उमा संहिता

अध्याय 28: छायापुरुष दर्शन और व्यास का सनत्कुमार को प्रणाम

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां छायापुरुषदर्शनवर्णनं नामाष्टाविंशोऽध्यायः ॥

31 श्लोक · 28 में से 51

इस अध्याय में क्या होता है

छायापुरुष दर्शन और व्यास का सनत्कुमार को प्रणाम

शंकर छायापुरुष का लक्षण बताते हैं। श्वेत वस्त्र पहनकर साधक सूर्य या चन्द्रमा को पीठ की ओर रखकर, शिव के नवाक्षर मन्त्र का स्मरण करते हुए अपनी छाया देखता है, फिर आकाश में उसका श्वेत रूप देखता है; एकाग्र दर्शन से उसे शिव मिलते हैं और ब्रह्महत्या जैसे पाप भी छूट जाते हैं। छाया सिरहीन दिखे तो छह मास में मृत्यु होती है; उसके रंग और अंगों का अभाव पाप, बन्धन, हानि या परदेश बताते हैं। एक वर्ष के जप से आठों सिद्धियाँ मिलती हैं। फिर शंकर सब प्राणियों में कुण्डलित गुप्त शक्ति बिन्दुमालिनी की महिमा कहते हैं, जिसके दर्शन से सब तीर्थों का फल मिलता है। अन्त में व्यास सनत्कुमार को बार-बार प्रणाम करते हैं और सनत्कुमार अपने धाम लौटते हैं।

देव्युवाच

28.1

देवदेव महादेव कथितं कालवंचनम् ।
शब्दब्रह्मस्वरूपं च योगलक्षणमुत्तमम्

devadeva mahādeva kathitaṃ kālavaṃcanam |
śabdabrahmasvarūpaṃ ca yogalakṣaṇamuttamam

28.2

कथितं ते समासेनच्छायिकं ज्ञानमुत्तमम् ।
विस्तरेण समाख्याहि योगिनां हितकाम्यया

kathitaṃ te samāsenacchāyikaṃ jñānamuttamam |
vistareṇa samākhyāhi yogināṃ hitakāmyayā

शंकर उवाच

28.3

शृणु देवि प्रवक्ष्यामिच्छायापुरुषलक्षणम् ।
यज्ज्ञात्वा पुरुषः सम्यक्सर्वपापैः प्रमुच्यते

śṛṇu devi pravakṣyāmicchāyāpuruṣalakṣaṇam |
yajjñātvā puruṣaḥ samyaksarvapāpaiḥ pramucyate

28.4

सूर्य्यं हि पृष्ठतः कृत्वा सोमं वा वरवर्णिनि ।
शुक्लाम्बरधरस्स्रग्वी गंधधूपादिवासितः

sūryyaṃ hi pṛṣṭhataḥ kṛtvā somaṃ vā varavarṇini |
śuklāmbaradharassragvī gaṃdhadhūpādivāsitaḥ

28.5

संस्मरेन्मे महामंत्रं सर्वकामफलप्रदम् ।
नवात्मकं पिंडभूतं स्वां छायां संनिरीक्षयेत्

saṃsmarenme mahāmaṃtraṃ sarvakāmaphalapradam |
navātmakaṃ piṃḍabhūtaṃ svāṃ chāyāṃ saṃnirīkṣayet

28.6

दृष्ट्वा तां पुनराकाशे श्वेतवर्णस्वरूपिणीम् ।
स पश्यत्येकभावस्तु शिवं परमकारणम्

dṛṣṭvā tāṃ punarākāśe śvetavarṇasvarūpiṇīm |
sa paśyatyekabhāvastu śivaṃ paramakāraṇam

28.7

ब्रह्मप्राप्तिर्भवेत्तस्य कालविद्भिरितीरितम् ।
ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः

brahmaprāptirbhavettasya kālavidbhiritīritam |
brahmahatyādikaiḥ pāpairmucyate nātra saṃśayaḥ

28.8

शिरोहीनं यदा पश्येत्षड्भिर्मासैर्भवेत्क्षयः ।
समस्तं वाङ्मयं तस्य योगिनस्तु यथा तथा

śirohīnaṃ yadā paśyetṣaḍbhirmāsairbhavetkṣayaḥ |
samastaṃ vāṅmayaṃ tasya yoginastu yathā tathā

