प्राङ्गणं रचयामास भोजनार्थं विचक्षणः
prāṅgaṇaṃ racayāmāsa bhojanārthaṃ vicakṣaṇaḥ
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरवर्गभोजनशिवशयनवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥
40 श्लोक · 52 में से 55
हिमवान आँगन को बुहारकर, लीपकर और सुगन्धित कर शिव, विष्णु और सब देवताओं को भोज पर बुलाते हैं। वे आदर से सबको बिठाकर अनेक व्यंजन परोसते हैं, और सब पंक्तियों में हँसते हुए भोजन करते हैं: नन्दी, भृंगी, वीरभद्र और गण, इन्द्र और लोकपाल, भृगु आदि ऋषि, और कौतुकी चण्डीगण। मेना के कहने पर स्त्रियाँ शिव को विश्वकर्मा के रचे वासगृह में ले जाती हैं, जो सैकड़ों रत्न-दीपों से जगमगाता है, मोतियों और श्वेत चँवरों से सजा है। हिमवान की प्रशंसा करते हुए महादेव रत्न-पलंग पर विश्राम करते हैं। भोर में विष्णु के भेजे धर्म उन्हें जगाते हैं; शिव मुस्कराकर प्रातःकर्म करते हैं, मेना से विदा लेकर वेदध्वनि के बीच जनवासे लौटते हैं।
ब्रह्मोवाच
प्राङ्गणं रचयामास भोजनार्थं विचक्षणः
prāṅgaṇaṃ racayāmāsa bhojanārthaṃ vicakṣaṇaḥ
मार्जनं लेपनं सम्यक्कारयामास तस्य सः ।
स सुगन्धैरलञ्चक्रे नानावस्तुभिरादरात्
mārjanaṃ lepanaṃ samyakkārayāmāsa tasya saḥ |
sa sugandhairalañcakre nānāvastubhirādarāt
अथ शैलस्सुरान्सर्वानन्यानपि च सेश्वरान् ।
भोजनायाह्वयामास पुत्रैश्शैलैः परैरपि
atha śailassurānsarvānanyānapi ca seśvarān |
bhojanāyāhvayāmāsa putraiśśailaiḥ parairapi
शैलाह्वानमथाकर्ण्य स प्रभुस्साच्युतो मुने ।
सर्वैस्सुरादिभिस्तत्र भोजनाय ययौ मुदा
śailāhvānamathākarṇya sa prabhussācyuto mune |
sarvaissurādibhistatra bhojanāya yayau mudā
गिरिः प्रभुं च सर्वांस्तान्सुसत्कृत्य यथाविधि ।
मुदोपवेशयामास सत्पीठेषु गृहान्तरे
giriḥ prabhuṃ ca sarvāṃstānsusatkṛtya yathāvidhi |
mudopaveśayāmāsa satpīṭheṣu gṛhāntare
नानासुभोज्यवस्तूनि परिविष्य च तत्पुनः ।
साञ्चलिर्भोजनायाज्ञां चक्रे विज्ञप्तिमानतः
nānāsubhojyavastūni pariviṣya ca tatpunaḥ |
sāñcalirbhojanāyājñāṃ cakre vijñaptimānataḥ
अथ सम्मानितास्तत्र देवा विष्णुपुरोगमाः ।
सदाशिवं पुरस्कृत्य बुभुजुस्सकलाश्च ते
atha sammānitāstatra devā viṣṇupurogamāḥ |
sadāśivaṃ puraskṛtya bubhujussakalāśca te
तदा सर्वे हि मिलिता ऐकपद्येन सर्वशः ।
पंक्तिभूताश्च बुभुजु र्विहसन्तः पृथक्पृथक्
tadā sarve hi militā aikapadyena sarvaśaḥ |
paṃktibhūtāśca bubhuju rvihasantaḥ pṛthakpṛthak
नन्दिभृंगिवीरभद्रवीरभद्रगणाः पृथक् ।
बुभुजुस्ते महाभागाः कुतूहलसमन्विताः
nandibhṛṃgivīrabhadravīrabhadragaṇāḥ pṛthak |
bubhujuste mahābhāgāḥ kutūhalasamanvitāḥ
देवास्सेन्द्रा लोकपाला नानाशोभासमन्विताः ।
बुभुजुस्ते महाभागा नानाहास्यरसैस्सह
devāssendrā lokapālā nānāśobhāsamanvitāḥ |
bubhujuste mahābhāgā nānāhāsyarasaissaha
सर्वे च मुनयो विप्रा भृग्वाद्या ऋषयस्तथा ।
बुभुजु प्रीतितस्सर्वे पृथक् पंक्तिगतास्तदा
sarve ca munayo viprā bhṛgvādyā ṛṣayastathā |
