कोटिरुद्र संहिता

अध्याय 31: श्रीराम द्वारा रामेश्वर ज्योतिर्लिंग की स्थापना

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंतायां रामेश्वरमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥

45 श्लोक · 31 में से 43

इस अध्याय में क्या होता है

श्रीराम द्वारा रामेश्वर ज्योतिर्लिंग की स्थापना

भगवान विष्णु ने पृथ्वी पर श्रीराम के रूप में अवतार लिया। रावण सीता को हरकर लंका ले गया। उन्हें खोजते हुए राम किष्किन्धा आए, सुग्रीव के लिए वालि को मारा, और हनुमान आदि वानरों को चारों दिशाओं में भेजा। अठारह पद्म वानरों के साथ वे दक्षिणी समुद्र के तट पर पहुँचे। प्यास लगने पर उन्होंने जल माँगा, फिर स्मरण किया कि अभी शिवपूजा नहीं की। उन्होंने पार्थिव लिंग बनाकर सब उपचारों से पूजा की और समुद्र पार रावण पर विजय माँगी। महेश्वर परिवार और गणों सहित निर्मल ज्योतिरूप में प्रकट हुए और विजय का वर दिया। राम की प्रार्थना पर शिव वहीं रामेश्वर होकर रहे। राम ने समुद्र पार कर रावण को मारा और सीता को पाया। गंगाजल से रामेश्वर का अभिषेक जीवन्मुक्ति देता है।

सूत उवाच

31.1

अतः परं प्रवक्ष्यामि लिंगं रामेश्वराभिधम् ।
उत्पन्नं च यथा पूर्वमृषयश्शृणुतादरात्

ataḥ paraṃ pravakṣyāmi liṃgaṃ rāmeśvarābhidham |
utpannaṃ ca yathā pūrvamṛṣayaśśṛṇutādarāt

31.2

पुरा विष्णुः पृथिव्यां चावततार सतां प्रियः

purā viṣṇuḥ pṛthivyāṃ cāvatatāra satāṃ priyaḥ

31.3

तत्र सीता हृता विप्रा रावणेनोरुमायिना ।
प्रापिता स्वगृहं सा हि लंकायां जनकात्मजा

tatra sītā hṛtā viprā rāvaṇenorumāyinā |
prāpitā svagṛhaṃ sā hi laṃkāyāṃ janakātmajā

31.4

अन्वेषणपरस्तस्याः किष्किन्धाख्यां पुरीमगात् ।
सुग्रीवहितकृद्भूत्वा वालिनं संजघान ह

anveṣaṇaparastasyāḥ kiṣkindhākhyāṃ purīmagāt |
sugrīvahitakṛdbhūtvā vālinaṃ saṃjaghāna ha

31.5

तत्र स्थित्वा कियत्कालं तदन्वेषणतत्परः ।
सुग्रीवाद्यैर्लक्ष्मणेन विचारं कृतवान्स वै

tatra sthitvā kiyatkālaṃ tadanveṣaṇatatparaḥ |
sugrīvādyairlakṣmaṇena vicāraṃ kṛtavānsa vai

31.6

कपीन्संप्रेषयामास चतुर्दिक्षु नृपात्मजः ।
हनुमत्प्रमुखान्रामस्तदन्वेषणहेतवे

kapīnsaṃpreṣayāmāsa caturdikṣu nṛpātmajaḥ |
hanumatpramukhānrāmastadanveṣaṇahetave

31.7

अथ ज्ञात्वा गतां लंकां सीतां कपिवराननात् ।
सीताचूडामणिं प्राप्य मुमुदे सोऽति राघवः

atha jñātvā gatāṃ laṃkāṃ sītāṃ kapivarānanāt |
sītācūḍāmaṇiṃ prāpya mumude so'ti rāghavaḥ

31.8

सकपीशस्तदा रामो लक्ष्मणेन युतो द्विजाः ।
सुग्रीवप्रमुखैः पुण्यैर्वानरैर्बलवत्तरैः

sakapīśastadā rāmo lakṣmaṇena yuto dvijāḥ |
sugrīvapramukhaiḥ puṇyairvānarairbalavattaraiḥ

31.9

पद्मैरष्टादशाख्यैश्च ययौ तीरं पयोनिधेः ।
दक्षिणे सागरे यो वै दृश्यते लवणाकरः

padmairaṣṭādaśākhyaiśca yayau tīraṃ payonidheḥ |
dakṣiṇe sāgare yo vai dṛśyate lavaṇākaraḥ

