रुद्र संहिता — पार्वती खण्ड

अध्याय 36: हिमवान की स्वीकृति और लग्न का निश्चय

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे सप्तऋषिवचनं नाम षट्त्रिंशोऽध्यायः ॥

34 श्लोक · 36 में से 55

इस अध्याय में क्या होता है

हिमवान की स्वीकृति और लग्न का निश्चय

हिमवान मेरु, मन्दर और विन्ध्य आदि पर्वतों से सलाह माँगते हैं, और वे स्पष्ट कहते हैं कि पार्वती देवकार्य के लिए जन्मी हैं, उन्हें शिव को ही देना है। अरुन्धती अनेक कथाओं से मेना को मना लेती हैं। अपना सब कुछ शिव का बताकर हिमवान पार्वती को सजाकर ऋषियों की गोद में बिठाते हैं। सप्तर्षि आशीर्वाद देते हैं कि वे शिव को सुख दें और वचन के प्रमाण में फल-फूल देते हैं; रीति के अनुसार हिमवान की दाढ़ी पर हल्दी-कुंकुम लगाया जाता है। चौथे दिन का लग्न तय होता है। ऋषि महादेव को सम्बन्ध पक्का होने की सूचना देते हैं। मुस्कराकर वे कहते हैं कि उन्होंने विवाह कभी देखा नहीं, तब ऋषि विष्णु, ब्रह्मा, इन्द्र और सब गणों को बुलाने को कहते हैं।

ब्रह्मोवाच

36.1

वसिष्ठस्य वचः श्रुत्वा सगणोपि हिमालयः ।
विस्मितो भार्य्यया शैलानुवाच स गिरीश्वरः

vasiṣṭhasya vacaḥ śrutvā sagaṇopi himālayaḥ |
vismito bhāryyayā śailānuvāca sa girīśvaraḥ

हिमालय उवाच

36.2

हे मेरो गिरिराट् सह्य गन्धमादन मन्दर ।
मैनाक विन्ध्य शैलेन्द्रास्सर्वे शृणुत मद्वचः

he mero girirāṭ sahya gandhamādana mandara |
maināka vindhya śailendrāssarve śṛṇuta madvacaḥ

36.3

वसिष्ठो हि वदत्येवं किं मे कार्य्यं विचार्य्यते ।
यथा तथा च शंसध्वं निर्णीय मनसाखिलम्

vasiṣṭho hi vadatyevaṃ kiṃ me kāryyaṃ vicāryyate |
yathā tathā ca śaṃsadhvaṃ nirṇīya manasākhilam

ब्रह्मोवाच

36.4

तच्छुत्वा वचनं तस्य सुमेरुप्रमुखाश्च ते ।
प्रोचुर्हिमालयं प्रीत्या सुनिर्णीय महीधराः

tacchutvā vacanaṃ tasya sumerupramukhāśca te |
procurhimālayaṃ prītyā sunirṇīya mahīdharāḥ

शैला ऊचुः

36.5

अधुना किं विमर्शेन कृतं कार्य्यं तथैव हि ।
उत्पन्नेयं महाभाग देवकार्यार्थमेव हि

adhunā kiṃ vimarśena kṛtaṃ kāryyaṃ tathaiva hi |
utpanneyaṃ mahābhāga devakāryārthameva hi

36.6

प्रदातव्या शिवायेति शिवस्यार्थेवतारिणी ।
अनयाराधितो रुद्रो रुद्रेण यदि भाषिता

pradātavyā śivāyeti śivasyārthevatāriṇī |
anayārādhito rudro rudreṇa yadi bhāṣitā

ब्रह्मोवाच

36.7

एतच्छ्रुत्वा वचस्तेषाम्मेर्वादीनां हिमाचलः ।
सुप्रसन्नतरोभूद्वै जहास गिरिजा हृदि

etacchrutvā vacasteṣāmmervādīnāṃ himācalaḥ |
suprasannatarobhūdvai jahāsa girijā hṛdi

36.8

अरुन्धती च तां मेनां बोधयामास कारणात् ।
नानावाक्यसमूहेनेतिहासैर्विविधैरपि

arundhatī ca tāṃ menāṃ bodhayāmāsa kāraṇāt |
nānāvākyasamūhenetihāsairvividhairapi

36.9

अथ सा मेनका शैलपत्नी बुद्ध्वा प्रसन्नधीः ।
मुनीनरुन्धतीं शैलं भोजयित्वा बुभोज च

atha sā menakā śailapatnī buddhvā prasannadhīḥ |
munīnarundhatīṃ śailaṃ bhojayitvā bubhoja ca

