ओं
नमस्समस्तसंसारचक्रभ्रमणहेतवे ।
गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे
oṃ
namassamastasaṃsāracakrabhramaṇahetave |
gaurīkucataṭadvandvakuṃkumāṃkitavakṣase
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नम प्रथमो ऽध्यायः ॥
27 श्लोक · 1 में से 41
मध्याह्न में वायुदेव नियम से उठकर नैमिषारण्य के ऋषियों के बीच बैठते हैं। ऋषि पूछते हैं कि श्रीकृष्ण ने धौम्य के बड़े भाई उपमन्यु से पाशुपत व्रत कैसे लिया। वासुदेव अपनी इच्छा से अवतरित होकर भी पुत्र के लिए तप करने उपमन्यु के आश्रम गए। वहाँ मुनि भस्म से श्वेत, त्रिपुण्ड्र से अंकित, रुद्राक्षधारी और शिव-ध्यान में लीन थे। श्रीकृष्ण ने तीन बार प्रदक्षिणा कर उनकी स्तुति की। उपमन्यु ने अग्निरिति आदि मन्त्रों से उन्हें भस्म लगाई, बारह मास का पाशुपत व्रत कराया और परम ज्ञान दिया। वर्ष भर के तप के बाद शिव अम्बा और गणों सहित प्रकट हुए और पुत्र का वर दिया, जो जाम्बवती से जन्मा और साम्ब कहलाया।
ओं
नमस्समस्तसंसारचक्रभ्रमणहेतवे ।
गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे
oṃ
namassamastasaṃsāracakrabhramaṇahetave |
gaurīkucataṭadvandvakuṃkumāṃkitavakṣase
सूत उवाच
उक्त्वा भगवतो लब्धप्रसादादुपमन्युना ।
नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे
uktvā bhagavato labdhaprasādādupamanyunā |
niyamādutthito vāyurmadhye prāpte divākare
ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ।
अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम्
ṛṣayaścāpi te sarve naimiṣāraṇyavāsinaḥ |
athāyamarthaḥ praṣṭavya iti kṛtvā viniścayam
कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ।
भगवंतमुपायांतं समीक्ष्य समुपाविशन्
kṛtvā yathā svakaṃ kṛtyaṃ pratyahaṃ te yathā purā |
bhagavaṃtamupāyāṃtaṃ samīkṣya samupāviśan
अथासौ नियमस्यांते भगवानम्बरोद्भवः ।
मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम्
athāsau niyamasyāṃte bhagavānambarodbhavaḥ |
madhye munisabhāyāstu bheje kḷptaṃ varāsanam
सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ।
श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत्
sukhāsanopaviṣṭaśca vāyurlokanamaskṛtaḥ |
śrīmadvibhūtimīśasya hṛdi kṛtvedamabravīt
तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ।
विभूतिस्सकलं यस्य चराचरमिदं जगत्
taṃ prapadye mahādevaṃ sarvajñamaparājitam |
vibhūtissakalaṃ yasya carācaramidaṃ jagat
इत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः ।
विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः
ityākarṇya śubhāṃ vāṇīmṛṣayaḥ kṣīṇakalmaṣāḥ |
vibhūtivistaraṃ śrotumūcuste paramaṃ vacaḥ
ऋषय ऊचुः
उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ।
क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात्
uktaṃ bhagavatā vṛttamupamanyormahātmanaḥ |
kṣīrārthenāpi tapasā yatprāptaṃ parameśvarāt
दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ।
धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम्
dṛṣṭo 'sau vāsudevena kṛṣṇenākliṣṭakarmaṇā |
dhaumyāgrajastatastena kṛtvā pāśupataṃ vratam
प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम ।
कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम्
prāptaṃ ca paramaṃ jñānamiti prāgeva śuśruma |
kathaṃ sa labdhavān kṛṣṇo jñānaṃ pāśupataṃ param
वायुरुवाच
स्वेच्छया ह्यवतीर्णोपि वासुदेवस्सनातनः ।
निंदयन्निव मानुष्यं देहशुद्धिं चकार सः
