कदाचिद्गौतमेनैव जलार्थं प्रेषिता निजाः ।
शिष्यास्तत्र गता भक्त्या कमंडलुकरा द्विजाः
kadācidgautamenaiva jalārthaṃ preṣitā nijāḥ |
śiṣyāstatra gatā bhaktyā kamaṃḍalukarā dvijāḥ
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं नाम पंचविंशोऽध्यायः ॥
58 श्लोक · 25 में से 43
गौतम के शिष्य जल लेने कुण्ड पर जाते हैं, पर अन्य ऋषियों की पत्नियाँ उन्हें हटा देती हैं। अहल्या स्वयं जल लाती हैं, और आहत पत्नियाँ पतियों को भड़काती हैं। ऋषि गौतम के अनिष्ट के लिए श्रीगणेश को पूजते हैं। गणेश चेताते हैं कि अकाल में रक्षा करने वाले से ऐसा बदला अनुचित है, फिर भी भक्तों के अधीन होकर मान जाते हैं। वे दुर्बल गाय बनकर गौतम के खेत में जाते हैं। गौतम उसे तिनकों से हटाने को छूते हैं, तो वह गिरकर मर जाती है। ऋषि गोहत्या का शोर मचाकर पत्थर मारते हैं, अहल्या को कटु वचन कहते हैं और उन्हें निकाल देते हैं। प्रायश्चित्त में वे ब्रह्मगिरि की परिक्रमा, गंगास्नान और एक करोड़ पार्थिव लिंगों की पूजा बताते हैं, और दोनों सब करते हैं।
सूत उवाच
कदाचिद्गौतमेनैव जलार्थं प्रेषिता निजाः ।
शिष्यास्तत्र गता भक्त्या कमंडलुकरा द्विजाः
kadācidgautamenaiva jalārthaṃ preṣitā nijāḥ |
śiṣyāstatra gatā bhaktyā kamaṃḍalukarā dvijāḥ
शिष्याञ्जलसमीपे तु गतान्दृष्ट्वा न्यषेधयन् ।
जलार्थमगतांस्तत्र चर्षिपत्न्योप्यनेकशः
śiṣyāñjalasamīpe tu gatāndṛṣṭvā nyaṣedhayan |
jalārthamagatāṃstatra carṣipatnyopyanekaśaḥ
ऋषिपत्न्यो वयं पूर्वं ग्रहीष्यामो विदूरतः ।
पश्चाच्चैव जलं ग्राह्यमित्येवं पर्यभर्त्सयन्
ṛṣipatnyo vayaṃ pūrvaṃ grahīṣyāmo vidūrataḥ |
paścāccaiva jalaṃ grāhyamityevaṃ paryabhartsayan
परावृत्य तदा तैश्च ऋषिपत्न्यै निवेदितम् ।
सा चापि तान्समादाय समाश्वास्य च तैः स्वयम्
parāvṛtya tadā taiśca ṛṣipatnyai niveditam |
sā cāpi tānsamādāya samāśvāsya ca taiḥ svayam
जलं नीत्वा ददौ तस्मै गौतमाय तपस्विनी ।
नित्यं निर्वाहयामास जलेन ऋषिसत्तमः
jalaṃ nītvā dadau tasmai gautamāya tapasvinī |
nityaṃ nirvāhayāmāsa jalena ṛṣisattamaḥ
ताश्चैवमृषिपत्न्यस्तु क्रुद्धास्तां पर्यभर्त्सयन् ।
परावृत्य गतास्सर्वास्तूटजान्कुटिलाशयाः
tāścaivamṛṣipatnyastu kruddhāstāṃ paryabhartsayan |
parāvṛtya gatāssarvāstūṭajānkuṭilāśayāḥ
स्वाम्यग्रे विपरीतं च तद्वृत्तं निखिलं ततः ।
दुष्टाशयाभिः स्त्रीभिश्च ताभिर्वै विनिवेदितम्
svāmyagre viparītaṃ ca tadvṛttaṃ nikhilaṃ tataḥ |
duṣṭāśayābhiḥ strībhiśca tābhirvai viniveditam
अथ तासां वचः श्रुत्वा भाविकर्मवशात्तदा ।
गौतमाय च संकुद्धाश्चासंस्ते परमर्षयः
