अतः परं प्रवक्ष्यामि मल्लिकार्जुनसंभवम् ।
यः श्रुत्वा भक्तिमान्धीमान्सर्वपापैः प्रमुच्यते
ataḥ paraṃ pravakṣyāmi mallikārjunasaṃbhavam |
yaḥ śrutvā bhaktimāndhīmānsarvapāpaiḥ pramucyate
इति श्रीशिवपुराणे चतुर्थ्यां कोटि रुद्रसंहिताया मल्लिकार्जुनद्वितीयज्योतिर्लिंगवर्णनंनाम पंचदशोऽध्यायः ॥
23 श्लोक · 15 में से 43
सूत कुमार की कथा का एक अंश फिर कहते हैं। जब तारकासुर के संहारक कार्तिकेय पृथ्वी की परिक्रमा करके कैलास लौटे, नारद ने उन्हें गणेश के विवाह का समाचार देकर उनका मन फेर दिया। कुमार माता-पिता को प्रणाम करके, रोकने पर भी, क्रौंच पर्वत चले गए। माता पार्वती दुःखी हुईं, और शिव ने देवों और ऋषियों को भेजा, पर कुमार नहीं आए। तब भगवान शिव और पार्वती स्नेहवश स्वयं गए, और कुमार तीन योजन और दूर चले गए। क्रौंच पर दिव्य दम्पती ज्योतिरूप में स्थित हो गए। हर अमावस्या को शिव पुत्र को देखने जाते हैं और हर पूर्णिमा को पार्वती। तभी से मल्लिकार्जुन लिंग तीनों लोकों में प्रसिद्ध है; उसके दर्शन से पाप और पुनर्जन्म छूटते हैं।
सूत उवाच
अतः परं प्रवक्ष्यामि मल्लिकार्जुनसंभवम् ।
यः श्रुत्वा भक्तिमान्धीमान्सर्वपापैः प्रमुच्यते
ataḥ paraṃ pravakṣyāmi mallikārjunasaṃbhavam |
yaḥ śrutvā bhaktimāndhīmānsarvapāpaiḥ pramucyate
पूर्वं चा कथितं यच्च तत्पुनः कथयाम्यहम् ।
कुमारचरितं दिव्यं सर्वपापविनाशनम्
pūrvaṃ cā kathitaṃ yacca tatpunaḥ kathayāmyaham |
kumāracaritaṃ divyaṃ sarvapāpavināśanam
यदा पृथ्वीं समाक्रम्य कैलासं पुनरागतः ।
कुमारस्स शिवापुत्रस्तारकारिर्महाबलः
yadā pṛthvīṃ samākramya kailāsaṃ punarāgataḥ |
kumārassa śivāputrastārakārirmahābalaḥ
तदा सुरर्षिरागत्य सर्वं वृत्तं जगाद ह ।
गणेश्वरविवाहादि भ्रामयंस्तं स्वबुद्धितः
tadā surarṣirāgatya sarvaṃ vṛttaṃ jagāda ha |
gaṇeśvaravivāhādi bhrāmayaṃstaṃ svabuddhitaḥ
तच्छुत्वा स कुमारो हि प्रणम्य पितरौ च तौ ।
जगाम पर्वतं क्रौचं पितृभ्यां वारितोऽपि हि
tacchutvā sa kumāro hi praṇamya pitarau ca tau |
jagāma parvataṃ kraucaṃ pitṛbhyāṃ vārito'pi hi
कुमारस्य वियोगेन तन्माता गिरिजा यदा ।
दुःखितासीत्तदा शंभुस्तामुवाच सुबोधकृत्
kumārasya viyogena tanmātā girijā yadā |
duḥkhitāsīttadā śaṃbhustāmuvāca subodhakṛt
कथं प्रिये दुःखितासि न दुःखं कुरु पार्वति ।
आयास्यति सुतः सुभ्रूस्त्यज्यतां दुःखमुत्कटम्
kathaṃ priye duḥkhitāsi na duḥkhaṃ kuru pārvati |
āyāsyati sutaḥ subhrūstyajyatāṃ duḥkhamutkaṭam
सा यदा च न तन्मेने पार्वती दुःखिता भृशम् ।
तदा च प्रेषितास्तत्र शंकरेण सुरर्षयः
sā yadā ca na tanmene pārvatī duḥkhitā bhṛśam |
tadā ca preṣitāstatra śaṃkareṇa surarṣayaḥ
देवाश्च ऋषयस्सर्वे सगणा हि मुदान्विताः ।
कुमारानयनार्थं वै तत्र जग्मुः सुबुद्धयः
devāśca ṛṣayassarve sagaṇā hi mudānvitāḥ |
kumārānayanārthaṃ vai tatra jagmuḥ subuddhayaḥ
तत्र गत्वा च ते सर्वे कुमारं सुप्रणम्य च ।
