रुद्र संहिता — पार्वती खण्ड

अध्याय 50: विवाह की शेष विधियाँ और वासगृह का परिहास

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीय पार्वतीखण्डे परिहासवर्णनंनाम पञ्चाशत्तमोऽध्यायः ॥

45 श्लोक · 50 में से 55

इस अध्याय में क्या होता है

विवाह की शेष विधियाँ और वासगृह का परिहास

ब्रह्मा मुनियों के साथ शेष विधियाँ पूरी करते हैं: शिरोऽभिषेक, ध्रुव-दर्शन, हृदयालम्भन और स्वस्तिपाठ। ब्राह्मणों के कहने पर शिव पार्वती की माँग में सिन्दूर भरते हैं, और दोनों एक आसन पर बैठते हैं। शिव ब्रह्मा को पूर्णपात्र, आचार्य को गोदान और ब्राह्मणों को सोना और रत्न देते हैं। नगर की स्त्रियाँ दम्पती को वासगृह में ले जाकर गाँठ खोलती हैं और महादेव का नवयौवन रूप देखकर मुग्ध होती हैं। सरस्वती, लक्ष्मी, सावित्री, गंगा, अदिति, शची, लोपामुद्रा, अरुन्धती, अहल्या, तुलसी आदि सोलह दिव्य नारियाँ आती हैं और विवाह में स्त्रियों की रीति के अनुसार सती, उनके विरह और कामदहन को लेकर बारी-बारी से उनसे परिहास करती हैं। शिव कहते हैं कि जगत की माताओं को अपने पुत्र से ऐसी चपलता शोभा नहीं देती; वे लज्जित होकर चुप हो जाती हैं।

ब्रह्मोवाच

50.1

ततश्चाहं मुनिगणैश्शेषकृत्यं शिवाज्ञया ।
अकार्षं नारद प्रीत्या शिवाशिवविवाहतः

tataścāhaṃ munigaṇaiśśeṣakṛtyaṃ śivājñayā |
akārṣaṃ nārada prītyā śivāśivavivāhataḥ

50.2

तयोश्शिरोऽभिषेकश्च बभूवादरतस्ततः ।
ध्रुवस्यदर्शनं विप्राः कारयामासुरादरात

tayośśiro'bhiṣekaśca babhūvādaratastataḥ |
dhruvasyadarśanaṃ viprāḥ kārayāmāsurādarāta

50.3

हृदयालम्भनं कर्म बभूव तदनन्तरम् ।
स्वस्तिपाठश्च विप्रेन्द्र महोत्सवपुरस्सरः

hṛdayālambhanaṃ karma babhūva tadanantaram |
svastipāṭhaśca viprendra mahotsavapurassaraḥ

50.4

शिवाशिरसि सिन्दूरं ददौ शम्भुर्द्विजाज्ञया ।
तदानीं गिरिजाभिख्याद्भुतावर्ण्या बभूव ह

śivāśirasi sindūraṃ dadau śambhurdvijājñayā |
tadānīṃ girijābhikhyādbhutāvarṇyā babhūva ha

50.5

ततो विप्राज्ञया तौ द्वावेकासनसमास्थितौ ।
लेभाते परमां शोभां भक्तचित्त मुदावहाम्

tato viprājñayā tau dvāvekāsanasamāsthitau |
lebhāte paramāṃ śobhāṃ bhaktacitta mudāvahām

50.6

ततः स्वस्थानमागत्य संस्रवप्राशनं मुदा ।
चक्रतुस्तौ निदेशान्मेऽद्भुतलीलाकरौ मुने

tataḥ svasthānamāgatya saṃsravaprāśanaṃ mudā |
cakratustau nideśānme'dbhutalīlākarau mune

50.7

इत्थं निवृत्ते विधिवद्याज्ञे वैवाहिके शिवः ।
ब्रह्मणे पूर्णपात्रं मे ददौ लोककृते प्रभुः

itthaṃ nivṛtte vidhivadyājñe vaivāhike śivaḥ |
brahmaṇe pūrṇapātraṃ me dadau lokakṛte prabhuḥ

50.8

गोदानं विधिवच्छम्भुराचार्याय ददौ ततः ।
महादानानि च प्रीत्या यानि मङ्गलदानि वै

godānaṃ vidhivacchambhurācāryāya dadau tataḥ |
mahādānāni ca prītyā yāni maṅgaladāni vai

