कोटिरुद्र संहिता

अध्याय 38: शिव द्वारा विष्णु को शिवरात्रि व्रत का उपदेश

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां व्याधेश्वरमाहात्म्ये शिवरात्रिव्रतमहिमनिरूपणंनामाष्टत्रिंशोऽध्यायः ॥

88 श्लोक · 38 में से 43

इस अध्याय में क्या होता है

शिव द्वारा विष्णु को शिवरात्रि व्रत का उपदेश

ऋषि पूछते हैं कि कौन-सा व्रत शिव को सबसे प्रिय है। सूत बताते हैं कि शिव ने एक बार विष्णु को यह बताया था। उनके अनेक व्रतों में दस मुख्य हैं, जैसे एकादशियों और सोमवारों के उपवास और रात्रि पूजा। मुक्ति के चार मार्गों, शिवार्चन, रुद्रजप, शिवालय में उपवास और वाराणसी में मरण, में शिवरात्रि व्रत सबसे बलवान है, जो सब वर्णों, आश्रमों, स्त्रियों और बालकों के लिए है। यह माघ कृष्ण चतुर्दशी को होता है, जो अर्धरात्रि तक रहे। शिव दिन का विधान बताते हैं: प्रातः उठना, संकल्प और स्नान, रात्रि के चारों प्रहरों में अलग सामग्री से पूजा, पंचाक्षर जप, रात भर जागरण, फिर ब्राह्मण भोजन और प्रार्थना कि कुल में महादेव की भक्ति कभी न छूटे। बाद में विष्णु ने यह नारद को बताया।

ऋषय ऊचुः

38.1

धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव ।
यच्छ्रावयसि नस्तात महेश्वरकथां शुभाम्

dhanyo'si kṛtakṛtyo'si jīvitaṃ saphalaṃ tava |
yacchrāvayasi nastāta maheśvarakathāṃ śubhām

38.2

बहुभिश्चर्षिभि स्सूत श्रुतं यद्यपि वस्तु सत् ।
सन्देहो न मतोऽस्माकं तदेतत्कथयामि ते

bahubhiścarṣibhi ssūta śrutaṃ yadyapi vastu sat |
sandeho na mato'smākaṃ tadetatkathayāmi te

38.3

केन व्रतेन सन्तुष्टः शिवो यच्छति सत्सुखम् ।
कुशलश्शिवकृत्ये त्वं तस्मात्पृच्छामहे वयम्

kena vratena santuṣṭaḥ śivo yacchati satsukham |
kuśalaśśivakṛtye tvaṃ tasmātpṛcchāmahe vayam

38.4

भुक्तिर्मुक्तिश्च लभ्येत भक्तैर्येन व्रतेन वै ।
तद्वद त्वं विशेषेण व्यासशिष्य नमोऽस्तु ते

bhuktirmuktiśca labhyeta bhaktairyena vratena vai |
tadvada tvaṃ viśeṣeṇa vyāsaśiṣya namo'stu te

सूत उवाच

38.5

सम्यक्पृष्टमृषिश्रेष्ठा भवद्भिः करुणात्मभिः ।
स्मृत्वा शिवपदांभोजं कथयामि यथाश्रुतम्

samyakpṛṣṭamṛṣiśreṣṭhā bhavadbhiḥ karuṇātmabhiḥ |
smṛtvā śivapadāṃbhojaṃ kathayāmi yathāśrutam

38.6

यथा भवद्भिः पृच्छेत तथा पृष्टं हि वेधसा ।
हरिणा शिवया चैव तथा वै शंकरं प्रति

yathā bhavadbhiḥ pṛccheta tathā pṛṣṭaṃ hi vedhasā |
hariṇā śivayā caiva tathā vai śaṃkaraṃ prati

38.7

कस्मिंश्चित्समये तैस्तु पृष्टं च परमात्मने ।
केन व्रतेन सन्तुष्टो भुक्तिं मुक्तिं च यच्छसि

kasmiṃścitsamaye taistu pṛṣṭaṃ ca paramātmane |
kena vratena santuṣṭo bhuktiṃ muktiṃ ca yacchasi