31.10

तत्रागत्य स्वयं रामो वेलायां संस्थितो हि सः ।
वानरैस्सेव्यमानस्तु लक्ष्मणेन शिवप्रियः

tatrāgatya svayaṃ rāmo velāyāṃ saṃsthito hi saḥ |
vānaraissevyamānastu lakṣmaṇena śivapriyaḥ

31.11

हा जानकि कुतो याता कदा चेयं मिलिष्यति ।
अगाधस्सागरश्चैवातार्या सेना च वानरी

hā jānaki kuto yātā kadā ceyaṃ miliṣyati |
agādhassāgaraścaivātāryā senā ca vānarī

31.12

राक्षसो गिरिधर्त्ता च महाबलपराक्रमः ।
लंकाख्यो दुर्गमो दुर्ग इंद्रजित्तनयोस्य वै

rākṣaso giridharttā ca mahābalaparākramaḥ |
laṃkākhyo durgamo durga iṃdrajittanayosya vai

31.13

इत्येवं स विचार्यैव तटे स्थित्वा सलक्ष्मणः ।
आश्वासितो वनौकोभिरंगदादिपुरस्सरैः

ityevaṃ sa vicāryaiva taṭe sthitvā salakṣmaṇaḥ |
āśvāsito vanaukobhiraṃgadādipurassaraiḥ

31.14

एतस्मिन्नंतरे तत्र राघवश्शैवसत्तमः ।
उवाच भ्रातरं प्रीत्या जलार्थी लक्ष्मणाभिधम्

etasminnaṃtare tatra rāghavaśśaivasattamaḥ |
uvāca bhrātaraṃ prītyā jalārthī lakṣmaṇābhidham

राम उवाच

31.15

भ्रातर्लक्ष्मण वीरेशाहं जलार्थी पिपासितः ।
तदानय द्रुतं पाथो वानरैः कैश्चिदेव हि

bhrātarlakṣmaṇa vīreśāhaṃ jalārthī pipāsitaḥ |
tadānaya drutaṃ pātho vānaraiḥ kaiścideva hi

सूत उवाच

31.16

तच्छ्रुत्वा वानरास्तत्र ह्यधावंत दिशो दश ।
नीत्वा जलं च ते प्रोचुः प्रणिपत्य पुरः स्थिताः

tacchrutvā vānarāstatra hyadhāvaṃta diśo daśa |
nītvā jalaṃ ca te procuḥ praṇipatya puraḥ sthitāḥ

वानरा ऊचुः

31.17

जलं च गृह्यतां स्वामिन्नानीतं तत्त्वदाज्ञया ।
महोत्तमं च सुस्वादु शीतलं प्राणतर्पणम्

jalaṃ ca gṛhyatāṃ svāminnānītaṃ tattvadājñayā |
mahottamaṃ ca susvādu śītalaṃ prāṇatarpaṇam

सूत उवाच

31.18

सुप्रसन्नतरो भूत्वा कृपादृष्ट्या विलोक्य तान् ।
तच्छ्रुत्वा रामचन्द्रोऽसौ स्वयं जग्राह तज्जलम्

suprasannataro bhūtvā kṛpādṛṣṭyā vilokya tān |
tacchrutvā rāmacandro'sau svayaṃ jagrāha tajjalam

31.19

स शैवस्तज्जलं नीत्वा पातुमारब्धवान्यदा ।
तदा च स्मरणं जातमित्थमस्य शिवेच्छया

sa śaivastajjalaṃ nītvā pātumārabdhavānyadā |
tadā ca smaraṇaṃ jātamitthamasya śivecchayā

31.20

न कृतं दर्शनं शंभोर्गृह्यते च जलं कथम् ।
स्वस्वामिनः परेशस्य सर्वानंदप्रदस्य वै

na kṛtaṃ darśanaṃ śaṃbhorgṛhyate ca jalaṃ katham |
svasvāminaḥ pareśasya sarvānaṃdapradasya vai

31.21

इत्युक्त्वा च जलं पीतं तदा रघुवरेण च ।
पश्चाच्च पार्थिवीं पूजां चकार रघुनंदनः

ityuktvā ca jalaṃ pītaṃ tadā raghuvareṇa ca |
paścācca pārthivīṃ pūjāṃ cakāra raghunaṃdanaḥ