50.9

ततश्शतसुवर्णं च विप्रेभ्यस्स ददौ पृथक् ।
बहुभ्यो रत्नकोटीश्च नानाद्रव्याण्यनेकशः

tataśśatasuvarṇaṃ ca viprebhyassa dadau pṛthak |
bahubhyo ratnakoṭīśca nānādravyāṇyanekaśaḥ

50.10

तदानीममरास्सर्वे परे जीवाश्चराचराः ।
मुमुदुश्चेतसातीव जयध्वनिः

tadānīmamarāssarve pare jīvāścarācarāḥ |
mumuduścetasātīva jayadhvaniḥ

50.11

मङ्गलध्वनिगानश्च बभूव बहु सर्वतः ।
वाद्यध्वनिरभूद्रम्यो सर्वानन्दप्रवर्द्धनः

maṅgaladhvanigānaśca babhūva bahu sarvataḥ |
vādyadhvanirabhūdramyo sarvānandapravarddhanaḥ

50.12

हरिर्मयाथ देवाश्च मुनयश्चापरेऽखिलाः ।
गिरिमामन्त्र्य सुप्रीत्या स्वस्थानम्प्रययुर्द्रुतम्

harirmayātha devāśca munayaścāpare'khilāḥ |
girimāmantrya suprītyā svasthānamprayayurdrutam

50.13

तदानीं शैलनगरे स्त्रियश्च मुदिता वरम् ।
शिवाशिवौ समानीय ययुः कुह वरालयम्

tadānīṃ śailanagare striyaśca muditā varam |
śivāśivau samānīya yayuḥ kuha varālayam

50.14

लौकिकाचारमाजह्रुस्ताः स्त्रियस्तत्र चादृताः ।
महोत्साहो बभूवाथ सर्वतः प्रमुदावहः

laukikācāramājahrustāḥ striyastatra cādṛtāḥ |
mahotsāho babhūvātha sarvataḥ pramudāvahaḥ

50.15

अथ तास्तौ समानीय दम्पती जनशंकरौ ।
वासालयम्महादिव्यं भवाचारं व्यधुर्मुदा

atha tāstau samānīya dampatī janaśaṃkarau |
vāsālayammahādivyaṃ bhavācāraṃ vyadhurmudā

50.16

अथो समीपमागत्य शैलेन्द्रनगरस्त्रियः ।
निर्वृत्य मङ्गलं कर्म प्रापयन्दम्पती गृहम्

atho samīpamāgatya śailendranagarastriyaḥ |
nirvṛtya maṅgalaṃ karma prāpayandampatī gṛham

50.17

कृत्वा जयध्वनिं चक्रुर्ग्रन्थिनिर्मोचनादिकम् ।
सस्मितास्सकटाक्षाश्च पुलकाञ्चितविग्रहाः

kṛtvā jayadhvaniṃ cakrurgranthinirmocanādikam |
sasmitāssakaṭākṣāśca pulakāñcitavigrahāḥ

50.18

वासगेहं सम्प्रविश्य मुमुहुः कामिनीवराः ।
प्रसंशन्त्यस्स्वभाग्यानि पश्यन्तः परमेश्वरम्

vāsagehaṃ sampraviśya mumuhuḥ kāminīvarāḥ |
prasaṃśantyassvabhāgyāni paśyantaḥ parameśvaram

50.19

महासुरूपवेषश्च सर्व लावण्यसंयुतम् ।
नवीनयौवनस्थञ्च कामिनीचित्तमोहनम्

mahāsurūpaveṣaśca sarva lāvaṇyasaṃyutam |
navīnayauvanasthañca kāminīcittamohanam

50.20

ईषद्धास्यप्रसन्नास्यं सकटाक्षं सुसुन्दरम् ।
सुसूक्ष्मवासो बिभ्राणं नानारत्न विभूषितम्

īṣaddhāsyaprasannāsyaṃ sakaṭākṣaṃ susundaram |
susūkṣmavāso bibhrāṇaṃ nānāratna vibhūṣitam

50.21

तदानीन्दिव्यनार्यश्च षोडशारं समाययुः ।
तौ दम्पती च संद्रष्टुं महादरपुरस्सरम्

tadānīndivyanāryaśca ṣoḍaśāraṃ samāyayuḥ |
tau dampatī ca saṃdraṣṭuṃ mahādarapurassaram

50.22

सरस्वती च लक्ष्मीश्च सावित्री जाह्नवी तथा ।
अदितिश्च शची चैव लोपामुद्राप्यरुन्धती

sarasvatī ca lakṣmīśca sāvitrī jāhnavī tathā |
aditiśca śacī caiva lopāmudrāpyarundhatī

