vijñeyaṃ hi vipaścitā

15.34

भानुवारे सहस्राणां गायत्रीपूतचेतसाम् ।
अन्नं दत्त्वा सत्यलोके ह्यारोग्यादि समश्नुते

bhānuvāre sahasrāṇāṃ gāyatrīpūtacetasām |
annaṃ dattvā satyaloke hyārogyādi samaśnute

15.35

अयुतानां तथा दत्त्वा विष्णुलोके समश्नुते ।
अन्नं दत्त्वा तु लक्षाणां रुद्र लोके समश्नुते

ayutānāṃ tathā dattvā viṣṇuloke samaśnute |
annaṃ dattvā tu lakṣāṇāṃ rudra loke samaśnute

15.36

बालानां ब्रह्मबुद्ध्या हि देयं विद्यार्थिभिर्नरैः ।
यूनां च विष्णुबुद्ध्या हि पुत्रकामार्थिभिर्नरैः

bālānāṃ brahmabuddhyā hi deyaṃ vidyārthibhirnaraiḥ |
yūnāṃ ca viṣṇubuddhyā hi putrakāmārthibhirnaraiḥ

15.37

वृद्धानां रुद्र बुद्ध्या हि देयं ज्ञानार्थिभिर्नरैः ।
बालस्त्रीभारतीबुद्ध्या बुद्धिकामैर्नरोत्तमैः

vṛddhānāṃ rudra buddhyā hi deyaṃ jñānārthibhirnaraiḥ |
bālastrībhāratībuddhyā buddhikāmairnarottamaiḥ

15.38

लक्ष्मीबुद्ध्या युवस्त्रीषु भोगकामैर्नरोत्तमैः ।
वृद्धासु पार्वतीबुद्ध्या देयमात्मार्थिभिर्जनैः

lakṣmībuddhyā yuvastrīṣu bhogakāmairnarottamaiḥ |
vṛddhāsu pārvatībuddhyā deyamātmārthibhirjanaiḥ

15.39

शिलवृत्त्योञ्छवृत्त्या च गुरुदक्षिणयार्जितम् ।
शुद्धद्रव्यमिति प्राहुस्तत्पूर्णफलदं विदुः

śilavṛttyoñchavṛttyā ca gurudakṣiṇayārjitam |
śuddhadravyamiti prāhustatpūrṇaphaladaṃ viduḥ

15.40

शुक्लप्रतिग्रहाद्दत्तं मध्यमं द्रव्यमुच्यते ।
कृषिवाणिज्यकोपेतमधमं द्रव्यमुच्यते

śuklapratigrahāddattaṃ madhyamaṃ dravyamucyate |
kṛṣivāṇijyakopetamadhamaṃ dravyamucyate

15.41

क्षत्रियाणां विशां चैव शौर्यवाणिज्यकार्जितम् ।
उत्तमं द्रव्यमित्याहुः शूद्राणां भृतकार्जितम्

kṣatriyāṇāṃ viśāṃ caiva śauryavāṇijyakārjitam |
uttamaṃ dravyamityāhuḥ śūdrāṇāṃ bhṛtakārjitam

15.42

स्त्रीणां धर्मार्थिनां द्रव्यं पैतृकं भर्तृकं तथा ।
गवादीनां द्वादशीनां चैत्रादिषु यथाक्रमम्

strīṇāṃ dharmārthināṃ dravyaṃ paitṛkaṃ bhartṛkaṃ tathā |
gavādīnāṃ dvādaśīnāṃ caitrādiṣu yathākramam

15.43

संभूय वा पुण्यकाले दद्यादिष्टसमृद्धये ।
गोभूतिलहिरण्याज्यवासोधान्यगुडानि च

saṃbhūya vā puṇyakāle dadyādiṣṭasamṛddhaye |
gobhūtilahiraṇyājyavāsodhānyaguḍāni ca

15.44

रौप्यं लवणकूष्मांडे कन्याद्वादशकं तथा ।
गोदानाद्दत्तगव्येन गोमयेनोपकारिणा

raupyaṃ lavaṇakūṣmāṃḍe kanyādvādaśakaṃ tathā |
godānāddattagavyena gomayenopakāriṇā

15.45

धनधान्याद्याश्रितानां दुरितानां निवारणम् ।
जलस्नेहाद्याश्रितानां दुरितानां तु गोजलैः

dhanadhānyādyāśritānāṃ duritānāṃ nivāraṇam |
jalasnehādyāśritānāṃ duritānāṃ tu gojalaiḥ

15.46

कायिकादित्राणां तु क्षीरदध्याज्यकैस्तथा ।
तथा तेषां च पुष्टिश्च विज्ञेया हि विपश्चिता

kāyikāditrāṇāṃ tu kṣīradadhyājyakaistathā |
tathā teṣāṃ ca puṣṭiśca vijñeyā hi vipaścitā

15.47

भूदानं तु प्रतिष्ठार्थमिह चाऽमुत्र च द्विजाः ।
तिलदानं बलार्थं हि सदा मृत्युजयं विदुः

bhūdānaṃ tu pratiṣṭhārthamiha cā'mutra ca dvijāḥ |
tiladānaṃ balārthaṃ hi sadā mṛtyujayaṃ viduḥ