31.22

आवाहनादिकांश्चैव ह्युपचारान्प्रकल्प्य वै ।
विधिवत्षोडश प्रीत्या देवमानर्च शङ्करम्

āvāhanādikāṃścaiva hyupacārānprakalpya vai |
vidhivatṣoḍaśa prītyā devamānarca śaṅkaram

31.23

प्रणिपातैस्स्तवैर्दिव्यैश्शिवं संतोष्य यत्नतः ।
प्रार्थयामास सद्भक्त्या स रामश्शंकरं मुदा

praṇipātaisstavairdivyaiśśivaṃ saṃtoṣya yatnataḥ |
prārthayāmāsa sadbhaktyā sa rāmaśśaṃkaraṃ mudā

राम उवाच

31.24

स्वामिञ्छंभो महादेव सर्वदा भक्तवत्सल ।
पाहि मां शरणापन्नं त्वद्भक्तं दीनमानसम्

svāmiñchaṃbho mahādeva sarvadā bhaktavatsala |
pāhi māṃ śaraṇāpannaṃ tvadbhaktaṃ dīnamānasam

31.25

एतज्जलमगाधं च वारिधेर्भवतारण ।
रावणाख्यो महावीरो राक्षसो बलवत्तरः

etajjalamagādhaṃ ca vāridherbhavatāraṇa |
rāvaṇākhyo mahāvīro rākṣaso balavattaraḥ

31.26

वानराणां बलं ह्येतच्चंचलं युद्धसाधनम् ।
ममकार्यं कथं सिद्धं भविष्यति प्रियाप्तये

vānarāṇāṃ balaṃ hyetaccaṃcalaṃ yuddhasādhanam |
mamakāryaṃ kathaṃ siddhaṃ bhaviṣyati priyāptaye

31.27

तस्मिन्देव त्वया कार्यं साहाय्यं मम सुव्रत ।
साहाय्यं ते विना नाथ मम कार्य्यं हि दुर्लभम्

tasmindeva tvayā kāryaṃ sāhāyyaṃ mama suvrata |
sāhāyyaṃ te vinā nātha mama kāryyaṃ hi durlabham

31.28

त्वदीयो रावणोऽपीह दुर्ज्जयस्सर्वथाखिलैः ।
त्वद्दत्तवरदृप्तश्च महावीरस्त्रिलोकजित्

tvadīyo rāvaṇo'pīha durjjayassarvathākhilaiḥ |
tvaddattavaradṛptaśca mahāvīrastrilokajit

31.29

अप्यहं तव दासोऽस्मि त्वदधीनश्च सर्वथा ।
विचार्येति त्वया कार्यः पक्षपातस्सदाशिव

apyahaṃ tava dāso'smi tvadadhīnaśca sarvathā |
vicāryeti tvayā kāryaḥ pakṣapātassadāśiva

सूत उवाच

31.30

इत्येवं स च संप्रार्थ्य नमस्कृत्य पुनःपुनः ।
तदा जयजयेत्युच्चैरुद्धोषैश्शंकरेति च

ityevaṃ sa ca saṃprārthya namaskṛtya punaḥpunaḥ |
tadā jayajayetyuccairuddhoṣaiśśaṃkareti ca

31.31

इति स्तुत्वा शिवं तत्र मंत्रध्यानपरायणः ।
पुनः पूजां ततः कृत्वा स्वाम्यग्रे स ननर्त ह

iti stutvā śivaṃ tatra maṃtradhyānaparāyaṇaḥ |
punaḥ pūjāṃ tataḥ kṛtvā svāmyagre sa nanarta ha

31.32

प्रेमी विक्लिन्नहृदयो गल्लनादं यदाकरोत् ।
तदा च शंकरो देवस्सुप्रसन्नो बभूव ह

premī viklinnahṛdayo gallanādaṃ yadākarot |
tadā ca śaṃkaro devassuprasanno babhūva ha

31.33

सांगस्सपरिवारश्च ज्योतीरूपो महेश्वरः ।
यथोक्तरूपममलं कृत्वाविरभवद्द्रुतम्

sāṃgassaparivāraśca jyotīrūpo maheśvaraḥ |
yathoktarūpamamalaṃ kṛtvāvirabhavaddrutam