36.10

अथ शैलवरो ज्ञानी सुसंसेव्य मुनींश्च ताम् ।
उवाच साञ्जलिः प्रीत्या प्रसन्नात्मागतभ्रमः

atha śailavaro jñānī susaṃsevya munīṃśca tām |
uvāca sāñjaliḥ prītyā prasannātmāgatabhramaḥ

हिमाचल उवाच

36.11

सप्तर्षयो महाभागा वचः शृणुत मामकम् ।
विस्मयो मे गतस्सर्वश्शिवयोश्चरितं श्रुतम्

saptarṣayo mahābhāgā vacaḥ śṛṇuta māmakam |
vismayo me gatassarvaśśivayoścaritaṃ śrutam

36.12

मदीयं च शरीरम्वै पत्नी मेना सुतास्सुता ।
ऋद्धिस्सिद्धिश्च चान्यद्वै शिवस्यैव न चान्यथा

madīyaṃ ca śarīramvai patnī menā sutāssutā |
ṛddhissiddhiśca cānyadvai śivasyaiva na cānyathā

ब्रह्मोवाच

36.13

इत्युक्त्वा स तदा पुत्रीं दृष्ट्वा तत्सादरं च ताम् ।
भूषयित्वा तदङ्गानि ऋष्युत्संगे न्यवेशयेत्

ityuktvā sa tadā putrīṃ dṛṣṭvā tatsādaraṃ ca tām |
bhūṣayitvā tadaṅgāni ṛṣyutsaṃge nyaveśayet

36.14

उवाच च पुनः प्रीत्या शैलराज ऋषींस्तदा ॥ ।
अयं भागो मया तस्मै दातव्य इति निश्चितम्

uvāca ca punaḥ prītyā śailarāja ṛṣīṃstadā || |
ayaṃ bhāgo mayā tasmai dātavya iti niścitam

ऋषय ऊचुः

36.15

शंकरो भिक्षुकस्तेथ स्वयं दाता भवान् गिरे ।
भैक्ष्यञ्च पार्वती देवी किमतः परमुत्तमम्

śaṃkaro bhikṣukastetha svayaṃ dātā bhavān gire |
bhaikṣyañca pārvatī devī kimataḥ paramuttamam

36.16

हिमवन् शिखराणान्ते यद्धेतोस्सदृशी गतिः ।
धन्यस्त्वं सर्वशैलानामधिपस्सर्वतो वरः

himavan śikharāṇānte yaddhetossadṛśī gatiḥ |
dhanyastvaṃ sarvaśailānāmadhipassarvato varaḥ

ब्रह्मोवाच

36.17

एवमुक्त्वा तु कन्यायै मुनयो विमलाशयाः ।
आशिषं दत्तवन्तस्ते शिवाय सुखदा भव

evamuktvā tu kanyāyai munayo vimalāśayāḥ |
āśiṣaṃ dattavantaste śivāya sukhadā bhava

36.18

स्पृष्ट्वा करेण तां तत्र कल्याणं ते भविष्यति ।
शुक्लपक्षे यथा चन्द्रो वर्द्धन्तां त्वद्गुणास्तथा

spṛṣṭvā kareṇa tāṃ tatra kalyāṇaṃ te bhaviṣyati |
śuklapakṣe yathā candro varddhantāṃ tvadguṇāstathā

36.19

इत्युक्त्वा मुनयस्सर्वे दत्त्वा ते गिरये मुदा ।
पुष्पाणि फलयुक्तानि प्रत्ययं चक्रिरे तदा

ityuktvā munayassarve dattvā te giraye mudā |
puṣpāṇi phalayuktāni pratyayaṃ cakrire tadā

36.20

अरुन्धती तदा तत्र मेनां सा सुसुखी मुदा ।
गुणैश्च लोभयामास शिवस्य परमा सती

arundhatī tadā tatra menāṃ sā susukhī mudā |
guṇaiśca lobhayāmāsa śivasya paramā satī

36.21

हरिद्राकुंकुमैश्शैलश्मश्रूणि प्रत्यमार्जयत् ।
लौकिकाचारमाधाय मंगलायनमुत्तमम्

haridrākuṃkumaiśśailaśmaśrūṇi pratyamārjayat |
laukikācāramādhāya maṃgalāyanamuttamam

36.22

ततश्च ते चतुर्थेह्नि संधार्य्य लग्नमुत्तमम् ।
परस्परं च सन्तुष्य संजग्मुश्शिवसन्निधिम्

tataśca te caturthehni saṃdhāryya lagnamuttamam |
parasparaṃ ca santuṣya saṃjagmuśśivasannidhim