38.8

इति पृष्टस्तदा तैस्तु हरिणा तेन वै तदा ।
तदहं कथयाम्यद्य शृण्वतां पापहारकम्

iti pṛṣṭastadā taistu hariṇā tena vai tadā |
tadahaṃ kathayāmyadya śṛṇvatāṃ pāpahārakam

शिव उवाच

38.9

भूरि व्रतानि मे सन्ति भुक्तिमुक्तिप्रदानि च ।
मुख्यानि तत्र ज्ञेयानि दशसंख्यानि तानि वै

bhūri vratāni me santi bhuktimuktipradāni ca |
mukhyāni tatra jñeyāni daśasaṃkhyāni tāni vai

38.10

दश शैवव्रतान्याहुर्जाबालश्रुतिपारगाः ।
तानि व्रतानि यत्नेन कार्याण्येव द्विजैस्सदा

daśa śaivavratānyāhurjābālaśrutipāragāḥ |
tāni vratāni yatnena kāryāṇyeva dvijaissadā

38.11

प्रत्यष्टम्यां प्रयत्नेन कर्तव्यं नक्तभोजनम् ।
कालाष्टम्यां विशेषेण हरे त्याज्यं हि भोजनम्

pratyaṣṭamyāṃ prayatnena kartavyaṃ naktabhojanam |
kālāṣṭamyāṃ viśeṣeṇa hare tyājyaṃ hi bhojanam

38.12

एकादश्यां सितायां तु त्याज्यं विष्णो हि भोजनम् ।
असितायां तु भोक्तव्यं नक्तमभ्यर्च्य मां हरे

ekādaśyāṃ sitāyāṃ tu tyājyaṃ viṣṇo hi bhojanam |
asitāyāṃ tu bhoktavyaṃ naktamabhyarcya māṃ hare

38.13

त्रयोदश्यां सितायां तु कर्तव्यं निशि भोजनम् ।
असितायां तु भूतायां तत्र कार्यं शिवव्रतैः

trayodaśyāṃ sitāyāṃ tu kartavyaṃ niśi bhojanam |
asitāyāṃ tu bhūtāyāṃ tatra kāryaṃ śivavrataiḥ

38.14

निशि यत्नेन कर्तव्यं भोजनं सोमवासरे ।
उभयोः पक्षयोर्विष्णो सर्वस्मिञ्छिव तत्परैः

niśi yatnena kartavyaṃ bhojanaṃ somavāsare |
ubhayoḥ pakṣayorviṣṇo sarvasmiñchiva tatparaiḥ

38.15

व्रतेष्वेतेषु सर्वेषु शैवा भोज्याः प्रयत्नतः ।
यथाशक्ति द्विजश्रेष्ठा व्रतसंपूर्तिहेतवे

vrateṣveteṣu sarveṣu śaivā bhojyāḥ prayatnataḥ |
yathāśakti dvijaśreṣṭhā vratasaṃpūrtihetave

38.16

व्रतान्येतानि नियमात्कर्तव्यानि द्विजन्मभिः ।
व्रतान्येतानि तु त्यक्त्वा जायन्ते तस्करा द्विजाः

vratānyetāni niyamātkartavyāni dvijanmabhiḥ |
vratānyetāni tu tyaktvā jāyante taskarā dvijāḥ

38.17

मुक्तिमार्गप्रवीणैश्च कर्तव्यं नियमादिति ।
मुक्तेस्तु प्रापकं चैव चतुष्टयमुदाहृतम्

muktimārgapravīṇaiśca kartavyaṃ niyamāditi |
muktestu prāpakaṃ caiva catuṣṭayamudāhṛtam

38.18

शिवार्चनं रुद्रजपं उपवासश्शिवालये ।
वाराणस्यां च मरणं मुक्तिरेषा सनातनी

śivārcanaṃ rudrajapaṃ upavāsaśśivālaye |
vārāṇasyāṃ ca maraṇaṃ muktireṣā sanātanī

