केन मानेन कालेस्मिन्नायुस्संख्या प्रकल्प्यते ।
संख्यारूपस्य कालस्य कः पुनः परमो ऽवधिः
kena mānena kālesminnāyussaṃkhyā prakalpyate |
saṃkhyārūpasya kālasya kaḥ punaḥ paramo 'vadhiḥ
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे कालप्रभावे त्रिदेवायुर्वर्णनं नामाष्टमो ऽध्यायः ॥
31 श्लोक · 8 में से 35
आयु कैसे मापी जाती है, और गणना का अन्त कहाँ है? वायु पलक झपकने से माप बनाते हैं: पन्द्रह निमेष की एक काष्ठा, तीस काष्ठा की एक कला, तीस कला का एक मुहूर्त, तीस मुहूर्त का एक दिन-रात। मनुष्यों का एक मास पितरों का एक दिन है, मनुष्यों का एक वर्ष देवताओं का एक दिन, और तीन सौ साठ मानव वर्ष एक दिव्य वर्ष। सन्ध्याओं सहित चारों युग बारह सहस्र दिव्य वर्ष हैं; ऐसे सहस्र चतुर्युग एक कल्प, ब्रह्मा का एक दिन, जिसमें चौदह मनु और चौदह इन्द्र होते हैं। ब्रह्मा की आयु विष्णु का एक दिन है, विष्णु की रुद्र का, और इसी तरह सदाशिव तक। सृष्टि शिव का दिन और प्रलय उनकी रात कही जाती है, यद्यपि उनके न दिन है न रात।
ऋषय ऊचुः
केन मानेन कालेस्मिन्नायुस्संख्या प्रकल्प्यते ।
संख्यारूपस्य कालस्य कः पुनः परमो ऽवधिः
kena mānena kālesminnāyussaṃkhyā prakalpyate |
saṃkhyārūpasya kālasya kaḥ punaḥ paramo 'vadhiḥ
वायुरुवाच
आयुषो ऽत्र निमेषाख्यमाद्यमानं प्रचक्षते ।
संख्यारूपस्य कालस्य शांत्त्वतीतकलावधि
āyuṣo 'tra nimeṣākhyamādyamānaṃ pracakṣate |
saṃkhyārūpasya kālasya śāṃttvatītakalāvadhi
अक्षिपक्ष्मपरिक्षेपो निमेषः परिकल्पितः ।
तादृशानां निमेषाणां काष्ठा दश च पञ्च च
akṣipakṣmaparikṣepo nimeṣaḥ parikalpitaḥ |
tādṛśānāṃ nimeṣāṇāṃ kāṣṭhā daśa ca pañca ca
काष्ठांस्त्रिंशत्कला नाम कलांस्त्रिंशन्मुहूर्तकः ।
मुहूर्तानामपि त्रिंशदहोरात्रं प्रचक्षते
kāṣṭhāṃstriṃśatkalā nāma kalāṃstriṃśanmuhūrtakaḥ |
muhūrtānāmapi triṃśadahorātraṃ pracakṣate
त्रिंशत्संख्यैरहोरात्रैर्मासः पक्षद्वयात्मकः
triṃśatsaṃkhyairahorātrairmāsaḥ pakṣadvayātmakaḥ
ज्ञेयं पित्र्यमहोरात्रं मासः कृष्णसितात्मकः
jñeyaṃ pitryamahorātraṃ māsaḥ kṛṣṇasitātmakaḥ
मासैस्तैरयनं षड्भिर्वर्षं द्वे चायनं मतम् ।
लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः
māsaistairayanaṃ ṣaḍbhirvarṣaṃ dve cāyanaṃ matam |
laukikenaiva mānena abdo yo mānuṣaḥ smṛtaḥ
एतद्दिव्यमहोरात्रमिति शास्त्रस्य निश्चयः ।
दक्षिणं चायनं रात्रिस्तथोदगयनं दिनम्
etaddivyamahorātramiti śāstrasya niścayaḥ |
dakṣiṇaṃ cāyanaṃ rātristathodagayanaṃ dinam
मासस्त्रिंशदहोरात्रैर्दिव्यो मानुषवत्स्मृतः ।
संवत्सरो ऽपि देवानां मासैर्द्वादशभिस्तथा
māsastriṃśadahorātrairdivyo mānuṣavatsmṛtaḥ |
saṃvatsaro 'pi devānāṃ māsairdvādaśabhistathā
त्रीणि वर्षशतान्येव षष्टिवर्षयुतान्यपि ।
दिव्यस्संवत्सरो ज्ञेयो मानुषेण प्रकीर्तितः
trīṇi varṣaśatānyeva ṣaṣṭivarṣayutānyapi |
divyassaṃvatsaro jñeyo mānuṣeṇa prakīrtitaḥ
दिव्येनैव प्रमाणेन युगसंख्या प्रवर्तते ।
चत्वारि भारते वर्षे युगानि कवयो विदुः
divyenaiva pramāṇena yugasaṃkhyā pravartate |
catvāri bhārate varṣe yugāni kavayo viduḥ
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ।
द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः
pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate |
dvāparaṃ ca kaliścaiva yugānyetāni kṛtsnaśaḥ
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छतीसंध्या संध्यांशश्च तथाविधः
catvāri tu sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam |
tasya tāvacchatīsaṃdhyā saṃdhyāṃśaśca tathāvidhaḥ
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।
एकापायेन वर्तंते सहस्राणि शतानि च
itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu |
ekāpāyena vartaṃte sahasrāṇi śatāni ca
एतद्द्वादशसाहस्रं साधिकं च चतुर्युगम् ।