36.23

तत्र गत्वा शिवं नत्वा स्तुत्वा विवि धसूक्तिभिः ।
ऊचुः सर्वे वसिष्ठाद्या मुनयः परमेश्वरम्

tatra gatvā śivaṃ natvā stutvā vivi dhasūktibhiḥ |
ūcuḥ sarve vasiṣṭhādyā munayaḥ parameśvaram

ऋषय ऊचुः

36.24

देवदेव महादेव परमेश महाप्रभो ।
शृण्वस्मद्वचनं प्रीत्या यत्कृतं सेवकैस्तव

devadeva mahādeva parameśa mahāprabho |
śṛṇvasmadvacanaṃ prītyā yatkṛtaṃ sevakaistava

36.25

बोधितो गिरिराजश्च मेना विविधसूक्तिभिः ।
सेतिहासं महेशान प्रबुद्धोसौ न संशयः

bodhito girirājaśca menā vividhasūktibhiḥ |
setihāsaṃ maheśāna prabuddhosau na saṃśayaḥ

36.26

वाक्यदत्ता गिरीन्द्रेण पार्वती ते हि नान्यथा ।
उद्वाहाय प्रगच्छ त्वं गणैर्देवैश्च संयुतः

vākyadattā girīndreṇa pārvatī te hi nānyathā |
udvāhāya pragaccha tvaṃ gaṇairdevaiśca saṃyutaḥ

36.27

गच्छ शीघ्रं महादेव हिमाचलगृहं प्रभो ।
विवाहय यथा रीतिः पार्वतीमात्मजन्मने

gaccha śīghraṃ mahādeva himācalagṛhaṃ prabho |
vivāhaya yathā rītiḥ pārvatīmātmajanmane

ब्रह्मोवाच

36.28

तच्छ्रुत्वा वचनं तेषां लौकिकाचारतत्परः ।
प्रहृष्टात्मा महेशानः प्रहस्येदमुवाच सः

tacchrutvā vacanaṃ teṣāṃ laukikācāratatparaḥ |
prahṛṣṭātmā maheśānaḥ prahasyedamuvāca saḥ

महेश उवाच

36.29

विवाहो हि महाभागा न दृष्टो न श्रुतो मया ।
यथा पुरा भवद्भिस्तद्विधिः प्रोच्यो विशेषतः

vivāho hi mahābhāgā na dṛṣṭo na śruto mayā |
yathā purā bhavadbhistadvidhiḥ procyo viśeṣataḥ

ब्रह्मोवाच

36.30

तदाकर्ण्य महेशस्य लौकिकं वचनं शुभम् ।
प्रत्यूचुः प्रहसन्तस्ते देवदेवं सदाशिवम्

tadākarṇya maheśasya laukikaṃ vacanaṃ śubham |
pratyūcuḥ prahasantaste devadevaṃ sadāśivam

ऋषय ऊचुः

36.31

विष्णुमाहूय वै शीघ्रं ससमाजं विशेषतः ।
ब्रह्माणं ससुतं प्रीत्या तथा देवं शतक्रतुम्

viṣṇumāhūya vai śīghraṃ sasamājaṃ viśeṣataḥ |
brahmāṇaṃ sasutaṃ prītyā tathā devaṃ śatakratum

36.32

तथा ऋषिगणान्सर्वान् यक्षगन्धर्वकिन्नरान् ।
सिद्धान् विद्याधरांश्चैव तथा चैवाप्सरोगणान्

tathā ṛṣigaṇānsarvān yakṣagandharvakinnarān |
siddhān vidyādharāṃścaiva tathā caivāpsarogaṇān

36.33

एतांश्चान्यान्प्रभो सर्वानानय स्वेह सादरम् ।
सर्वं संसाधयिष्यन्ति त्वत्कार्य्यं ते न संशयः

etāṃścānyānprabho sarvānānaya sveha sādaram |
sarvaṃ saṃsādhayiṣyanti tvatkāryyaṃ te na saṃśayaḥ

ब्रह्मोवाच

36.34

इत्युक्त्वा सप्त ऋषयस्तदाज्ञां प्राप्य ते मुदा ।
स्वधाम प्रययुस्सर्वे शंसन्तः शङ्करीं गतिम्

ityuktvā sapta ṛṣayastadājñāṃ prāpya te mudā |
svadhāma prayayussarve śaṃsantaḥ śaṅkarīṃ gatim

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)