38.19

अष्टमी सोमवारे च कृष्णपक्षे चतुर्दशी ।
शिवतुष्टिकरं चैतन्नात्र कार्या विचारणा

aṣṭamī somavāre ca kṛṣṇapakṣe caturdaśī |
śivatuṣṭikaraṃ caitannātra kāryā vicāraṇā

38.20

चतुर्ष्वपि बलिष्ठं हि शिवरात्रिव्रतं हरे ।
तस्मात्तदेव कर्तव्यं भुक्तिमुक्तिफलेप्सुभिः

caturṣvapi baliṣṭhaṃ hi śivarātrivrataṃ hare |
tasmāttadeva kartavyaṃ bhuktimuktiphalepsubhiḥ

38.21

एतस्माच्च मतादन्यन्नास्ति नृणां हितावहम् ।
एतद्व्रतन्तु सर्वेषां धर्मसाधनमुत्तमम्

etasmācca matādanyannāsti nṛṇāṃ hitāvaham |
etadvratantu sarveṣāṃ dharmasādhanamuttamam

38.22

निष्कामानां सकामानां सर्वेषां च नृणान्तथा ।
वर्णानामाश्रमाणां च स्त्रीबालानां तथा हरे

niṣkāmānāṃ sakāmānāṃ sarveṣāṃ ca nṛṇāntathā |
varṇānāmāśramāṇāṃ ca strībālānāṃ tathā hare

38.23

दासानां दासिकानां च देवादीनां तथैव च ।
शरीरिणां च सर्वेषां हितमेतद्व्रतं वरम्

dāsānāṃ dāsikānāṃ ca devādīnāṃ tathaiva ca |
śarīriṇāṃ ca sarveṣāṃ hitametadvrataṃ varam

38.24

माघस्य ह्यसिते पक्षे विशिष्टा सातिकीर्तिता ।
निशीथव्यापिनी ग्राह्या हत्याकोटिविनाशिनी

māghasya hyasite pakṣe viśiṣṭā sātikīrtitā |
niśīthavyāpinī grāhyā hatyākoṭivināśinī

38.25

तद्दिने चैव यत्कार्यं प्रातरारभ्य केशव ।
श्रूयतान्तन्मनो दत्त्वा सुप्रीत्या कथयामि ते

taddine caiva yatkāryaṃ prātarārabhya keśava |
śrūyatāntanmano dattvā suprītyā kathayāmi te

38.26

प्रातरुत्थाय मेधावी परमानन्दसंयुतः ।
समाचरेन्नित्यकृत्यं स्नानादिकमतन्द्रितः

prātarutthāya medhāvī paramānandasaṃyutaḥ |
samācarennityakṛtyaṃ snānādikamatandritaḥ

38.27

शिवालये ततो गत्वा पूजयित्वा यथाविधि ।
नमस्कृत्य शिवं पश्चात्संकल्पं सम्यगाचरेत्

śivālaye tato gatvā pūjayitvā yathāvidhi |
namaskṛtya śivaṃ paścātsaṃkalpaṃ samyagācaret

38.28

देवदेव महादेव नीलकण्ठ नमोऽस्तु ते ।
कर्तुमिच्छाम्यहं देव शिवरात्रिव्रतं तव

devadeva mahādeva nīlakaṇṭha namo'stu te |
kartumicchāmyahaṃ deva śivarātrivrataṃ tava

38.29

तव प्रभावाद्देवेश निर्विघ्नेन भवेदिति ।
कामाद्याः शत्रवो मां वै पीडां कुर्वन्तु नैव हि

tava prabhāvāddeveśa nirvighnena bhavediti |
kāmādyāḥ śatravo māṃ vai pīḍāṃ kurvantu naiva hi

38.30

एवं संकल्पमास्थाय पूजाद्रव्यं समाहरेत् ।
सुस्थले चैव यल्लिंगं प्रसिद्धं चागमेषु वै

evaṃ saṃkalpamāsthāya pūjādravyaṃ samāharet |
susthale caiva yalliṃgaṃ prasiddhaṃ cāgameṣu vai

