परीक्ष्य विधिवद्भूमिं गंधवर्णरसादिभिः ।
मनोभिलषिते तत्र वितानवितताम्बरे
parīkṣya vidhivadbhūmiṃ gaṃdhavarṇarasādibhiḥ |
manobhilaṣite tatra vitānavitatāmbare
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासमण्डलविधिवर्णनं नाम पंचमोऽध्यायः ॥
36 श्लोक · 5 में से 23
यह अध्याय सटीक विधि का है। यति गन्ध, वर्ण और रस से भूमि की परीक्षा करता है, चँदोवे के नीचे उसे दर्पण-सी चिकनी लीपता है और दो अरत्नि का चौकोर बनाता है। तेरह भागों वाले ताड़पत्र और रंगे सूत से वह कोष्ठों का जाल बनाता है। बीच में लाल घेरे वाली पीली कर्णिका है और उसके चारों ओर आठ श्वेत दल। कर्णिका में प्रणवार्थ प्रकाशित करने वाला यन्त्र लिखा जाता है: पीठ, फिर श्रीकण्ठ, अमरेश, महाकाल, दण्ड और ईश्वर, प्रत्येक अपने रंग में। कोनों में बीजाक्षर सहित लाल अष्टदल कमल बनते हैं, चार कोष्ठ द्वार बनते हैं और बाहरी पंक्तियाँ निश्चित क्रम के रंगों से भरी जाती हैं। शिव कहते हैं कि मण्डल बन जाने पर यति पहले सूर्य की पूजा करे।
ईश्वर उवाच
परीक्ष्य विधिवद्भूमिं गंधवर्णरसादिभिः ।
मनोभिलषिते तत्र वितानवितताम्बरे
parīkṣya vidhivadbhūmiṃ gaṃdhavarṇarasādibhiḥ |
manobhilaṣite tatra vitānavitatāmbare
सुप्रलिप्ते महीपृष्ठे दर्पणोदरसन्निभे ।
अरत्नियुग्ममानेन चतुरस्रं प्रकल्पयेत्
supralipte mahīpṛṣṭhe darpaṇodarasannibhe |
aratniyugmamānena caturasraṃ prakalpayet
तालपत्रं समादाय तत्समायामविस्तरम् ।
तस्मिन्भागान्प्रकुर्वीत त्रयोदशसमां कलाम्
tālapatraṃ samādāya tatsamāyāmavistaram |
tasminbhāgānprakurvīta trayodaśasamāṃ kalām
तत्पत्रं तत्र निक्षिप्य पश्चिमाभिमुखः स्थितः ।
तत्पूर्वभागे सुदृढं सूत्रमादाय रंजितम्
tatpatraṃ tatra nikṣipya paścimābhimukhaḥ sthitaḥ |
tatpūrvabhāge sudṛḍhaṃ sūtramādāya raṃjitam
प्राक्प्रत्यग्दक्षिणोदक् च चतुर्दिशि निपातयेत् ।
सूत्राणि देवदेवेशि नवषष्ट्युत्तरं शतम्
prākpratyagdakṣiṇodak ca caturdiśi nipātayet |
sūtrāṇi devadeveśi navaṣaṣṭyuttaraṃ śatam
कोष्ठानि स्युस्ततस्तस्य मध्यकोष्ठं तु कर्णिका ।
कोष्ठाष्टकं बहिस्तस्य दलाष्टकमिहोच्यते
koṣṭhāni syustatastasya madhyakoṣṭhaṃ tu karṇikā |
koṣṭhāṣṭakaṃ bahistasya dalāṣṭakamihocyate
दलानि श्वेतवर्णानि दलाष्टकमिहोच्यते ॥ ।
दलानि श्वेतवर्णात्रि समग्राणि प्रकल्पयेत् ।
पीतरूपां कर्णिकां च कृत्वा रक्तं च वृत्तकम्
dalāni śvetavarṇāni dalāṣṭakamihocyate || |
dalāni śvetavarṇātri samagrāṇi prakalpayet |
pītarūpāṃ karṇikāṃ ca kṛtvā raktaṃ ca vṛttakam
वनभिद्दलदक्षं तु समारभ्य सुरेश्वरि ।
रक्तकृष्णाः क्रमेणैव दलसन्धीन्विचित्रयेत्
vanabhiddaladakṣaṃ tu samārabhya sureśvari |
raktakṛṣṇāḥ krameṇaiva dalasandhīnvicitrayet
कर्णिकायां लिखेद्यंत्रं प्रणवार्थप्रकाशकम् ।
अधः पीठं समालिख्य श्रीकण्ठं च तदूर्ध्वतः