atha tāsāṃ vacaḥ śrutvā bhāvikarmavaśāttadā |
gautamāya ca saṃkuddhāścāsaṃste paramarṣayaḥ
विघ्नार्थं गौतमस्यैव नानापूजोपहारकैः ।
गणेशं पूजयामासुस्संकुद्धास्ते कुबुद्धयः
vighnārthaṃ gautamasyaiva nānāpūjopahārakaiḥ |
gaṇeśaṃ pūjayāmāsussaṃkuddhāste kubuddhayaḥ
आविर्बभूव च तदा प्रसन्नो हि गणेश्वरः ।
उवाच वचनं तत्र भक्ताधीनः फलप्रदः
āvirbabhūva ca tadā prasanno hi gaṇeśvaraḥ |
uvāca vacanaṃ tatra bhaktādhīnaḥ phalapradaḥ
गणेश उवाच
प्रसन्नोऽस्मि वरं ब्रूत यूयं किं करवाण्यहम् ।
तदीयं तद्वचः श्रुत्वा ऋषयस्तेऽबुवंस्तदा
prasanno'smi varaṃ brūta yūyaṃ kiṃ karavāṇyaham |
tadīyaṃ tadvacaḥ śrutvā ṛṣayaste'buvaṃstadā
ऋषय ऊचुः
त्वया यदि वरो देयो गौतमस्स्वाश्रमाद्बहिः ।
निष्कास्यं नो ऋषिभिः परिभर्त्स्य तथा कुरु
tvayā yadi varo deyo gautamassvāśramādbahiḥ |
niṣkāsyaṃ no ṛṣibhiḥ paribhartsya tathā kuru
सूत उवाच
स एवं प्रार्थितस्तैस्तु विहस्य वचनं पुनः ।
प्रोवाचेभमुखः प्रीत्या बोधयंस्तान्सतां गतिः
sa evaṃ prārthitastaistu vihasya vacanaṃ punaḥ |
provācebhamukhaḥ prītyā bodhayaṃstānsatāṃ gatiḥ
गणेश उवाच
श्रूयतामृषयस्सर्वे युक्तं न क्रियतेऽधुना ।
अपराधं विना तस्मै क्रुध्यतां हानिरेव च
śrūyatāmṛṣayassarve yuktaṃ na kriyate'dhunā |
aparādhaṃ vinā tasmai krudhyatāṃ hānireva ca
उपस्कृतं पुरा यैस्तु तेभ्यो दुःखं हितं न हि ।
यदा च दीयते दुःखं तदा नाशो भवेदिह
upaskṛtaṃ purā yaistu tebhyo duḥkhaṃ hitaṃ na hi |
yadā ca dīyate duḥkhaṃ tadā nāśo bhavediha
ईदृशं च तपः कृत्वा साध्यते फलमुत्तमम् ।
शुभं फलं स्वयं हित्वा साध्यते नाहितं पुनः
īdṛśaṃ ca tapaḥ kṛtvā sādhyate phalamuttamam |
śubhaṃ phalaṃ svayaṃ hitvā sādhyate nāhitaṃ punaḥ
सूत उवाच
इत्येवं वचनं श्रुत्वा तस्य ते मुनिसत्तमाः ।
बुद्धिमोहं तदा प्राप्ता इदमेव वचोऽब्रुवन्
ityevaṃ vacanaṃ śrutvā tasya te munisattamāḥ |
buddhimohaṃ tadā prāptā idameva vaco'bruvan
ऋषय ऊचुः
कर्तव्यं हि त्वया स्वामिन्निदमेव न चान्यथा ।
इत्युक्तस्तु तदा देवो गणेशो वाक्यमब्रवीत्
kartavyaṃ hi tvayā svāminnidameva na cānyathā |
ityuktastu tadā devo gaṇeśo vākyamabravīt
गणेश उवाच
असाधुस्साधुतां चैव साधुश्चासाधुतां तथा ।
कदाचिदपि नाप्नोति ब्रह्मोक्तमिति निश्चितम्
asādhussādhutāṃ caiva sādhuścāsādhutāṃ tathā |
kadācidapi nāpnoti brahmoktamiti niścitam
यदा च भवतां दुःखं जातं चानशनात्पुरा ।
तदा सुखं प्रदत्तं वै गौतमेन महर्षिणा
yadā ca bhavatāṃ duḥkhaṃ jātaṃ cānaśanātpurā |
tadā sukhaṃ pradattaṃ vai gautamena maharṣiṇā