38.31

रात्रौ तत्र स्वयं गत्वा संपाद्य विधिमुत्तमम् ।
शिवस्य दक्षिणे भागे पश्चिमे वा स्थले शुभे

rātrau tatra svayaṃ gatvā saṃpādya vidhimuttamam |
śivasya dakṣiṇe bhāge paścime vā sthale śubhe

38.32

निधाय चैव तद्द्रव्यं पूजार्थं शिवसन्निधौ ।
पुनः स्नायात्तदा तत्र विधिपूर्वं नरोत्तमः

nidhāya caiva taddravyaṃ pūjārthaṃ śivasannidhau |
punaḥ snāyāttadā tatra vidhipūrvaṃ narottamaḥ

38.33

परिधाय शुभं वस्त्रमन्तर्वासश्शुभन्तथा ।
आचम्य च त्रिवारं हि पूजारंभं समाचरेत्

paridhāya śubhaṃ vastramantarvāsaśśubhantathā |
ācamya ca trivāraṃ hi pūjāraṃbhaṃ samācaret

38.34

यस्य मंत्रस्य यद्द्रव्यं तेन पूजां समाचरेत् ।
अमंत्रकं न कर्तव्यं पूजनं तु हरस्य च

yasya maṃtrasya yaddravyaṃ tena pūjāṃ samācaret |
amaṃtrakaṃ na kartavyaṃ pūjanaṃ tu harasya ca

38.35

गीतैर्वाद्यैस्तथा नृत्यैर्भक्तिभावसमन्वितः ।
पूजनं प्रथमे यामे कृत्वा मंत्रं जपेद्बुधः

gītairvādyaistathā nṛtyairbhaktibhāvasamanvitaḥ |
pūjanaṃ prathame yāme kṛtvā maṃtraṃ japedbudhaḥ

38.36

पार्थिवं च तदा श्रेष्ठं विदध्यान्मंत्रवान्यदि ।
कृतनित्यक्रियः पश्चात्पार्थिवं च समर्चयेत्

pārthivaṃ ca tadā śreṣṭhaṃ vidadhyānmaṃtravānyadi |
kṛtanityakriyaḥ paścātpārthivaṃ ca samarcayet

38.37

प्रथमं पार्थिवं कृत्वा पश्चात्स्थापनमाचरेत् ।
स्तोत्रैर्नानाविधैर्देवं तोषयेद्वृषभध्वजम्

prathamaṃ pārthivaṃ kṛtvā paścātsthāpanamācaret |
stotrairnānāvidhairdevaṃ toṣayedvṛṣabhadhvajam

38.38

माहात्म्यं व्रतसंभूतं पठितव्यं सुधीमता ।
श्रोतव्यं भक्तवर्येण व्रतसम्पूर्तिकाम्यया

māhātmyaṃ vratasaṃbhūtaṃ paṭhitavyaṃ sudhīmatā |
śrotavyaṃ bhaktavaryeṇa vratasampūrtikāmyayā

38.39

चतुर्ष्वपि च यामेषु मूर्तीनां च चतुष्टयम् ।
कृत्वावाहनपूर्वं हि विसर्गावधि वै क्रमात्

caturṣvapi ca yāmeṣu mūrtīnāṃ ca catuṣṭayam |
kṛtvāvāhanapūrvaṃ hi visargāvadhi vai kramāt

38.40

कार्यं जागरणं प्रीत्या महोत्सव समन्वितम् ।
प्रातः स्नात्वा पुनस्तत्र स्थापयेत्पूजयेच्छिवम्

kāryaṃ jāgaraṇaṃ prītyā mahotsava samanvitam |
prātaḥ snātvā punastatra sthāpayetpūjayecchivam

38.41

ततः संप्रार्थयेच्छंभुं नतस्कन्धः कृताञ्जलिः ।
कृतसम्पूर्ण व्रतको नत्वा तं च पुनः पुनः

tataḥ saṃprārthayecchaṃbhuṃ nataskandhaḥ kṛtāñjaliḥ |
kṛtasampūrṇa vratako natvā taṃ ca punaḥ punaḥ

38.42

नियमो यो महादेव कृतश्चैव त्वदाज्ञया ।
विसृज्यते मया स्वामिन्व्रतं जातमनुत्तमम्

niyamo yo mahādeva kṛtaścaiva tvadājñayā |
visṛjyate mayā svāminvrataṃ jātamanuttamam