15.48

हिरण्यं जाठराग्नेस्तु वृद्धिदं वीर्यदं तथा ।
आज्यं पुष्टिकरं विद्याद्वस्त्रमायुष्करं विदुः

hiraṇyaṃ jāṭharāgnestu vṛddhidaṃ vīryadaṃ tathā |
ājyaṃ puṣṭikaraṃ vidyādvastramāyuṣkaraṃ viduḥ

15.49

धान्यमन्नं समृद्ध्यर्थं मधुराहारदं गुडम् ।
रौप्यं रेतोभिवृद्ध्यर्थं षड्रसार्थं तु लावणम्

dhānyamannaṃ samṛddhyarthaṃ madhurāhāradaṃ guḍam |
raupyaṃ retobhivṛddhyarthaṃ ṣaḍrasārthaṃ tu lāvaṇam

15.50

सर्वं सर्वसमृद्ध्यर्थं कूष्मांडं पुष्टिदं विदुः ।
प्राप्तिदं सर्वभोगानामिह चाऽमुत्र च द्विजाः

sarvaṃ sarvasamṛddhyarthaṃ kūṣmāṃḍaṃ puṣṭidaṃ viduḥ |
prāptidaṃ sarvabhogānāmiha cā'mutra ca dvijāḥ

15.51

यावज्जीवनमुक्तं हि कन्यादानं तु भोगदम् ।
पनसाम्रकपित्थानां वृक्षाणां फलमेव च

yāvajjīvanamuktaṃ hi kanyādānaṃ tu bhogadam |
panasāmrakapitthānāṃ vṛkṣāṇāṃ phalameva ca

15.52

कदल्याद्यौषधीनां च फलं गुल्मोद्भवं तथा ।
माषादीनां च मुद्गानां फलं शाकादिकं तथा

kadalyādyauṣadhīnāṃ ca phalaṃ gulmodbhavaṃ tathā |
māṣādīnāṃ ca mudgānāṃ phalaṃ śākādikaṃ tathā

15.53

मरीचिसर्षपाद्यानां शाकोपकरणं तथा ।
यदृतौ यत्फलं सिद्धं तद्देयं हि विपश्चिता

marīcisarṣapādyānāṃ śākopakaraṇaṃ tathā |
yadṛtau yatphalaṃ siddhaṃ taddeyaṃ hi vipaścitā

15.54

श्रोत्रादींद्रियतृप्तिश्च सदा देया विपश्चिता ।
शब्दादिदशभोगार्थं दिगादीनां च तुष्टिदा

śrotrādīṃdriyatṛptiśca sadā deyā vipaścitā |
śabdādidaśabhogārthaṃ digādīnāṃ ca tuṣṭidā

15.55

वेदशास्त्रं समादाय बुद्ध्वा गुरुमुखात्स्वयम् ।
कर्मणां फलमस्तीति बुद्धिरास्तिक्यमुच्यते

vedaśāstraṃ samādāya buddhvā gurumukhātsvayam |
karmaṇāṃ phalamastīti buddhirāstikyamucyate

15.56

बंधुराजभयाद्बुद्धिश्रद्धा सा च कनीयसी ।
सर्वाभावे दरिद्र स्तु वाचा वा कर्मणा यजेत्

baṃdhurājabhayādbuddhiśraddhā sā ca kanīyasī |
sarvābhāve daridra stu vācā vā karmaṇā yajet

15.57

वाचिकं यजनं विद्यान्मंत्रस्तोत्रजपादिकम् ।
तीर्थयात्राव्रताद्यं हि कायिकं यजनं विदुः

vācikaṃ yajanaṃ vidyānmaṃtrastotrajapādikam |
tīrthayātrāvratādyaṃ hi kāyikaṃ yajanaṃ viduḥ

15.58

येन केनाप्युपायेन ह्यल्पं वा यदि वा बहु ।
देवतार्पणबुद्ध्या च कृतं भोगाय कल्पते

yena kenāpyupāyena hyalpaṃ vā yadi vā bahu |
devatārpaṇabuddhyā ca kṛtaṃ bhogāya kalpate

15.59

तपश्चर्या च दानं च कर्तव्यमुभयं सदा ।
प्रतिश्रयं प्रदातव्यं स्ववर्णगुणशोभितम्

tapaścaryā ca dānaṃ ca kartavyamubhayaṃ sadā |
pratiśrayaṃ pradātavyaṃ svavarṇaguṇaśobhitam

15.60

देवानां तृप्तयेऽत्यर्थं सर्वभोगप्रदं बुधैः ।
इहाऽमुत्रोत्तमं जन्मसदाभोगं लभेद्बुधः ।
ईश्वरार्पणबुद्ध्या हि कृत्वा मोक्षफलं लभेत्

devānāṃ tṛptaye'tyarthaṃ sarvabhogapradaṃ budhaiḥ |
ihā'mutrottamaṃ janmasadābhogaṃ labhedbudhaḥ |
īśvarārpaṇabuddhyā hi kṛtvā mokṣaphalaṃ labhet

15.61

य इमं पठतेऽध्यायं यः शृणोति सदा नरः ।
तस्य वैधर्मबुद्धिश्च ज्ञानसिद्धिः प्रजायते

ya imaṃ paṭhate'dhyāyaṃ yaḥ śṛṇoti sadā naraḥ |
tasya vaidharmabuddhiśca jñānasiddhiḥ prajāyate

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)