चतुर्युगसहस्रं यत्संकल्प इति कथ्यते
etaddvādaśasāhasraṃ sādhikaṃ ca caturyugam |
caturyugasahasraṃ yatsaṃkalpa iti kathyate
चतुर्युगैकसप्तत्या मनोरंतरमुच्यते ।
कल्पे चतुर्दशैकस्मिन्मनूनां परिवृत्तयः
caturyugaikasaptatyā manoraṃtaramucyate |
kalpe caturdaśaikasminmanūnāṃ parivṛttayaḥ
एतेन क्रमयोगेन कल्पमन्वंतराणि च ।
सप्रजानि व्यतीतानि शतशो ऽथ सहस्रशः
etena kramayogena kalpamanvaṃtarāṇi ca |
saprajāni vyatītāni śataśo 'tha sahasraśaḥ
अज्ञेयत्वाच्च सर्वेषामसंख्येयतया पुनः ।
शक्यो नैवानुपूर्व्याद्वै तेषां वक्तुं सुविस्तरः
ajñeyatvācca sarveṣāmasaṃkhyeyatayā punaḥ |
śakyo naivānupūrvyādvai teṣāṃ vaktuṃ suvistaraḥ
कल्पो नाम दिवा प्रोक्तो ब्रह्मणो ऽव्यक्तजन्मनः ।
कल्पानां वै सहस्रं च ब्राह्मं वर्षमिहोच्यते
kalpo nāma divā prokto brahmaṇo 'vyaktajanmanaḥ |
kalpānāṃ vai sahasraṃ ca brāhmaṃ varṣamihocyate
वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम् ।
सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः
varṣāṇāmaṣṭasāhasraṃ yacca tadbrahmaṇo yugam |
savanaṃ yugasāhasraṃ brahmaṇaḥ padmajanmanaḥ
सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा ।
कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः
savanānāṃ sahasraṃ ca triguṇaṃ trivṛtaṃ tathā |
kalpyate sakalaḥ kālo brahmaṇaḥ parameṣṭhinaḥ
तस्य वै दिवसे यांति चतुर्दश पुरंदराः ।
शतानि मासे चत्वारि विंशत्या सहितानि च
tasya vai divase yāṃti caturdaśa puraṃdarāḥ |
śatāni māse catvāri viṃśatyā sahitāni ca
अब्दे पञ्च सहस्राणि चत्वारिंशद्युतानि च ।
चत्वारिंशत्सहस्राणि पञ्च लक्षाणि चायुषि
abde pañca sahasrāṇi catvāriṃśadyutāni ca |
catvāriṃśatsahasrāṇi pañca lakṣāṇi cāyuṣi
ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्रदिने तथा ।
ईश्वरस्य दिने रुद्रस्सदाख्यस्य तथेश्वरः
brahmā viṣṇordine caiko viṣṇū rudradine tathā |
īśvarasya dine rudrassadākhyasya tatheśvaraḥ
साक्षाच्छिवस्य तत्संख्यस्तथा सो ऽपि सदाशिवः ।
चत्वारिंशत्सहस्राणि पञ्चलक्षाणि चायुषि
sākṣācchivasya tatsaṃkhyastathā so 'pi sadāśivaḥ |
catvāriṃśatsahasrāṇi pañcalakṣāṇi cāyuṣi
तस्मिन्साक्षाच्छिवेनैष कालात्मा सम्प्रवर्तते ।
यत्तत्सृष्टेस्समाख्यातं कालान्तरमिह द्विजाः ।
एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ।
रात्रिश्च तावती ज्ञेया परमेशस्य कृत्स्नशः
tasminsākṣācchivenaiṣa kālātmā sampravartate |
yattatsṛṣṭessamākhyātaṃ kālāntaramiha dvijāḥ |
etatkālāntaraṃ jñeyamaharvai pārameśvaram |
rātriśca tāvatī jñeyā parameśasya kṛtsnaśaḥ
अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः ।
अहर्न विद्यते तस्य न रात्रिरिति धारयेत्
ahastasya tu yā sṛṣṭī rātriśca pralayaḥ smṛtaḥ |
aharna vidyate tasya na rātririti dhārayet
एषोपचारः क्रियते लोकानां हितकाम्यया ।
प्रजाः प्रजानां पतयो मूर्तयश्च सुरासुराः
eṣopacāraḥ kriyate lokānāṃ hitakāmyayā |
prajāḥ prajānāṃ patayo mūrtayaśca surāsurāḥ
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च ।
तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतः
indriyāṇīndriyārthāśca mahābhūtāni pañca ca |
tanmātrāṇyatha bhūtādirbuddhiśca saha daivataḥ
अहस्तिष्ठंति सर्वाणि पारमेशस्य धीमतः ।
अहरंते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः
ahastiṣṭhaṃti sarvāṇi pārameśasya dhīmataḥ |
aharaṃte pralīyante rātryante viśvasaṃbhavaḥ
यो विश्वात्मा कर्मकालस्वभावाद्यर्थे शक्तिर्यस्य नोल्लंघनीया ।
यस्यैवाज्ञाधीनमेतत्समस्तं नमस्तस्मै महते शंकराय
yo viśvātmā karmakālasvabhāvādyarthe śaktiryasya nollaṃghanīyā |
yasyaivājñādhīnametatsamastaṃ namastasmai mahate śaṃkarāya
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)