karṇikāyāṃ likhedyaṃtraṃ praṇavārthaprakāśakam |
adhaḥ pīṭhaṃ samālikhya śrīkaṇṭhaṃ ca tadūrdhvataḥ
तदुपर्य्यमरेशं च महाकालं च मध्यतः ।
तन्मस्तकस्थं दण्डं च तत ईश्वरमालिखेत्
taduparyyamareśaṃ ca mahākālaṃ ca madhyataḥ |
tanmastakasthaṃ daṇḍaṃ ca tata īśvaramālikhet
श्यामेन पीठं पीतेन श्रीकण्ठं च विचित्रयेत् ।
अमरेशं महाकालं रक्तं कृष्णं च तौ क्रमात्
śyāmena pīṭhaṃ pītena śrīkaṇṭhaṃ ca vicitrayet |
amareśaṃ mahākālaṃ raktaṃ kṛṣṇaṃ ca tau kramāt
कुर्यात्सुधूम्रं दण्डं च धवलं चेश्वरं बुधः ।
एवं यंत्रं समालिख्य रक्तं सद्येन वेष्टयेत्
kuryātsudhūmraṃ daṇḍaṃ ca dhavalaṃ ceśvaraṃ budhaḥ |
evaṃ yaṃtraṃ samālikhya raktaṃ sadyena veṣṭayet
तदुत्थेनैव नादेन विद्यादीशानमीश्वरि ।
तद्वासपंक्तीर्गृह्णीयादाग्नेयादिक्रमेण वै
tadutthenaiva nādena vidyādīśānamīśvari |
tadvāsapaṃktīrgṛhṇīyādāgneyādikrameṇa vai
कोष्ठानि कोणभागेषु चत्वार्येतानि सुन्दरि ।
शुक्लेनापूर्य्य वर्णादि चतुष्कं रक्तधातुभिः
koṣṭhāni koṇabhāgeṣu catvāryetāni sundari |
śuklenāpūryya varṇādi catuṣkaṃ raktadhātubhiḥ
आपूर्य्य तानि चत्वारि द्वाराणि परिकल्पयेत् ।
ततस्तत्पार्श्वयोर्द्वंद्वं पीतेनैव प्रपूरयेत्
āpūryya tāni catvāri dvārāṇi parikalpayet |
tatastatpārśvayordvaṃdvaṃ pītenaiva prapūrayet
आग्नेयकोष्ठमध्ये तु पीताभे चतुरस्रके ।
अष्टपत्रं लिखेत्पद्मं रक्ताभं पीतकर्णिकम्
āgneyakoṣṭhamadhye tu pītābhe caturasrake |
aṣṭapatraṃ likhetpadmaṃ raktābhaṃ pītakarṇikam
हकारं विलिखेन्मध्ये विन्दुयुक्तं समाहितः ।
पद्मस्य नैर्ऋते कोष्ठे चतुरस्रन्तदा लिखेत्
hakāraṃ vilikhenmadhye vinduyuktaṃ samāhitaḥ |
padmasya nairṛte koṣṭhe caturasrantadā likhet
पद्ममष्टदलं रक्तं पीतकिंजल्ककर्णिकम् ॥ ।
शवर्गस्य तृतीयन्तु षष्ठस्वरसमन्वितम्
padmamaṣṭadalaṃ raktaṃ pītakiṃjalkakarṇikam || |
śavargasya tṛtīyantu ṣaṣṭhasvarasamanvitam
चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् ।
एतद्बीजवरं भद्रे पद्ममध्ये समालिखेत्
caturdaśasvaropetaṃ bindunādavibhūṣitam |
etadbījavaraṃ bhadre padmamadhye samālikhet
पद्मस्येशानकोष्ठे तु तथा पद्मं समालिखेत् ।
कवर्गस्य तृतीयं तु पंचमस्वरसंयुतम्
padmasyeśānakoṣṭhe tu tathā padmaṃ samālikhet |
kavargasya tṛtīyaṃ tu paṃcamasvarasaṃyutam
विलिखेन्मध्यतस्तस्य बिन्दुकण्ठे स्वलंकृतम् ।
तद्बाह्यपंक्तित्रितये पूर्वादिपरितः क्रमात्
vilikhenmadhyatastasya bindukaṇṭhe svalaṃkṛtam |
tadbāhyapaṃktitritaye pūrvādiparitaḥ kramāt
कोष्ठानि पंच गृह्रीयाद्गिरिराजसुते शिवे ।
मध्ये तु कर्णिकां कुर्यात्पीतां रक्तं च वृत्तकम्
koṣṭhāni paṃca gṛhrīyādgirirājasute śive |
madhye tu karṇikāṃ kuryātpītāṃ raktaṃ ca vṛttakam
दलानि रक्तवर्णानि कल्पयेत्कल्पवित्तमः ।
दलबाह्ये तु कृष्णेन रंध्राणि परिपूरयेत्
