अत्रास्ति च महादेवि खल्वावरणपंचकम् ।
पंचावरणपूजान्तु प्रारभेत यथाक्रमम्
atrāsti ca mahādevi khalvāvaraṇapaṃcakam |
paṃcāvaraṇapūjāntu prārabheta yathākramam
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायामावरणपूजावर्णनं नामाष्टमोऽध्यायः ॥
38 श्लोक · 8 में से 23
शिव मूल प्रतिमा के चारों ओर पाँच आवरण बताते हैं। पहले में हेरम्ब और षण्मुख, पाँच ब्रह्म और छह अंग हैं। दूसरे में अनन्त, सूक्ष्म, शिवोत्तम, एकनेत्र, एकरुद्र, त्रिमूर्ति, श्रीकण्ठ और शिखण्डीश, और द्वारों पर नन्दी, महाकाल, भृंगीश, विनायक, वृषभ तथा गुह। तीसरे में भव, शर्व, ईशान, रुद्र, पशुपति, उग्र, भीम और महादेव ये आठ नाम हैं। चौथे में महेश्वर, रुद्र, वासुदेव, संकर्षण, प्रद्युम्न और अनिरुद्ध सहित विष्णु, हिरण्यगर्भ और विराट् सहित ब्रह्मा, फिर दिक्पाल। पाँचवें में त्रिशूल से पिनाक तक आयुध और क्षेत्रपाल हैं। सबका ध्यान हाथ जोड़े, मुस्कराते, देव और देवी को निहारते हुए किया जाता है। फिर नैवेद्य, ताम्बूल, आरती, जप, पुष्पांजलि, परिक्रमा और साष्टांग प्रणाम, और भले-बुरे हर कर्म को शम्भु की आराधना कहकर अर्पण।
ईश्वर उवाच
अत्रास्ति च महादेवि खल्वावरणपंचकम् ।
पंचावरणपूजान्तु प्रारभेत यथाक्रमम्
atrāsti ca mahādevi khalvāvaraṇapaṃcakam |
paṃcāvaraṇapūjāntu prārabheta yathākramam
प्रथमम्पूजितौ यत्र तत्रैव क्रमशस्सुधीः ।
गन्धाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ
prathamampūjitau yatra tatraiva kramaśassudhīḥ |
gandhādyairarcayetpūrvaṃ devau heraṃbaṣaṇmukhau
पंच ब्रह्माणि परितो वृत्ते सम्पूजयेत्क्रमात् ।
ईशानदेशे पूर्वे च दक्षिणे चोत्तरे तथा
paṃca brahmāṇi parito vṛtte sampūjayetkramāt |
īśānadeśe pūrve ca dakṣiṇe cottare tathā
पश्चिमे च ततस्तस्मिन्षडंगानि समर्चयेत ।
आग्नेये च तथैशाने नैर्ऋते वायुदेशके
paścime ca tatastasminṣaḍaṃgāni samarcayeta |
āgneye ca tathaiśāne nairṛte vāyudeśake
मध्ये नेत्रन्तद्वदस्त्रम्पूर्वादिपरितः क्रमात् ।
प्रथमावरणम्प्रोक्तं द्वितीयावरणं शृणु
madhye netrantadvadastrampūrvādiparitaḥ kramāt |
prathamāvaraṇamproktaṃ dvitīyāvaraṇaṃ śṛṇu
अनन्तम्पूर्वदिक्पत्रे सूक्ष्मन्दक्षिणतस्तथा ।
शिवोत्तमं पश्चिमत एकनेत्रन्तथोत्तरे
anantampūrvadikpatre sūkṣmandakṣiṇatastathā |
śivottamaṃ paścimata ekanetrantathottare
एकरुद्रन्तथैशाने त्रिमूर्तिं वह्निदिग्दले ।
श्रीकण्ठं नैर्ऋते वायौ शिखण्डीशं समर्चयेत्
ekarudrantathaiśāne trimūrtiṃ vahnidigdale |
śrīkaṇṭhaṃ nairṛte vāyau śikhaṇḍīśaṃ samarcayet
द्वितीयावरणे चैव पूज्यास्ते चक्रवर्तिनः ।
पूर्वद्वारस्य मध्ये तु वृषेशानम्प्रपूजयेत्
dvitīyāvaraṇe caiva pūjyāste cakravartinaḥ |
pūrvadvārasya madhye tu vṛṣeśānamprapūjayet
तद्दक्षिणे नन्दिनञ्च महाकालन्तदुत्तरे ।
भृंगीशन्दक्षिणद्वारपश्चिमे सम्प्रपूजयेत्
taddakṣiṇe nandinañca mahākālantaduttare |
bhṛṃgīśandakṣiṇadvārapaścime samprapūjayet