38.43

व्रतेनानेन देवेश यथाशक्तिकृतेन च ।
सन्तुष्टो भव शर्वाद्य कृपां कुरु ममोपरि

vratenānena deveśa yathāśaktikṛtena ca |
santuṣṭo bhava śarvādya kṛpāṃ kuru mamopari

38.44

पुष्पाञ्जलिं शिवे दत्त्वा दद्याद्दानं यथाविधि ।
नमस्कृत्य शिवायैव नियमं तं विसर्जयेत्

puṣpāñjaliṃ śive dattvā dadyāddānaṃ yathāvidhi |
namaskṛtya śivāyaiva niyamaṃ taṃ visarjayet

38.45

यथाशक्ति द्विजाञ्छैवान्यतिनश्च विशेषतः ।
भोजयित्वा सुसन्तोष्य स्वयं भोजनमाचरेत्

yathāśakti dvijāñchaivānyatinaśca viśeṣataḥ |
bhojayitvā susantoṣya svayaṃ bhojanamācaret

38.46

यामेयामे यथा पूजा कार्या भक्तवरैर्हरे ।
शिवरात्रौ विशेषेण तामहं कथयामि ते

yāmeyāme yathā pūjā kāryā bhaktavarairhare |
śivarātrau viśeṣeṇa tāmahaṃ kathayāmi te

38.47

प्रथमे चैव यामे च स्थापितं पार्थिवं हरे ।
पूजयेत्परया भक्त्या सूपचारैरनेकशः

prathame caiva yāme ca sthāpitaṃ pārthivaṃ hare |
pūjayetparayā bhaktyā sūpacārairanekaśaḥ

38.48

पंचद्रव्यैश्च प्रथमं पूजनीयो हरस्सदा ।
तस्य तस्य च मन्त्रेण पृथग्द्रव्यं समर्पयेत्

paṃcadravyaiśca prathamaṃ pūjanīyo harassadā |
tasya tasya ca mantreṇa pṛthagdravyaṃ samarpayet

38.49

तच्च द्रव्यं समर्प्यैव जलधारां ददेत वै ।
पश्चाच्च जलधाराभिर्द्रव्याणुत्तारयेद्बुधः

tacca dravyaṃ samarpyaiva jaladhārāṃ dadeta vai |
paścācca jaladhārābhirdravyāṇuttārayedbudhaḥ

38.50

शतमष्टोत्तरं मन्त्रं पठित्वा जलधारया ।
पूजयेच्च शिवं तत्र निर्गुणं गुणरूपिणम्

śatamaṣṭottaraṃ mantraṃ paṭhitvā jaladhārayā |
pūjayecca śivaṃ tatra nirguṇaṃ guṇarūpiṇam

38.51

गुरुदत्तेन मंत्रेण पूजयेद्वृषभध्जम् ।
अन्यथा नाममंत्रेण पूजयेद्वै सदाशिवम्

gurudattena maṃtreṇa pūjayedvṛṣabhadhjam |
anyathā nāmamaṃtreṇa pūjayedvai sadāśivam

38.52

चन्दनेन विचित्रेण तण्डुलैश्चाप्यखण्डितैः ।
कृष्णैश्चैव तिलैः पूजा कार्या शंभोः परात्मनः

candanena vicitreṇa taṇḍulaiścāpyakhaṇḍitaiḥ |
kṛṣṇaiścaiva tilaiḥ pūjā kāryā śaṃbhoḥ parātmanaḥ

38.53

पुष्पैश्च शतपत्रैश्च करवीरैस्तथा पुनः ।
अष्टभिर्नाममंत्रैश्चार्पयेत्पुष्पाणि शंकरे

puṣpaiśca śatapatraiśca karavīraistathā punaḥ |
aṣṭabhirnāmamaṃtraiścārpayetpuṣpāṇi śaṃkare