50.23

अहल्या तुलसी स्वाहा रोहिणी च वसुन्धरा ।
शतरूपा च संज्ञा च रतिरेतास्सुरस्त्रियः

ahalyā tulasī svāhā rohiṇī ca vasundharā |
śatarūpā ca saṃjñā ca ratiretāssurastriyaḥ

50.24

देवकन्या नागकन्या मुनिकन्या मनोहराः ।
तत्र या याः स्थितास्तासां सङ्ख्यां कर्तुं च कः क्षमः

devakanyā nāgakanyā munikanyā manoharāḥ |
tatra yā yāḥ sthitāstāsāṃ saṅkhyāṃ kartuṃ ca kaḥ kṣamaḥ

50.25

ताभी रत्नासने दत्ते तत्रोवास शिवो मुदा ।
तमूचुः क्रमतो देव्यस्सुहास मधुरं वचः

tābhī ratnāsane datte tatrovāsa śivo mudā |
tamūcuḥ kramato devyassuhāsa madhuraṃ vacaḥ

सरस्वत्युवाच

50.26

प्राप्ता सती महादेवाधुना प्राणाधिका मुदा ।
दृष्ट्वा प्रियास्यञ्चन्द्राभं सन्तापन्त्यज कामुक

prāptā satī mahādevādhunā prāṇādhikā mudā |
dṛṣṭvā priyāsyañcandrābhaṃ santāpantyaja kāmuka

50.27

कालं गमय कालेश सतीसंश्लेषपूर्वकम् ।
विश्लेषस्ते न भविता सर्वकालं ममाश्रिता

kālaṃ gamaya kāleśa satīsaṃśleṣapūrvakam |
viśleṣaste na bhavitā sarvakālaṃ mamāśritā

लक्ष्मीरुवाच

50.28

लज्जां विहाय देवेश सतीं कृत्वा स्ववक्षसि ।
तिष्ठ ताम्प्रति का लज्जा प्राणा यान्ति यया विना

lajjāṃ vihāya deveśa satīṃ kṛtvā svavakṣasi |
tiṣṭha tāmprati kā lajjā prāṇā yānti yayā vinā

सावित्र्युवाच

50.29

भोजयित्वा सती शम्भो शीघ्रं त्वं भुंक्ष्व मा खिद ।
तदाचम्य सकर्पूरन्तांबूलं देहि सादरम्

bhojayitvā satī śambho śīghraṃ tvaṃ bhuṃkṣva mā khida |
tadācamya sakarpūrantāṃbūlaṃ dehi sādaram

जाह्नव्युवाच

50.30

स्वर्णकांतिकरां धृत्वा केशान्मार्जय योषितः ।
कामिन्यास्स्वामिसौभाग्यसुखं नातः परं भवेत्

svarṇakāṃtikarāṃ dhṛtvā keśānmārjaya yoṣitaḥ |
kāminyāssvāmisaubhāgyasukhaṃ nātaḥ paraṃ bhavet

अदितिरुवाच

50.31

भोजनान्ते शिवः शम्भुं मुखं शुद्ध्यर्थमादरात् ।
जलं देहि महाप्रीत्या दम्पतिप्रेम दुर्लभम्

bhojanānte śivaḥ śambhuṃ mukhaṃ śuddhyarthamādarāt |
jalaṃ dehi mahāprītyā dampatiprema durlabham

शच्युवाच

50.32

कृत्वा विलापं यद्धेतोः शिवां कृत्वा च वक्षसि ।
यो बभ्रामानिशं मोहात् का लज्जा ते प्रियाम्प्रति

kṛtvā vilāpaṃ yaddhetoḥ śivāṃ kṛtvā ca vakṣasi |
yo babhrāmāniśaṃ mohāt kā lajjā te priyāmprati

लोपामुद्रोवाच

50.33

व्यवहारोऽस्ति च स्त्रीणां भुक्त्वा वासगृहे शिव ।
दत्त्वा शिवायै ताम्बूलं शयनं कर्तुमर्हसि

vyavahāro'sti ca strīṇāṃ bhuktvā vāsagṛhe śiva |
dattvā śivāyai tāmbūlaṃ śayanaṃ kartumarhasi