dalāni raktavarṇāni kalpayetkalpavittamaḥ |
dalabāhye tu kṛṣṇena raṃdhrāṇi paripūrayet
आग्नेयादीनि चत्वारि शुक्लेनैव प्रपूरयेत् ।
पूर्वे षड्बिन्दुसहितं षट्कोणं कृष्णमालिखेत्
āgneyādīni catvāri śuklenaiva prapūrayet |
pūrve ṣaḍbindusahitaṃ ṣaṭkoṇaṃ kṛṣṇamālikhet
रक्तवर्णं दक्षिणतस्त्रिकोणं चोत्तरे ततः ।
श्वेताभमर्द्धचन्द्रं च पीतवर्णं च पश्चिमे
raktavarṇaṃ dakṣiṇatastrikoṇaṃ cottare tataḥ |
śvetābhamarddhacandraṃ ca pītavarṇaṃ ca paścime
चतुरस्रं क्रमात्तेषु लिखेद्बीजचतुष्टयम् ।
पूर्वे बिन्दुं समालिख्य शुभ्रं कृष्णं तु दक्षिणे
caturasraṃ kramātteṣu likhedbījacatuṣṭayam |
pūrve binduṃ samālikhya śubhraṃ kṛṣṇaṃ tu dakṣiṇe
उकारमुत्तरे रक्तं मकारं पश्चिमे ततः ।
अकारं पीतमेवं तु कृत्वा वर्णचतुष्टयम्
ukāramuttare raktaṃ makāraṃ paścime tataḥ |
akāraṃ pītamevaṃ tu kṛtvā varṇacatuṣṭayam
सर्वोर्द्ध्वपंक्त्यधः पंक्तौ समारभ्य च सुन्दरि ।
पीतं श्वेतं च रक्तं च कृष्णं चेति चतुष्टयम्
sarvorddhvapaṃktyadhaḥ paṃktau samārabhya ca sundari |
pītaṃ śvetaṃ ca raktaṃ ca kṛṣṇaṃ ceti catuṣṭayam
तदधो धवलं श्यामं पीतं रक्तं चतुष्टयम् ।
अधस्त्रिकोणके रक्तं शुक्लं पीतं वरानने
tadadho dhavalaṃ śyāmaṃ pītaṃ raktaṃ catuṣṭayam |
adhastrikoṇake raktaṃ śuklaṃ pītaṃ varānane
एवन्दक्षिणमारभ्य कुर्यात्सोमान्तमीश्वरि ।
तद्बाह्यपंक्तौ पूर्वादिमध्यमान्तं विचित्रयेत्
evandakṣiṇamārabhya kuryātsomāntamīśvari |
tadbāhyapaṃktau pūrvādimadhyamāntaṃ vicitrayet
पीतं रक्तं च कृष्णं च श्यामं श्वेतं च पीतकम् ।
आग्रेय्यादि समारभ्य रक्तं श्यामं सितं प्रिये
pītaṃ raktaṃ ca kṛṣṇaṃ ca śyāmaṃ śvetaṃ ca pītakam |
āgreyyādi samārabhya raktaṃ śyāmaṃ sitaṃ priye
रक्तं कृष्णं च रक्तं च षट्कमेव प्रकीर्तितम् ।
दक्षिणाद्यं महेशानि पूर्वावधि समीरितम्
raktaṃ kṛṣṇaṃ ca raktaṃ ca ṣaṭkameva prakīrtitam |
dakṣiṇādyaṃ maheśāni pūrvāvadhi samīritam
नैर्ऋताद्यन्तु विज्ञेयमाग्नेयावधि चेश्वरि ।
वारुणं तु समारभ्य दक्षिणावधि चेरितम
nairṛtādyantu vijñeyamāgneyāvadhi ceśvari |
vāruṇaṃ tu samārabhya dakṣiṇāvadhi ceritama
वायव्याद्यं महादेवि नैर्ऋतावधि चेरितम् ।
सोमार्थं परमेशानि वारुणावधि चेरितम्
vāyavyādyaṃ mahādevi nairṛtāvadhi ceritam |
somārthaṃ parameśāni vāruṇāvadhi ceritam
ईशानाद्यं तु विज्ञेयं वायव्यावधि चाम्बिके ।
इत्युक्तो मण्डलविधिर्मया तुभ्यं च पार्वति
īśānādyaṃ tu vijñeyaṃ vāyavyāvadhi cāmbike |
ityukto maṇḍalavidhirmayā tubhyaṃ ca pārvati
एवं मण्डलमालिख्य नियतात्मा यतिस्स्वतः ।
सौरपूजां प्रकुर्वीत स हि तद्वस्तुतत्परः
evaṃ maṇḍalamālikhya niyatātmā yatissvataḥ |
saurapūjāṃ prakurvīta sa hi tadvastutatparaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)