38.54

भवः शर्वस्तथा रुद्रः पुनः पशुपतिस्तथा ।
उग्रो महांस्तथा भीम ईशान इति तानि वै

bhavaḥ śarvastathā rudraḥ punaḥ paśupatistathā |
ugro mahāṃstathā bhīma īśāna iti tāni vai

38.55

श्रीपूर्वैश्च चतुर्थ्यंतैर्नामभिः पूजयेच्छिवम् ।
पश्चाद्धूपं च दीपं च नैवेद्यं च ततः परम्

śrīpūrvaiśca caturthyaṃtairnāmabhiḥ pūjayecchivam |
paścāddhūpaṃ ca dīpaṃ ca naivedyaṃ ca tataḥ param

38.56

आद्ये यामे च नैवेद्यं पक्वान्नं कारयेद्बुधः ।
अर्घं च श्रीफलं दत्त्वा ताम्बूलं च निवेदयेत्

ādye yāme ca naivedyaṃ pakvānnaṃ kārayedbudhaḥ |
arghaṃ ca śrīphalaṃ dattvā tāmbūlaṃ ca nivedayet

38.57

नमस्कारं ततो ध्यानं जपः प्रोक्तो गुरोर्मनोः ।
अन्यथा पंचवर्णेन तोषयेत्तेन शंकरम्

namaskāraṃ tato dhyānaṃ japaḥ prokto gurormanoḥ |
anyathā paṃcavarṇena toṣayettena śaṃkaram

38.58

धेनुमुद्रां प्रदर्श्याथ सुजलैस्तर्पणं चरेत् ।
पंचब्राह्मणभोजं च कल्पयेद्वै यथाबलम्

dhenumudrāṃ pradarśyātha sujalaistarpaṇaṃ caret |
paṃcabrāhmaṇabhojaṃ ca kalpayedvai yathābalam

38.59

महोत्सवश्च कर्तव्यो यावद्यामो भवेदिह ।
ततः पूजाफलं तस्मै निवेद्य च विसर्जयेत्

mahotsavaśca kartavyo yāvadyāmo bhavediha |
tataḥ pūjāphalaṃ tasmai nivedya ca visarjayet

38.60

पुनर्द्वितीये यामे च संकल्पं सुसमा चरेत् ।
अथवैकदैव संकल्प्य कुर्यात्पूजां तथाविधाम्

punardvitīye yāme ca saṃkalpaṃ susamā caret |
athavaikadaiva saṃkalpya kuryātpūjāṃ tathāvidhām

38.61

द्रव्यैः पूर्वैस्तथा पूजां कृत्वा धारां समर्पयेत् ।
पूर्वतो द्विगुणं मंत्रं समुच्चार्यार्चयेच्छिवम्

dravyaiḥ pūrvaistathā pūjāṃ kṛtvā dhārāṃ samarpayet |
pūrvato dviguṇaṃ maṃtraṃ samuccāryārcayecchivam

38.62

पूर्वैस्तिलयवैश्चाथ कमलैः पूजयेच्छिवम् ।
बिल्वपत्रैर्विशेषेण पूजयेत्परमेश्वरम्

pūrvaistilayavaiścātha kamalaiḥ pūjayecchivam |
bilvapatrairviśeṣeṇa pūjayetparameśvaram

38.63

अर्घ्यं च बीजपूरेण नैवेद्यं पायसन्तथा ।
मंत्रावृत्तिस्तु द्विगुणा पूर्वतोऽपि जनार्दन

arghyaṃ ca bījapūreṇa naivedyaṃ pāyasantathā |
maṃtrāvṛttistu dviguṇā pūrvato'pi janārdana

38.64

ततश्च ब्राह्मणानां हि भोज्यो संकल्पमाचरेत् ।
अन्यत्सर्वं तथा कुर्याद्यावच्च द्वितयावधि

tataśca brāhmaṇānāṃ hi bhojyo saṃkalpamācaret |
anyatsarvaṃ tathā kuryādyāvacca dvitayāvadhi

38.65

यामे प्राप्ते तृतीये च पूर्ववत्पूजनं चरेत् ।
यवस्थाने च गोधूमाः पुष्पाण्यर्कभवानि च

yāme prāpte tṛtīye ca pūrvavatpūjanaṃ caret |
yavasthāne ca godhūmāḥ puṣpāṇyarkabhavāni ca