31.34

ततस्संतुष्टहृदयो रामभक्त्या महेश्वरः ।
शिवमस्तु वरं ब्रूहि रामेति स तदाब्रवीत्

tatassaṃtuṣṭahṛdayo rāmabhaktyā maheśvaraḥ |
śivamastu varaṃ brūhi rāmeti sa tadābravīt

31.35

तद्रूपं च तदा दृष्ट्वा सर्वे पूतास्ततस्स्वयम् ।
कृतवान्राघवः पूजां शिवधर्मपरायणः

tadrūpaṃ ca tadā dṛṣṭvā sarve pūtāstatassvayam |
kṛtavānrāghavaḥ pūjāṃ śivadharmaparāyaṇaḥ

31.36

स्तुतिं च विविधां कृत्वा प्रणिपत्य शिवं मुदा ।
जयं च प्रार्थयामास रावणाजौ तदात्मनः

stutiṃ ca vividhāṃ kṛtvā praṇipatya śivaṃ mudā |
jayaṃ ca prārthayāmāsa rāvaṇājau tadātmanaḥ

31.37

ततः प्रसन्नहृदयो रामभक्त्या महेश्वरः ।
जयोस्तु ते महाराज प्रीत्या स पुनरब्रवीत्

tataḥ prasannahṛdayo rāmabhaktyā maheśvaraḥ |
jayostu te mahārāja prītyā sa punarabravīt

31.38

शिवदत्तं जयं प्राप्य ह्यनुज्ञां समवाप्य च ।
पुनश्च प्रार्थयामास सांजलिर्नतमस्तकः

śivadattaṃ jayaṃ prāpya hyanujñāṃ samavāpya ca |
punaśca prārthayāmāsa sāṃjalirnatamastakaḥ

राम उवाच

31.39

त्वया स्थेयमिह स्वामिंल्लोकानां पावनाय च ।
परेषामुपकारार्थं यदि तुष्टोऽसि शंकर

tvayā stheyamiha svāmiṃllokānāṃ pāvanāya ca |
pareṣāmupakārārthaṃ yadi tuṣṭo'si śaṃkara

सूत उवाच

31.40

इत्युक्तस्तु शिवस्तत्र लिंगरूपोऽभवत्तदा ।
रामेश्वरश्च नाम्ना वै प्रसिद्धो जगतीतले

ityuktastu śivastatra liṃgarūpo'bhavattadā |
rāmeśvaraśca nāmnā vai prasiddho jagatītale

31.41

रामस्तु तत्प्रभावाद्वै सिन्धुमुत्तीर्य चांजसा ।
रावणादीन्निहत्याशु राक्षसान्प्राप तां प्रियाम्

rāmastu tatprabhāvādvai sindhumuttīrya cāṃjasā |
rāvaṇādīnnihatyāśu rākṣasānprāpa tāṃ priyām

31.42

रामेश्वरस्य महिमाद्भुतोऽभूद्भुवि चातुलः ।
भुक्तिमुक्तिप्रदश्चैव सर्वदा भक्तकामदः

rāmeśvarasya mahimādbhuto'bhūdbhuvi cātulaḥ |
bhuktimuktipradaścaiva sarvadā bhaktakāmadaḥ

31.43

दिव्यगंगाजलेनैव स्नापयिष्यति यश्शिवम् ।
रामेश्वरं च सद्भक्त्या स जीवन्मुक्त एव हि

divyagaṃgājalenaiva snāpayiṣyati yaśśivam |
rāmeśvaraṃ ca sadbhaktyā sa jīvanmukta eva hi

31.44

इह भुक्त्वाखिलान्भोगान्देवानां दुर्लभानपि ।
अंते प्राप्य परं ज्ञानं कैवल्यं प्राप्नुयाद्ध्रुवम्

iha bhuktvākhilānbhogāndevānāṃ durlabhānapi |
aṃte prāpya paraṃ jñānaṃ kaivalyaṃ prāpnuyāddhruvam

31.45

इति वश्च समाख्यातं ज्योतिर्लिगं शिवस्य तु ।
रामेश्वराभिधं दिव्यं शृण्वतां पापहारकम्

iti vaśca samākhyātaṃ jyotirligaṃ śivasya tu |
rāmeśvarābhidhaṃ divyaṃ śṛṇvatāṃ pāpahārakam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)