इदानीं वै भवद्भिश्च तस्मै दुःखं प्रदीयते ।
नेतद्युक्ततमं लोके सर्वथा सुविचार्यताम्
idānīṃ vai bhavadbhiśca tasmai duḥkhaṃ pradīyate |
netadyuktatamaṃ loke sarvathā suvicāryatām
स्त्रीबलान्मोहिता यूयं न मे वाक्यं करिष्यथ ।
एतद्धिततमं तस्य भविष्यति न संशयः
strībalānmohitā yūyaṃ na me vākyaṃ kariṣyatha |
etaddhitatamaṃ tasya bhaviṣyati na saṃśayaḥ
पुनश्चायमृषिश्रेष्ठो दास्यते वस्सुखं ध्रुवम् ।
तारणं न च युक्तं स्याद्वरमन्यं वृणीत वै
punaścāyamṛṣiśreṣṭho dāsyate vassukhaṃ dhruvam |
tāraṇaṃ na ca yuktaṃ syādvaramanyaṃ vṛṇīta vai
सूत उवाच
इत्येवं वचनं तेन गणेशेन महात्मना ।
यद्यप्युक्तमृषिभ्यश्च तदप्येते न मेनिरे
ityevaṃ vacanaṃ tena gaṇeśena mahātmanā |
yadyapyuktamṛṣibhyaśca tadapyete na menire
भक्ताधीनतया सोथ शिवपुत्रोब्रवीत्तदा ।
उदासीनेन मनसा तानृषीन्दुष्टशेमुषीन्
bhaktādhīnatayā sotha śivaputrobravīttadā |
udāsīnena manasā tānṛṣīnduṣṭaśemuṣīn
गणेश उवाच
भवद्भिः प्रार्थ्यते यच्च करिष्येऽहं तथा खलु ।
पश्चाद्भावि भवेदेव इत्युक्त्वांतर्दधे पुनः
bhavadbhiḥ prārthyate yacca kariṣye'haṃ tathā khalu |
paścādbhāvi bhavedeva ityuktvāṃtardadhe punaḥ
गौतमस्स न जानाति मुनीनां वै दुराशयम् ।
आनन्दमनसा नित्यं पत्न्या कर्म चकार तत्
gautamassa na jānāti munīnāṃ vai durāśayam |
ānandamanasā nityaṃ patnyā karma cakāra tat
तदन्तरे च यज्जातं चरितं वरयोगतः ।
तद्दुष्टर्षिप्रभावात्तु श्रूयतां तन्मुनीश्वराः
tadantare ca yajjātaṃ caritaṃ varayogataḥ |
tadduṣṭarṣiprabhāvāttu śrūyatāṃ tanmunīśvarāḥ
गौतमस्य च केदारे तत्रासन्व्रीहयो यवाः ।
गणेशस्तत्र गौर्भूत्वा जगाम किल दुर्बला
gautamasya ca kedāre tatrāsanvrīhayo yavāḥ |
gaṇeśastatra gaurbhūtvā jagāma kila durbalā
कंपमाना च सा गत्वा तत्र तद्वरयोगतः ।
व्रीहीन्संभक्षयामास यवांश्च मुनिसत्तमाः
kaṃpamānā ca sā gatvā tatra tadvarayogataḥ |
vrīhīnsaṃbhakṣayāmāsa yavāṃśca munisattamāḥ
एतस्मिन्नन्तरे दैवाद्गौतमस्तत्र चागतः ।
स दयालुस्तृणस्तंम्बैर्वारयामास तां तदा
etasminnantare daivādgautamastatra cāgataḥ |
sa dayālustṛṇastaṃmbairvārayāmāsa tāṃ tadā
तृणस्तंबेन सा स्पृष्टा पपात पृथिवीतले ।
मृता च तत्क्षणादेव तदृषेः पश्यतस्तदा
tṛṇastaṃbena sā spṛṣṭā papāta pṛthivītale |
mṛtā ca tatkṣaṇādeva tadṛṣeḥ paśyatastadā
ऋषयश्छन्नरूपास्ते ऋषिपत्न्यस्तथाशुभाः ।
ऊचुस्तत्र तदा सर्वे किं कृतं गौतमेन च
ṛṣayaśchannarūpāste ṛṣipatnyastathāśubhāḥ |
ūcustatra tadā sarve kiṃ kṛtaṃ gautamena ca
गौतमोऽपि तथाहल्यामाहूयासीत्सुविस्मितः ।