38.66

धूपैश्च विविधैस्तत्र दीपैर्नानाविधैरपि ।
नैवेद्यापूपकैर्विष्णो शाकैर्नानाविधैरपि

dhūpaiśca vividhaistatra dīpairnānāvidhairapi |
naivedyāpūpakairviṣṇo śākairnānāvidhairapi

38.67

कृत्वैव चाथ कर्पूरैरारार्तिक विधिं चरेत ।
अर्घ्यं सदाडिमं दद्याद्द्विगुणं जपमाचरेत्

kṛtvaiva cātha karpūrairārārtika vidhiṃ careta |
arghyaṃ sadāḍimaṃ dadyāddviguṇaṃ japamācaret

38.68

ततश्च ब्रह्मभोजस्य संकल्पं च सदक्षिणम् ।
उत्सवं पूर्ववत्कुर्या द्यावद्यामावधिर्भवेत्

tataśca brahmabhojasya saṃkalpaṃ ca sadakṣiṇam |
utsavaṃ pūrvavatkuryā dyāvadyāmāvadhirbhavet

38.69

यामे चतुर्थे संप्राते कुर्यात्तस्य विसर्जनम् ।
प्रयोगादि पुनः कृत्वा पूजां विधिवदाचरेत्

yāme caturthe saṃprāte kuryāttasya visarjanam |
prayogādi punaḥ kṛtvā pūjāṃ vidhivadācaret

38.70

माषैः प्रियंगुभिर्मुद्गैस्सप्तधान्यैस्तथाथवा ।
शंखीपुष्पैर्बिल्वपत्रैः पूजयेत्परमेश्वरम्

māṣaiḥ priyaṃgubhirmudgaissaptadhānyaistathāthavā |
śaṃkhīpuṣpairbilvapatraiḥ pūjayetparameśvaram

38.71

नैवेद्यं तत्र दद्याद्वै मधुरैर्विविधैरपि ।
अथवा चैव माषान्नैस्तोषयेच्च सदाशिवम्

naivedyaṃ tatra dadyādvai madhurairvividhairapi |
athavā caiva māṣānnaistoṣayecca sadāśivam

38.72

अर्घं दद्यात्कदल्याश्च फलेनैवाथवा हरे ।
विविधैश्च फलैश्चैव दद्यादर्घ्यं शिवाय च

arghaṃ dadyātkadalyāśca phalenaivāthavā hare |
vividhaiśca phalaiścaiva dadyādarghyaṃ śivāya ca

38.73

पूर्वतो द्विगुणं कुर्यान्मंत्रजापं नरोत्तमः ।
संकल्पं ब्रह्मभोजस्य यथाशक्ति चरेद्बुधः

pūrvato dviguṇaṃ kuryānmaṃtrajāpaṃ narottamaḥ |
saṃkalpaṃ brahmabhojasya yathāśakti caredbudhaḥ

38.74

गीतैर्वाद्यैस्तथा नृत्यैर्नयेत्कालं च भक्तितः ।
महोत्सवैर्भक्तजनैर्यावत्स्यादरुणोदयः

gītairvādyaistathā nṛtyairnayetkālaṃ ca bhaktitaḥ |
mahotsavairbhaktajanairyāvatsyādaruṇodayaḥ

38.75

उदये च तथा जाते पुनस्स्नात्वार्चयेच्छिवम् ।
नानापूजोपहारैश्च स्वाभिषेकमथाचरेत्

udaye ca tathā jāte punassnātvārcayecchivam |
nānāpūjopahāraiśca svābhiṣekamathācaret

38.76

नानाविधानि दानानि भोज्यं च विविधन्तथा ।
ब्राह्मणानां यतीनां च कर्तव्यं यामसंख्यया

nānāvidhāni dānāni bhojyaṃ ca vividhantathā |
brāhmaṇānāṃ yatīnāṃ ca kartavyaṃ yāmasaṃkhyayā