28.9

शुक्ले धर्मं विजानीयात्कृष्णे पापं विनिर्दिशेत् ।
रक्ते बंधं विजानीयात्पीते विद्विषमादिशेत्

śukle dharmaṃ vijānīyātkṛṣṇe pāpaṃ vinirdiśet |
rakte baṃdhaṃ vijānīyātpīte vidviṣamādiśet

28.10

विवाहो बंधुनाशस्स्याद्द्वितुंडे चैव क्षुद्भयम् ।
विकटौ नश्यते भार्य्या विजंघे धनमेव हि

vivāho baṃdhunāśassyāddvituṃḍe caiva kṣudbhayam |
vikaṭau naśyate bhāryyā vijaṃghe dhanameva hi

28.11

पादाभावे विदेशस्स्यादित्येतत्कथितं मया ।
तद्विचार्य्यं प्रयत्त्नेन पुरुषेण महेश्वरि

pādābhāve videśassyādityetatkathitaṃ mayā |
tadvicāryyaṃ prayattnena puruṣeṇa maheśvari

28.12

सम्यक्तं पुरुषं दृष्ट्वा संनिवेश्यात्मनात्मनि ।
जपेन्नवात्मकं मंत्रं हृदयं मे महेश्वरि

samyaktaṃ puruṣaṃ dṛṣṭvā saṃniveśyātmanātmani |
japennavātmakaṃ maṃtraṃ hṛdayaṃ me maheśvari

28.13

वत्सरे विगते मंत्री तन्नास्ति यन्न साधयेत् ।
अणिमादिगुणानष्टौ खेचरत्वं प्रपद्यते

vatsare vigate maṃtrī tannāsti yanna sādhayet |
aṇimādiguṇānaṣṭau khecaratvaṃ prapadyate

28.14

पुनरन्यत्प्रवक्ष्यामि शक्तिं ज्ञातुं दुरासदाम् ।
प्रत्यक्षं दृश्यते लोके ज्ञानिनामग्रतः स्थितम्

punaranyatpravakṣyāmi śaktiṃ jñātuṃ durāsadām |
pratyakṣaṃ dṛśyate loke jñānināmagrataḥ sthitam

28.15

अज्ञेया लिख्यते लोके या सर्पीकृतकुण्डली ।
सा मात्रा यानसंस्थापि दृश्यते न च पठ्यते

ajñeyā likhyate loke yā sarpīkṛtakuṇḍalī |
sā mātrā yānasaṃsthāpi dṛśyate na ca paṭhyate

28.16

ब्रह्माण्डमूर्ध्निगा या च स्तुता वेदैस्तु नित्यशः ।
जननी सर्वविद्यानां गुप्तविद्येति गीयते

brahmāṇḍamūrdhnigā yā ca stutā vedaistu nityaśaḥ |
jananī sarvavidyānāṃ guptavidyeti gīyate

28.17

खेचरा सा विनिर्दिष्टा सर्वप्राणिषु संस्थिता ।
दृश्यादृश्याचला नित्या व्यक्ताव्यक्ता सनातनी

khecarā sā vinirdiṣṭā sarvaprāṇiṣu saṃsthitā |
dṛśyādṛśyācalā nityā vyaktāvyaktā sanātanī

28.18

अवर्णा वर्णसंयुक्ता प्रोच्यते बिंदुमालिनी ।
तां पश्यन्सर्वदा योगी कृतकृत्योऽभिजायते

avarṇā varṇasaṃyuktā procyate biṃdumālinī |
tāṃ paśyansarvadā yogī kṛtakṛtyo'bhijāyate

28.19

सर्वतीर्थकृतस्नानाद्भवेद्दानस्य यत्फलम् ।
सर्वयज्ञफलं यच्च मालिन्या दर्शनात्तदा

sarvatīrthakṛtasnānādbhaveddānasya yatphalam |
sarvayajñaphalaṃ yacca mālinyā darśanāttadā

28.20

प्राप्नोत्यत्र न संदेहस्सत्यं वै कथितं मया ।
सर्वतीर्थेषु यत्स्नात्वा दत्त्वा दानानि सर्वशः

prāpnotyatra na saṃdehassatyaṃ vai kathitaṃ mayā |
sarvatīrtheṣu yatsnātvā dattvā dānāni sarvaśaḥ