उवाच दुःखतो विप्रा दूयमानेन चेतसा
gautamo'pi tathāhalyāmāhūyāsītsuvismitaḥ |
uvāca duḥkhato viprā dūyamānena cetasā
गौतम उवाच
किं जातं च कथं देवि कुपितः परमेश्वरः ।
किं कर्तव्यं क्व गन्तव्यं हत्या च समुपस्थिता
kiṃ jātaṃ ca kathaṃ devi kupitaḥ parameśvaraḥ |
kiṃ kartavyaṃ kva gantavyaṃ hatyā ca samupasthitā
सूत उवाच
एतस्मिन्नन्तरे विप्रो गौतमं पर्यभर्त्सयन् ।
विप्रपत्न्यस्तथाऽहल्यां दुर्वचोभिर्व्यथां ददुः
etasminnantare vipro gautamaṃ paryabhartsayan |
viprapatnyastathā'halyāṃ durvacobhirvyathāṃ daduḥ
दुर्बुद्धयश्च तच्छिष्यास्सुतास्तेषां तथैव च ।
गौतम परिभर्त्स्यैव प्रत्यूचुर्धिग्वचो मुहुः
durbuddhayaśca tacchiṣyāssutāsteṣāṃ tathaiva ca |
gautama paribhartsyaiva pratyūcurdhigvaco muhuḥ
ऋषय ऊचुः
मुखं न दर्शनीयं ते गम्यतां गम्यतामिति ।
दृष्ट्वा गोघ्नमुखं सद्यस्सचैलं स्नानमाचरेत्
mukhaṃ na darśanīyaṃ te gamyatāṃ gamyatāmiti |
dṛṣṭvā goghnamukhaṃ sadyassacailaṃ snānamācaret
यावदाश्रममध्ये त्वं तावदेव हविर्भुजः ।
पितरश्च न गृह्णंति ह्यस्मद्दत्तं हि किञ्चन
yāvadāśramamadhye tvaṃ tāvadeva havirbhujaḥ |
pitaraśca na gṛhṇaṃti hyasmaddattaṃ hi kiñcana
तस्माद्गच्छान्यतस्त्वं च परिवारसमन्वितः ।
विलम्बं कुरु नैव त्वं धेनुहन्पापकारक
tasmādgacchānyatastvaṃ ca parivārasamanvitaḥ |
vilambaṃ kuru naiva tvaṃ dhenuhanpāpakāraka
सूत उवाच
इत्युक्त्वा ते च तं सर्वे पाषाणैस्समताडयन् ।
व्यथां ददुरतीवास्मै त्वहल्यां च दुरुक्तिभिः
ityuktvā te ca taṃ sarve pāṣāṇaissamatāḍayan |
vyathāṃ daduratīvāsmai tvahalyāṃ ca duruktibhiḥ
ताडितो भर्त्सितो दुष्टैर्गौतमो गिरमब्रवीत् ।
इतो गच्छामि मुनयो ह्यन्यत्र निवसाम्यहम्
tāḍito bhartsito duṣṭairgautamo giramabravīt |
ito gacchāmi munayo hyanyatra nivasāmyaham
इत्युक्त्वा गौतमस्तस्मात्स्थानाच्च निर्गतस्तदा ।
गत्वा क्रोशं तदा चक्रे ह्याश्रमं तदनुज्ञया
ityuktvā gautamastasmātsthānācca nirgatastadā |
gatvā krośaṃ tadā cakre hyāśramaṃ tadanujñayā
यावच्चैवाभिशापो वै तावत्कार्य्यं न किंचन ।
न कर्मण्यधिकारोऽस्ति दैवे पित्र्येऽथ वैदिके
yāvaccaivābhiśāpo vai tāvatkāryyaṃ na kiṃcana |
na karmaṇyadhikāro'sti daive pitrye'tha vaidike
मासार्धं च ततो नीत्वा मुनीन्संप्रार्थयत्तदा ।
गौतमो मुनिवर्य्यस्स तेन दुःखेन दुखितः
māsārdhaṃ ca tato nītvā munīnsaṃprārthayattadā |
gautamo munivaryyassa tena duḥkhena dukhitaḥ
गौतम उवाच
अनुकंप्यो भवद्भिश्च कथ्यतां क्रियते मया ।
यथा मदीयं पापं च गच्छत्विति निवेद्यताम्
anukaṃpyo bhavadbhiśca kathyatāṃ kriyate mayā |