तत्पूर्वकोष्ठे गन्धाद्यैस्सम्प्रपूज्य विनायकम् ।
पश्चिमोत्तरकोष्ठे च वृषभन्दक्षिणे गुहम्
tatpūrvakoṣṭhe gandhādyaissamprapūjya vināyakam |
paścimottarakoṣṭhe ca vṛṣabhandakṣiṇe guham
उत्तरद्वारपूर्वे तु प्रदक्षिणविधानतः ।
नामाष्टकविधानेन पूजयेदुच्यते हि तत्
uttaradvārapūrve tu pradakṣiṇavidhānataḥ |
nāmāṣṭakavidhānena pūjayeducyate hi tat
भवं शर्वं तथेशानं रुद्रम्पशुपतिम्पुनः ।
उग्रम्भीमम्महादेवन्तृतीयावरणन्त्विदम्
bhavaṃ śarvaṃ tatheśānaṃ rudrampaśupatimpunaḥ |
ugrambhīmammahādevantṛtīyāvaraṇantvidam
यो वेदादौ स्वर इति समावाह्य महेश्वरम् ।
पूजयेत्पूर्वदिग्भागे कमले कर्णिकोपरि
yo vedādau svara iti samāvāhya maheśvaram |
pūjayetpūrvadigbhāge kamale karṇikopari
ईश्वरम्पूर्वदिक्पत्रे विश्वेशन्दक्षिणे ततः ।
सौम्ये तु परमेशानं सर्वेशम्प श्चिमे यजेत्
īśvarampūrvadikpatre viśveśandakṣiṇe tataḥ |
saumye tu parameśānaṃ sarveśampa ścime yajet
दक्षिणे तु यजेद्रुद्रमावोराजानमित्यृचा ।
आवाह्य गन्धपुष्पाद्यैः कर्णिकायान्दलेषु च
dakṣiṇe tu yajedrudramāvorājānamityṛcā |
āvāhya gandhapuṣpādyaiḥ karṇikāyāndaleṣu ca
शिवः पूर्वे दक्षिणतो हर उत्तरतो मृडः ।
भवः पश्चिमदिक्पत्रे पूज्या एते यथाक्रमम्
śivaḥ pūrve dakṣiṇato hara uttarato mṛḍaḥ |
bhavaḥ paścimadikpatre pūjyā ete yathākramam
उत्तरे विष्णुमावाह्य गन्धपुष्पादिभिर्यजेत् ।
प्रतद्विष्णुरिति प्रोच्य कर्णिकायान्दलेषु च
uttare viṣṇumāvāhya gandhapuṣpādibhiryajet |
pratadviṣṇuriti procya karṇikāyāndaleṣu ca
वासुदेवम्पूर्वभागे दक्षिणे चानिरुद्धकम् ।
सौम्ये संकर्षणञ्चैव प्रद्युम्नम्पश्चिमे यजेत्
vāsudevampūrvabhāge dakṣiṇe cāniruddhakam |
saumye saṃkarṣaṇañcaiva pradyumnampaścime yajet
ब्रह्माणम्पश्चिमे पद्मे समावाह्य समर्चयेत् ।
हिरण्यगर्भः समवर्तत इति मंत्रेण मंत्रवित्
brahmāṇampaścime padme samāvāhya samarcayet |
hiraṇyagarbhaḥ samavartata iti maṃtreṇa maṃtravit
हिरण्यगर्भं पूर्वस्यां विराजन्दक्षिणे ततः ।
उत्तरे पुष्करञ्चैव कालम्पश्चिमतो यजेत्
hiraṇyagarbhaṃ pūrvasyāṃ virājandakṣiṇe tataḥ |
uttare puṣkarañcaiva kālampaścimato yajet
सर्वोर्द्ध्वपंक्तौ पूर्वादिप्रदक्षिणविधानतः ।
तत्तत्स्थानेषु संपूज्य लोकपालाननुक्रमात्
sarvorddhvapaṃktau pūrvādipradakṣiṇavidhānataḥ |
tattatsthāneṣu saṃpūjya lokapālānanukramāt
रान्तंपान्तं तथा ज्ञान्तं लान्तं लान्तमपूर्वकम् ।
षान्तं सान्तञ्च वेदाद्यं श्रीबीजञ्च दशक्रमात्
rāntaṃpāntaṃ tathā jñāntaṃ lāntaṃ lāntamapūrvakam |
ṣāntaṃ sāntañca vedādyaṃ śrībījañca daśakramāt
बीजानि लोकपालानामेतैरेतान्समर्चयेत् ।
नैर्ऋते चोत्तरे तद्वदीशानस्य च दक्षिणे
bījāni lokapālānāmetairetānsamarcayet |
nairṛte cottare tadvadīśānasya ca dakṣiṇe
ब्रह्म विष्णू च विधिना पूजयेदुपचारकैः ।
बाह्यरेखासु देवेशम्पञ्चमावरणे यजेत्
brahma viṣṇū ca vidhinā pūjayedupacārakaiḥ |
bāhyarekhāsu deveśampañcamāvaraṇe yajet