svecchayā hyavatīrṇopi vāsudevassanātanaḥ |
niṃdayanniva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ
पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः ।
आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम्
putrārthaṃ hi tapastaptuṃ gatastasya mahāmuneḥ |
āśramaṃ munibhirdṛṣṭaṃ dṛṣṭavāṃstatra vai munim
भस्मावदातसर्वांगं त्रिपुंड्रांकितमस्तकम् ।
रुद्राक्षमालाभरणं जटामंडलमंडितम्
bhasmāvadātasarvāṃgaṃ tripuṃḍrāṃkitamastakam |
rudrākṣamālābharaṇaṃ jaṭāmaṃḍalamaṃḍitam
तच्छिष्यभूतैर्मुनिभिश्शास्त्रैर्वेदमिवावृतम् ।
शिवध्यानरतं शांतमुपमन्युं महाद्युतिम्
tacchiṣyabhūtairmunibhiśśāstrairvedamivāvṛtam |
śivadhyānarataṃ śāṃtamupamanyuṃ mahādyutim
नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः ।
बहुमानेन कृष्णो ऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् ।
स्तुतिं चकार सुप्रीत्या नतस्कंधः कृताञ्जलिः
namaścakāra taṃ dṛṣṭvā hṛṣṭasarvatanūruhaḥ |
bahumānena kṛṣṇo 'sau triḥ kṛtvā tu pradakṣiṇām |
stutiṃ cakāra suprītyā nataskaṃdhaḥ kṛtāñjaliḥ
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः ।
नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च
tasyāvalokanādeva muneḥ kṛṣṇasya dhīmataḥ |
naṣṭamāsīnmalaṃ sarvaṃ māyājaṃ kārmameva ca
तपःक्षीणमलं कृष्णमुपमन्युर्यथाविधिः ।
भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात्
tapaḥkṣīṇamalaṃ kṛṣṇamupamanyuryathāvidhiḥ |
bhasmanoddhūlya taṃ mantrairagnirityādibhiḥ kramāt
अथ पाशुपतं साक्षाद्व्रतं द्वादशमासिकम् ।
कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम्
atha pāśupataṃ sākṣādvrataṃ dvādaśamāsikam |
kārayitvā munistasmai pradadau jñānamuttamam
तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः ।
दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे
tadāprabhṛti taṃ kṛṣṇaṃ munayaśśaṃsitavratāḥ |
divyāḥ pāśupatāḥ sarve parivṛtyopatasthire
ततो गुरुनियोगाद्वै कृष्णः परमशक्तिमान् ।
तपश्चकार पुत्रार्थं सांबमुद्दिश्य शंकरम्
tato guruniyogādvai kṛṣṇaḥ paramaśaktimān |
tapaścakāra putrārthaṃ sāṃbamuddiśya śaṃkaram
तपसो तेन वर्षांते दृष्टो ऽसौ परमेश्वरः ।
श्रिया परमया युक्तस्सांबश्च सगणश्शिवः
tapaso tena varṣāṃte dṛṣṭo 'sau parameśvaraḥ |
śriyā paramayā yuktassāṃbaśca sagaṇaśśivaḥ
वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः ।
स्तुतिं चकार नत्वासौ कृष्णः सम्यक्कृतांजलिः
varārthamāvirbhūtasya harasya subhagākṛteḥ |
stutiṃ cakāra natvāsau kṛṣṇaḥ samyakkṛtāṃjaliḥ
सांबं समगणव्यग्रो लब्धवान्पुत्रमात्मनः ।
तपसा तुष्टचित्तेन दत्तं विष्णोश्शिवेन वै
sāṃbaṃ samagaṇavyagro labdhavānputramātmanaḥ |
tapasā tuṣṭacittena dattaṃ viṣṇośśivena vai
यस्मात्सांबो महादेवः प्रददौ पुत्रमात्मनः ।
तस्माज्जांबवतीसूनुं सांबं चक्रे स नामतः
yasmātsāṃbo mahādevaḥ pradadau putramātmanaḥ |
tasmājjāṃbavatīsūnuṃ sāṃbaṃ cakre sa nāmataḥ
तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः ।
महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शंकरात्
tadetatkathitaṃ sarvaṃ kṛṣṇasyāmitakarmaṇaḥ |
maharṣerjñānalābhaśca putralābhaśca śaṃkarāt
य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा ।
स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते
ya idaṃ kīrtayennityaṃ śṛṇuyācchrāvayettathā |
sa viṣṇorjñānamāsādya tenaiva saha modate
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)