yathā madīyaṃ pāpaṃ ca gacchatviti nivedyatām
सूत उवाच
इत्युक्तास्ते तदा विप्रा नोचुश्चैव परस्परम् ।
अत्यंतं सेवया पृष्टा मिलिता ह्येकतस्स्थिताः
ityuktāste tadā viprā nocuścaiva parasparam |
atyaṃtaṃ sevayā pṛṣṭā militā hyekatassthitāḥ
गौतमो दूरतः स्थित्वा नत्वा तानृषिसत्तमान् ।
पप्रच्छ विनयाविष्टः किं कार्यं हि मयाधुना
gautamo dūrataḥ sthitvā natvā tānṛṣisattamān |
papraccha vinayāviṣṭaḥ kiṃ kāryaṃ hi mayādhunā
इत्युक्ते मुनिना तेन गौतमेन महात्मना ।
मिलितास्सकलास्ते वै मुनयो वाक्यमब्रुवन्
ityukte muninā tena gautamena mahātmanā |
militāssakalāste vai munayo vākyamabruvan
ऋषय ऊचुः
निष्कृतिं हि विना शुद्धिर्जायते न कदाचन ।
तस्मात्त्वं देहशुद्ध्यर्थं प्रायश्चित्तं समाचर
niṣkṛtiṃ hi vinā śuddhirjāyate na kadācana |
tasmāttvaṃ dehaśuddhyarthaṃ prāyaścittaṃ samācara
त्रिवारं पृथिवीं सर्वां क्रम पापं प्रकाशयन् ।
पुनरागत्य चात्रैव चर मासव्रतं तथा
trivāraṃ pṛthivīṃ sarvāṃ krama pāpaṃ prakāśayan |
punarāgatya cātraiva cara māsavrataṃ tathā
शतमेकोत्तरं चैव ब्रह्मणोऽस्य गिरेस्तथा ।
प्रक्रमणं विधायैवं शुद्धिस्ते च भविष्यति
śatamekottaraṃ caiva brahmaṇo'sya girestathā |
prakramaṇaṃ vidhāyaivaṃ śuddhiste ca bhaviṣyati
अथवा त्वं समानीय गंगास्नानं समाचर ।
पार्थिवानां तथा कोटिं कृत्वा देवं निषेवय
athavā tvaṃ samānīya gaṃgāsnānaṃ samācara |
pārthivānāṃ tathā koṭiṃ kṛtvā devaṃ niṣevaya
गंगायां च ततः स्नात्वा पुनश्चैव भविष्यति ।
पुरा दश तथा चैकं गिरेस्त्वं क्रमणं कुरु
gaṃgāyāṃ ca tataḥ snātvā punaścaiva bhaviṣyati |
purā daśa tathā caikaṃ girestvaṃ kramaṇaṃ kuru
शत कुंभैस्तथा स्नात्वा पार्थिवं निष्कृतिर्भवेत् ।
इति तैर्षिभिः प्रोक्तस्तथेत्योमिति तद्वचः
śata kuṃbhaistathā snātvā pārthivaṃ niṣkṛtirbhavet |
iti tairṣibhiḥ proktastathetyomiti tadvacaḥ
पार्थिवानां तथा पूजां गिरेः प्रक्रमणं तथा ।
करिष्यामि मुनिश्रेष्ठा आज्ञया श्रीमतामिह
pārthivānāṃ tathā pūjāṃ gireḥ prakramaṇaṃ tathā |
kariṣyāmi muniśreṣṭhā ājñayā śrīmatāmiha
इत्युक्त्वा सर्षिवर्यश्च कृत्वा प्रक्रमणं गिरेः ।
पूजयामास निर्माय पार्थिवान्मुनिसत्तमः
ityuktvā sarṣivaryaśca kṛtvā prakramaṇaṃ gireḥ |
pūjayāmāsa nirmāya pārthivānmunisattamaḥ
अहल्या च ततस्साध्वी तच्च सर्वं चकार सा ।
शिष्याश्च प्रतिशिष्याश्च चक्रुस्सेवां तयोस्तदा
ahalyā ca tatassādhvī tacca sarvaṃ cakāra sā |
śiṣyāśca pratiśiṣyāśca cakrussevāṃ tayostadā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)