38.77

शंकराय नमस्कृत्य पुष्पाञ्जलिमथाचरेत् ।
प्रार्थयेत्सुस्तुतिं कृत्वा मन्त्रैरेतैर्विचक्षणः

śaṃkarāya namaskṛtya puṣpāñjalimathācaret |
prārthayetsustutiṃ kṛtvā mantrairetairvicakṣaṇaḥ

38.78

तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ।
कृपानिधे इति ज्ञात्वा यथा योग्यं तथा कुरु

tāvakastvadgataprāṇastvaccitto'haṃ sadā mṛḍa |
kṛpānidhe iti jñātvā yathā yogyaṃ tathā kuru

38.79

अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।
कृपानिधित्वाज्ज्ञात्वैव भूतनाथ प्रसीद मे

ajñānādyadi vā jñānājjapapūjādikaṃ mayā |
kṛpānidhitvājjñātvaiva bhūtanātha prasīda me

38.80

अनेनैवोपवासेन यज्जातं फलमेव च ।
तेनैव प्रीयतां देवः शंकरः सुखदायकः

anenaivopavāsena yajjātaṃ phalameva ca |
tenaiva prīyatāṃ devaḥ śaṃkaraḥ sukhadāyakaḥ

38.81

कुले मम महादेव भजनं तेऽस्तु सर्वदा ।
माभूत्तस्य कुले जन्म यत्र त्वं नहि देवता

kule mama mahādeva bhajanaṃ te'stu sarvadā |
mābhūttasya kule janma yatra tvaṃ nahi devatā

38.82

पुष्पांजलिं समर्प्यैवं तिलकाशिष एव च ।
गृह्णीयाद्ब्राह्मणेभ्यश्च ततश्शंभुं विसर्जयेत्

puṣpāṃjaliṃ samarpyaivaṃ tilakāśiṣa eva ca |
gṛhṇīyādbrāhmaṇebhyaśca tataśśaṃbhuṃ visarjayet

38.83

एवं व्रतं कृतं येन तस्माद्दूरो हरो न हि ।
न शक्यते फलं वक्तुं नादेयं विद्यते मम

evaṃ vrataṃ kṛtaṃ yena tasmāddūro haro na hi |
na śakyate phalaṃ vaktuṃ nādeyaṃ vidyate mama

38.84

अनायासतया चेद्वै कृतं व्रतमिदम्परम् ।
तस्य वै मुक्तिबीजं च जातं नात्र विचारणा

anāyāsatayā cedvai kṛtaṃ vratamidamparam |
tasya vai muktibījaṃ ca jātaṃ nātra vicāraṇā

38.85

प्रतिमासं व्रतं चैव कर्तव्यं भक्तितो नरैः ।
उद्यापनविधिं पश्चात्कृत्वा सांगफलं लभेत्

pratimāsaṃ vrataṃ caiva kartavyaṃ bhaktito naraiḥ |
udyāpanavidhiṃ paścātkṛtvā sāṃgaphalaṃ labhet

38.86

व्रतस्य करणान्नूनं शिवोऽहं सर्वदुःखहा ।
दद्मि भुक्तिं च मुक्तिं च सर्वं वै वाञ्छितं फलम्

vratasya karaṇānnūnaṃ śivo'haṃ sarvaduḥkhahā |
dadmi bhuktiṃ ca muktiṃ ca sarvaṃ vai vāñchitaṃ phalam

सूत उवाच

38.87

इति शिववचनं निशम्य विष्णुर्हिततरमद्भुतमाजगाम धाम ।
तदनु व्रतमुत्तमं जनेषु समचरदात्महितेषु चैतदेव

iti śivavacanaṃ niśamya viṣṇurhitataramadbhutamājagāma dhāma |
tadanu vratamuttamaṃ janeṣu samacaradātmahiteṣu caitadeva

38.88

कदाचिन्नारदायाथ शिवरात्रिव्रतन्त्विदम् ।
भुक्तिमुक्तिप्रदं दिव्यं कथयामास केशवः

kadācinnāradāyātha śivarātrivratantvidam |
bhuktimuktipradaṃ divyaṃ kathayāmāsa keśavaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)