विज्ञाप्य बहुधाप्येनं प्रार्थनां चक्रुरादरात्
tatra gatvā ca te sarve kumāraṃ supraṇamya ca |
vijñāpya bahudhāpyenaṃ prārthanāṃ cakrurādarāt
देवादिप्रार्थनां तां च शिवाज्ञासंकुलां गुरुः ।
न मेने स कुमारो हि महाहंकारविह्वलः
devādiprārthanāṃ tāṃ ca śivājñāsaṃkulāṃ guruḥ |
na mene sa kumāro hi mahāhaṃkāravihvalaḥ
ततश्च पुनरावृत्य सर्वे ते हि शिवांतिकम् ।
स्वंस्वं स्थानं गता नत्वा प्राप्य शंकरशासनम्
tataśca punarāvṛtya sarve te hi śivāṃtikam |
svaṃsvaṃ sthānaṃ gatā natvā prāpya śaṃkaraśāsanam
तदा च गिरिजादेवी विरहं पुत्रसंभवम् ।
शंभुश्च परमं दुःखं प्राप तस्मिन्ननागते
tadā ca girijādevī virahaṃ putrasaṃbhavam |
śaṃbhuśca paramaṃ duḥkhaṃ prāpa tasminnanāgate
अथो सुदुःखितौ दीनौ लोकाचारकरौ तदा ।
जग्मतुस्तत्र सुस्नेहात्स्वपुत्रो यत्र संस्थितः
atho suduḥkhitau dīnau lokācārakarau tadā |
jagmatustatra susnehātsvaputro yatra saṃsthitaḥ
स पुत्रश्च कुमाराख्यः पित्रोरागमनं गिरेः ।
ज्ञात्वा दूरं गतोऽस्नेहाद्योजनत्रयमेव च
sa putraśca kumārākhyaḥ pitrorāgamanaṃ gireḥ |
jñātvā dūraṃ gato'snehādyojanatrayameva ca
क्रौंचे च पर्वते दूरं गते तस्मिन्स्वपुत्रके ।
तौ च तत्र समासीनौ ज्यो तीरूपं समाश्रितौ
krauṃce ca parvate dūraṃ gate tasminsvaputrake |
tau ca tatra samāsīnau jyo tīrūpaṃ samāśritau
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणिपर्वणि ।
दर्शनार्थं कुमारस्य स्वपुत्रस्य हि गच्छतः
putrasnehāturau tau vai śivau parvaṇiparvaṇi |
darśanārthaṃ kumārasya svaputrasya hi gacchataḥ
अमावास्यादिने शंभुस्स्वयं गच्छति तत्र ह ।
पौर्णमासीदिने तत्र पार्वती गच्छति ध्रुवम्
amāvāsyādine śaṃbhussvayaṃ gacchati tatra ha |
paurṇamāsīdine tatra pārvatī gacchati dhruvam
तद्दिनं हि समारभ्य मल्लिकार्जुनसंभवम् ।
लिंगं चैव शिवस्यैकं प्रसिद्धं भुवनत्रये
taddinaṃ hi samārabhya mallikārjunasaṃbhavam |
liṃgaṃ caiva śivasyaikaṃ prasiddhaṃ bhuvanatraye
तल्लिंगं यः समीक्षेत स सर्वैः किल्बिषैरपि ।
मुच्यते नात्र सन्देहः सर्वान्कामानवाप्नुयात्
talliṃgaṃ yaḥ samīkṣeta sa sarvaiḥ kilbiṣairapi |
mucyate nātra sandehaḥ sarvānkāmānavāpnuyāt
दुःखं च दूरतो याति सुखमात्यंतिकं लभेत् ।
जननीगर्भसंभूतं कष्टं नाप्नोति वै पुनः
duḥkhaṃ ca dūrato yāti sukhamātyaṃtikaṃ labhet |
jananīgarbhasaṃbhūtaṃ kaṣṭaṃ nāpnoti vai punaḥ
धनधान्यसमृद्धिश्च प्रतिष्ठारोग्यमेव च ।
अभीष्टफलसिद्धिश्च जायते नात्र संशयः
dhanadhānyasamṛddhiśca pratiṣṭhārogyameva ca |
abhīṣṭaphalasiddhiśca jāyate nātra saṃśayaḥ
ज्योतिर्लिंगं द्वितीयं च प्रोक्तं मल्लिकसंज्ञितम् ।
दर्शनात्सर्वसुखदं कथितं लोकहेतवे
jyotirliṃgaṃ dvitīyaṃ ca proktaṃ mallikasaṃjñitam |
darśanātsarvasukhadaṃ kathitaṃ lokahetave
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)