bubhuju prītitassarve pṛthak paṃktigatāstadā
तथा चण्डीगणास्सर्वे बुभुजुः कृतभाजनाः ।
कुतूहलं प्रकुर्वन्तो नानाहास्यकरा मुदा
tathā caṇḍīgaṇāssarve bubhujuḥ kṛtabhājanāḥ |
kutūhalaṃ prakurvanto nānāhāsyakarā mudā
एवन्ते भुक्तवन्तश्चाचम्य सर्वे मुदान्विताः ।
विश्रामार्थं गताः प्रीत्या विष्ण्वाद्यास्स्वस्वमाश्रमम्
evante bhuktavantaścācamya sarve mudānvitāḥ |
viśrāmārthaṃ gatāḥ prītyā viṣṇvādyāssvasvamāśramam
मेनाज्ञया स्त्रियस्साध्व्य श्शिवं सम्प्रार्थ्य भक्तितः ।
गेहे निवासयामासुर्वासाख्ये परमोत्सवे
menājñayā striyassādhvya śśivaṃ samprārthya bhaktitaḥ |
gehe nivāsayāmāsurvāsākhye paramotsave
रत्नसिंहासने शम्भुर्मेनादत्ते मनोहरे ।
सन्निधाय मुदा युक्तो ददृशे वासमन्दिरम्
ratnasiṃhāsane śambhurmenādatte manohare |
sannidhāya mudā yukto dadṛśe vāsamandiram
रत्नप्रदीपशतकैर्ज्वलद्भिर्ज्वलितं श्रिया ।
रत्नपात्रघटाकीर्णं मुक्तामणिविराजितम्
ratnapradīpaśatakairjvaladbhirjvalitaṃ śriyā |
ratnapātraghaṭākīrṇaṃ muktāmaṇivirājitam
रत्नदर्प्पणशोभाढ्यं मण्डितं श्वेतचामरैः ।
मुक्तामणिसुमालाभिर्वेष्टितं परमर्द्धिमत्
ratnadarppaṇaśobhāḍhyaṃ maṇḍitaṃ śvetacāmaraiḥ |
muktāmaṇisumālābhirveṣṭitaṃ paramarddhimat
अनूपमम्महादिव्यं विचित्रं सुमनोहरम् ।
चित्ताह्लादकरं नानारचनारचितस्थलम्
anūpamammahādivyaṃ vicitraṃ sumanoharam |
cittāhlādakaraṃ nānāracanāracitasthalam
शिवदत्तवरस्यैव प्रभावमतुलम्परम् ।
दर्शयन्तं समुल्लासि शिवलोकाभिधानकम्
śivadattavarasyaiva prabhāvamatulamparam |
darśayantaṃ samullāsi śivalokābhidhānakam
नानासुगन्धसद्द्रव्यैर्वासितं सुप्रकाशकम् ।
चन्दनागुरुसंयुक्तं पुष्पशय्यासमन्वितम्
nānāsugandhasaddravyairvāsitaṃ suprakāśakam |
candanāgurusaṃyuktaṃ puṣpaśayyāsamanvitam
नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्म्मणा ।
रत्नेन्द्रसाररचितैराचितं हारकैर्वरैः
nānācitravicitrāḍhyaṃ nirmitaṃ viśvakarmmaṇā |
ratnendrasāraracitairācitaṃ hārakairvaraiḥ
कुत्रचित्सुरनिर्माणं वैकुण्ठं सुमनोहरम् ।
कुत्रचिच्च ब्रह्मलोकं लोकपालपुरं क्वचित्
kutracitsuranirmāṇaṃ vaikuṇṭhaṃ sumanoharam |
kutracicca brahmalokaṃ lokapālapuraṃ kvacit
कैलासं कुत्रचिद्रम्यं कुत्रचिच्छक्रमन्दिरम् ।
कुत्रचिच्छिवलोकं च सर्वोपरि विराजितम्
kailāsaṃ kutracidramyaṃ kutracicchakramandiram |
kutracicchivalokaṃ ca sarvopari virājitam
एतादृशगृहं सर्वदृष्टाश्चर्य्यं महेश्वरः ।
प्रशंसन् हिमशैलेशं परितुष्टो बभूव ह
etādṛśagṛhaṃ sarvadṛṣṭāścaryyaṃ maheśvaraḥ |
praśaṃsan himaśaileśaṃ parituṣṭo babhūva ha
तत्रातिरमणीये च रत्नपर्य्यंक उत्तमे ।
अशयिष्ट मुदा युक्तो लीलया परमेश्वरः
tatrātiramaṇīye ca ratnaparyyaṃka uttame |
aśayiṣṭa mudā yukto līlayā parameśvaraḥ
हिमाचलश्च स्वभ्रातॄन्भोजयामास कृत्स्नशः ।
सर्वानन्यांश्च सुप्रीत्या शेषकृत्यं चकार ह