28.21

सर्वेषां देवि यज्ञानां यत्फलं तल्लभेत्पुमान् ।
किं बहूक्त्या महेशानि सर्वान्कामान्समश्नुते

sarveṣāṃ devi yajñānāṃ yatphalaṃ tallabhetpumān |
kiṃ bahūktyā maheśāni sarvānkāmānsamaśnute

28.22

तस्माज्ज्ञानं यथायोगमभ्यसेत्सततं बुधः ।
अभ्यासाज्जायते सिद्धिर्योगोऽभ्यासात्प्रवर्धते

tasmājjñānaṃ yathāyogamabhyasetsatataṃ budhaḥ |
abhyāsājjāyate siddhiryogo'bhyāsātpravardhate

28.23

संवित्तिर्लभ्यतेऽभ्यासादभ्यासान्मोक्षमश्नुते ।
अभ्यासस्सततं कार्यो धीमता मोक्षकारणम्

saṃvittirlabhyate'bhyāsādabhyāsānmokṣamaśnute |
abhyāsassatataṃ kāryo dhīmatā mokṣakāraṇam

28.24

इत्येतत्कथितं देवि भुक्तिमुक्तिफलप्रदम् ।
किमन्यत्पृच्छ्यते तत्त्वं वद सत्यं ब्रवीमि ते

ityetatkathitaṃ devi bhuktimuktiphalapradam |
kimanyatpṛcchyate tattvaṃ vada satyaṃ bravīmi te

सूत उवाच

28.25

इति श्रुत्वा ब्रह्मपुत्रवचनं परमार्थदम् ।
प्रसन्नोऽभूदति व्यासः पाराशर्य्यो मुनीश्वराः

iti śrutvā brahmaputravacanaṃ paramārthadam |
prasanno'bhūdati vyāsaḥ pārāśaryyo munīśvarāḥ

28.26

सनत्कुमारं सर्वज्ञं ब्रह्मपुत्रं कृपानिधिम् ।
व्यासः परमसंतुष्टः प्रणनाम मुहुर्मुहुःष

sanatkumāraṃ sarvajñaṃ brahmaputraṃ kṛpānidhim |
vyāsaḥ paramasaṃtuṣṭaḥ praṇanāma muhurmuhuḥṣa

28.27

ततस्तुष्टाव तं व्यासः कालेयस्स मुनीश्वरः ।
सनत्कुमारं मुनयः सुरविज्ञानसागरम्

tatastuṣṭāva taṃ vyāsaḥ kāleyassa munīśvaraḥ |
sanatkumāraṃ munayaḥ suravijñānasāgaram

व्यास उवाच

28.28

कृतार्थोऽहं मुनिश्रेष्ठ ब्रह्मत्वं मे त्वया कृतम् ।
नमस्तेऽस्तु नमस्तेऽतु धन्यस्त्वं ब्रह्मवित्तमः

kṛtārtho'haṃ muniśreṣṭha brahmatvaṃ me tvayā kṛtam |
namaste'stu namaste'tu dhanyastvaṃ brahmavittamaḥ

सूत उवाच

28.29

इति स्तुत्वा स कालेयो ब्रह्मपुत्रं महामुनिम् ।
तूष्णीं बभूव सुप्रीतः परमानंदनिर्भरः

iti stutvā sa kāleyo brahmaputraṃ mahāmunim |
tūṣṇīṃ babhūva suprītaḥ paramānaṃdanirbharaḥ

28.30

ब्रह्मपुत्रस्तमामंत्र्य पूजितस्तेन शौनकः ।
ययौ स्वधाम सुप्रीतो व्यासोऽपि प्रीतमानसः

brahmaputrastamāmaṃtrya pūjitastena śaunakaḥ |
yayau svadhāma suprīto vyāso'pi prītamānasaḥ

28.31

इति मे वर्णितो विप्राः सुखदः परमार्थयुक् ।
सनत्कुमारकालेयसंवादो ज्ञानवर्द्धनः

iti me varṇito viprāḥ sukhadaḥ paramārthayuk |
sanatkumārakāleyasaṃvādo jñānavarddhanaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)