अरुन्धत्युवाच

50.34

मया दत्तां सतीमेनां तुभ्यन्दातुमनीप्सिताम् ।
विविधं बोधयित्वेमां सुरतिं कर्तुमर्हसि

mayā dattāṃ satīmenāṃ tubhyandātumanīpsitām |
vividhaṃ bodhayitvemāṃ suratiṃ kartumarhasi

अहल्योवाच

50.35

वृद्धावस्थाम्परित्यज्य ह्यतीव तरुणो भव ।
येन मेनानुमन्येत त्वां सुतार्पितमानसा

vṛddhāvasthāmparityajya hyatīva taruṇo bhava |
yena menānumanyeta tvāṃ sutārpitamānasā

तुलस्युवाच

50.36

सती त्वया परित्यक्ता कामो दग्धः पुरा कृतः ।
कथन्तदा वसिष्ठश्च प्रभो प्रस्थापितोऽधुना

satī tvayā parityaktā kāmo dagdhaḥ purā kṛtaḥ |
kathantadā vasiṣṭhaśca prabho prasthāpito'dhunā

स्वाहोवाच

50.37

स्थिरो भव महादेव स्त्रीणां वचसि साम्प्रतम् ।
विवाहे व्यवहारोऽस्ति पुरन्ध्रीणां प्रगल्भता

sthiro bhava mahādeva strīṇāṃ vacasi sāmpratam |
vivāhe vyavahāro'sti purandhrīṇāṃ pragalbhatā

रोहिण्युवाच

50.38

कामम्पूरय पार्वत्याः कामशास्त्रविशारद ।
कुरु पारं स्वयं कामी कामिनीकामसागरम्

kāmampūraya pārvatyāḥ kāmaśāstraviśārada |
kuru pāraṃ svayaṃ kāmī kāminīkāmasāgaram

वसुन्धरोवाच

50.39

जानासि भावं भावज्ञ कामार्तानां च योषिताम् ।
न च स्वं स्वामिनं शम्भो ईश्वरं पाति सन्ततम्

jānāsi bhāvaṃ bhāvajña kāmārtānāṃ ca yoṣitām |
na ca svaṃ svāminaṃ śambho īśvaraṃ pāti santatam

शतरूपोवाच

50.40

भोगं दिव्यं विना भुक्त्वा न हि तुष्येत्क्षुधातुरः ।
येन तुष्टिर्भवेच्छंभो तत्कर्तुमुचितं स्त्रियाः

bhogaṃ divyaṃ vinā bhuktvā na hi tuṣyetkṣudhāturaḥ |
yena tuṣṭirbhavecchaṃbho tatkartumucitaṃ striyāḥ

संज्ञोवाच

50.41

तूर्णं प्रस्थापय प्रीत्या पार्वत्या सह शङ्करम् ।
रत्नप्रदीपन्ताम्बूलं तल्पं निर्माय निर्जने

tūrṇaṃ prasthāpaya prītyā pārvatyā saha śaṅkaram |
ratnapradīpantāmbūlaṃ talpaṃ nirmāya nirjane

ब्रह्मोवाच

50.42

स्त्रीणान्तद्वचनं श्रुत्वा ता उवाच शिवः स्वयम् ।
निर्विकारश्च भगवान्योगीन्द्राणां गुरोर्गुरुः

strīṇāntadvacanaṃ śrutvā tā uvāca śivaḥ svayam |
nirvikāraśca bhagavānyogīndrāṇāṃ gurorguruḥ

शंकर उवाच

50.43

देव्यो न ब्रूत वचनमेवंभूतं ममान्तिकम् ।
जगतां मातरः साध्व्यः पुत्रे चपलता कथम्

devyo na brūta vacanamevaṃbhūtaṃ mamāntikam |
jagatāṃ mātaraḥ sādhvyaḥ putre capalatā katham

ब्रह्मोवाच

50.44

शङ्करस्य वचः श्रुत्वा लज्जितास्सुरयोषितः ।
बभूवुः सम्भ्रमात्तूष्णीं चित्रपुत्तलिका यथा

śaṅkarasya vacaḥ śrutvā lajjitāssurayoṣitaḥ |
babhūvuḥ sambhramāttūṣṇīṃ citraputtalikā yathā

50.45

भुक्त्वा मिष्टान्नमाचम्य महेशो हृष्टमानसः ।
सकर्पूरं च तांबूलं बुभुजे भार्य या सह

bhuktvā miṣṭānnamācamya maheśo hṛṣṭamānasaḥ |
sakarpūraṃ ca tāṃbūlaṃ bubhuje bhārya yā saha

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)