himācalaśca svabhrātṝnbhojayāmāsa kṛtsnaśaḥ |
sarvānanyāṃśca suprītyā śeṣakṛtyaṃ cakāra ha
एवं कुर्वति शैलेशे स्वपति प्रेष्ठ ईश्वरे ।
व्यतीता रजनी सर्वा प्रातःकालो बभूव ह
evaṃ kurvati śaileśe svapati preṣṭha īśvare |
vyatītā rajanī sarvā prātaḥkālo babhūva ha
अथ प्रभातकाले च धृत्युत्साहपरायणाः ।
नानाप्रकारवाद्यानि वादयाञ्चक्रिरे जनाः
atha prabhātakāle ca dhṛtyutsāhaparāyaṇāḥ |
nānāprakāravādyāni vādayāñcakrire janāḥ
सर्वे सुरास्समुत्तस्थुर्विष्ण्वाद्यास्सुमुदान्विताः ।
स्वेष्टं संस्मृत्य देवेशं सज्जिभूतास्ससंभ्रमाः
sarve surāssamuttasthurviṣṇvādyāssumudānvitāḥ |
sveṣṭaṃ saṃsmṛtya deveśaṃ sajjibhūtāssasaṃbhramāḥ
स्ववाहनानि सज्जानि कैलासङ्गन्तुमुत्सुकाः ।
कृत्वा सम्प्रेषयामासुर्धर्मं शिवसमीपतः
svavāhanāni sajjāni kailāsaṅgantumutsukāḥ |
kṛtvā sampreṣayāmāsurdharmaṃ śivasamīpataḥ
वासगेहमथागत्य धर्मो नारायणाज्ञया ।
उवाच शंकरं योगी योगीशं समयोचितम्
vāsagehamathāgatya dharmo nārāyaṇājñayā |
uvāca śaṃkaraṃ yogī yogīśaṃ samayocitam
धर्म उवाच
उत्तिष्ठोत्तिष्ठ भद्रन्ते भव नः प्रमथाधिप ।
जनावासं समागच्छ कृतार्थं कुरु तत्र तान्
uttiṣṭhottiṣṭha bhadrante bhava naḥ pramathādhipa |
janāvāsaṃ samāgaccha kṛtārthaṃ kuru tatra tān
ब्रह्मोवाच
इति धर्मवचः श्रुत्वा विजहास महेश्वरः ।
ददर्श कृपया दृष्ट्या तल्पमुज्झाञ्चकार ह
iti dharmavacaḥ śrutvā vijahāsa maheśvaraḥ |
dadarśa kṛpayā dṛṣṭyā talpamujjhāñcakāra ha
उवाच विहसन् धर्म त्वमग्रे गच्छ तत्र ह ।
अहमप्यागमिष्यामि द्रुतमेव न संशयः
uvāca vihasan dharma tvamagre gaccha tatra ha |
ahamapyāgamiṣyāmi drutameva na saṃśayaḥ
इत्युक्तश्शंकरेणाथ जनावासं जगाम सः ।
स्वयङ्गन्तुमना आसीत्तत्र शम्भुरपि प्रभुः
ityuktaśśaṃkareṇātha janāvāsaṃ jagāma saḥ |
svayaṅgantumanā āsīttatra śambhurapi prabhuḥ
तज्ज्ञात्वा स्त्रीगणस्सोसौ तत्रागच्छन्महोत्सवः ।
चक्रे मंगलगानं हि पश्यन्शम्भुपदद्वयम्
tajjñātvā strīgaṇassosau tatrāgacchanmahotsavaḥ |
cakre maṃgalagānaṃ hi paśyanśambhupadadvayam
अथ शंम्भुर्भवाचारी प्रातःकृत्यं विधाय च ।
मेनामान्त्र्य कुध्रं च जनावासं जगाम सः
atha śaṃmbhurbhavācārī prātaḥkṛtyaṃ vidhāya ca |
menāmāntrya kudhraṃ ca janāvāsaṃ jagāma saḥ
महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने ।
वाद्यानि वादयामासुर्जनाश्चातुर्विधानि च
mahotsavastadā cāsīdvedadhvanirabhūnmune |
vādyāni vādayāmāsurjanāścāturvidhāni ca
शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ।
हरिं च मां भवाचारात् वन्दितोऽभूत्सुरादिभिः
śambhurāgatya svasthānaṃ vavande ca munīṃstadā |
hariṃ ca māṃ bhavācārāt vandito'bhūtsurādibhiḥ
जयशब्दो बभूवाथ नमश्शब्दस्तथैव च ।
वेदध्वनिश्च शुभदो महाकोलाहलोऽभवत्
jayaśabdo babhūvātha namaśśabdastathaiva ca |
vedadhvaniśca śubhado mahākolāhalo'bhavat
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)