श्रीमत्त्रिशूलमीशाने वज्रं माहेन्द्रदिङ्मुखे ।
परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत्
śrīmattriśūlamīśāne vajraṃ māhendradiṅmukhe |
paraśuṃ vahnidigbhāge yāmye sāyakamarcayet
नैर्ऋते तु यजेत्खड्गम्पाशं वरुणगोचरे ।
अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत्
nairṛte tu yajetkhaḍgampāśaṃ varuṇagocare |
aṃkuśaṃ mārute bhāge pinākaṃ cottare yajet
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ।
यथाविधि विधानज्ञश्शिवप्रीत्यर्थमेव च
paścimābhimukhaṃ raudraṃ kṣetrapālaṃ samarcayet |
yathāvidhi vidhānajñaśśivaprītyarthameva ca
कृताञ्जलिपुटास्सर्वे चिन्त्याः स्मितमुखाम्बुजाः ।
सादरं प्रेक्षमाणाश्च देवं देवीञ्च सर्वदा
kṛtāñjalipuṭāssarve cintyāḥ smitamukhāmbujāḥ |
sādaraṃ prekṣamāṇāśca devaṃ devīñca sarvadā
इत्थमावरणाभ्यर्चां कृत्वा विक्षेपशान्तये ।
पुनरभ्यर्च्य देवेशम्प्रणवं च शिवं वदेत्
itthamāvaraṇābhyarcāṃ kṛtvā vikṣepaśāntaye |
punarabhyarcya deveśampraṇavaṃ ca śivaṃ vadet
एवमभ्यर्च्य विधिवद्गन्धाद्यैरुपचारकैः ।
उपचर्य्य ततो दद्यान्नैवेद्यं विधिसाधितम्
evamabhyarcya vidhivadgandhādyairupacārakaiḥ |
upacaryya tato dadyānnaivedyaṃ vidhisādhitam
पुनराचमनीयं च दद्यादर्घ्यं यथा पुरा ।
ततो निवेद्य पानीयन्ताम्बूलं चोपदेशतः
punarācamanīyaṃ ca dadyādarghyaṃ yathā purā |
tato nivedya pānīyantāmbūlaṃ copadeśataḥ
नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ।
ध्यात्वा देवं च देवीञ्च मनुमष्टोत्तरं जपेत्
nīrājanādikaṃ kṛtvā pūjāśeṣaṃ samāpayet |
dhyātvā devaṃ ca devīñca manumaṣṭottaraṃ japet
तत उत्थाय रचितपुष्पाञ्जलिपुटः स्थितः ।
जपेद्ध्यात्वा महादेवं यो देवानामिति क्रमात्
tata utthāya racitapuṣpāñjalipuṭaḥ sthitaḥ |
japeddhyātvā mahādevaṃ yo devānāmiti kramāt
यो वेदादौ स्वरः प्रोक्त इत्यंतम्परमेश्वरि ।
पुष्पाञ्जलिन्ततो दत्त्वा त्रिः प्रदक्षिणमाचरेत्
yo vedādau svaraḥ prokta ityaṃtamparameśvari |
puṣpāñjalintato dattvā triḥ pradakṣiṇamācaret
साष्टांगम्प्रणमेत्तं स भक्त्या परमयान्वितः ।
पुनः प्रदक्षिणां कृत्वा प्रणमेत्पुनरेकधा
sāṣṭāṃgampraṇamettaṃ sa bhaktyā paramayānvitaḥ |
punaḥ pradakṣiṇāṃ kṛtvā praṇametpunarekadhā
स्थित्वासने समभ्यर्च्य देवं नामाष्टकेन च ।
साधु वासाधु वा कर्म यद्यदाचरितं मया
sthitvāsane samabhyarcya devaṃ nāmāṣṭakena ca |
sādhu vāsādhu vā karma yadyadācaritaṃ mayā
तत्सर्वं भगवञ्छम्भो भवदाराधनम्परम् ।
इति शंखोदकेनैव सपुष्पेण समर्पयेत्
tatsarvaṃ bhagavañchambho bhavadārādhanamparam |
iti śaṃkhodakenaiva sapuṣpeṇa samarpayet
पूज्यं पुनस्समभ्यर्च्य सार्थं नामाष्टकं जपेत् ।
तदेव शृणु देवेशि संब्रुवे तव भक्तितः
pūjyaṃ punassamabhyarcya sārthaṃ nāmāṣṭakaṃ japet |
tadeva śṛṇu deveśi saṃbruve tava bhaktitaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)