कैलास संहिता

अध्याय 22: यति के लिए ग्यारहवें दिन के कृत्य

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां यतीनामेकादशाहकृत्यवर्णनन्नाम द्वाविंशोऽध्यायः ॥

45 श्लोक · 22 में से 23

इस अध्याय में क्या होता है

यति के लिए ग्यारहवें दिन के कृत्य

ग्यारहवें दिन वेदी लीपकर पाँच छोटे मण्डल बनाए जाते हैं। उनमें पाँच आतिवाहिक देवताओं की कृपालु शक्तियों के रूप में पूजा होती है: लाल वस्त्रधारी और त्रिनेत्र। उन्हें वस्त्र, पुष्प, दीप और मधु मिली खीर अर्पित होते हैं, इस प्रार्थना के साथ: "हे माताओ, परमेश्वर के चरण चाहने वाले इस यति की रक्षा करो।" उनका प्रसाद कन्याओं को, गायों को या जल में दिया जाता है। फिर पार्वण श्राद्ध होता है, जिसमें विश्वेदेव, आत्मा, अन्तरात्मा और परमात्मा के निमित्त चार शिवभक्त ब्राह्मणों को भोजन कराकर पिण्ड दिए जाते हैं। अन्त में नारायणबलि: रक्षा के लिए विष्णु की महापूजा, जिसमें केशव आदि नामों से बारह ब्राह्मणों का सत्कार होता है।

सुब्रह्मण्य उवाच

22.1

एकादशेह्नि सम्प्राप्ते यो विधिस्समुदाहृतः ।
तं वक्ष्ये मुनिशार्दूल यतीनां स्नेहतस्तव

ekādaśehni samprāpte yo vidhissamudāhṛtaḥ |
taṃ vakṣye muniśārdūla yatīnāṃ snehatastava

22.2

सम्मार्ज्य वेदीमालिप्य कृत्वा पुण्याहवाचनम् ।
प्रोक्ष्य पश्चिममारभ्य पूर्वान्तम्पञ्च च क्रमात्

sammārjya vedīmālipya kṛtvā puṇyāhavācanam |
prokṣya paścimamārabhya pūrvāntampañca ca kramāt

22.3

मण्डलान्युत्तराशास्यः कुर्यात्स्वयमवस्थितः ।
प्रादेशमात्रं संकल्प्य चतुरस्रं च मध्यतः

maṇḍalānyuttarāśāsyaḥ kuryātsvayamavasthitaḥ |
prādeśamātraṃ saṃkalpya caturasraṃ ca madhyataḥ

22.4

बिन्दुत्रिकोणषट्कोणवृत्ताकाराणि च क्रमात् ।
शंखं च पुरतस्थाप्य पूजोक्तक्रममार्गतः

bindutrikoṇaṣaṭkoṇavṛttākārāṇi ca kramāt |
śaṃkhaṃ ca puratasthāpya pūjoktakramamārgataḥ

22.5

प्राणानायम्य संकल्प्य पूजयित्वा सुरेश्वरी ।
देवताः पञ्च पूर्वोक्ता अतिवाहिकरूपिणीः

prāṇānāyamya saṃkalpya pūjayitvā sureśvarī |
devatāḥ pañca pūrvoktā ativāhikarūpiṇīḥ

22.6

संत्यज्योत्तरतो दर्भान् यश्च संस्पृशते ततः ।
पश्चिमादि समारभ्य षडुत्थासनमार्गतः

saṃtyajyottarato darbhān yaśca saṃspṛśate tataḥ |
paścimādi samārabhya ṣaḍutthāsanamārgataḥ

22.7

मण्डलानि च तेष्वन्तः पुष्पाण्याधाय पीठवत् ।
ॐ ह्री मित्युक्त्वाग्निरूपान्तामतिवाहिकदेवताम्

maṇḍalāni ca teṣvantaḥ puṣpāṇyādhāya pīṭhavat |
oṃ hrī mityuktvāgnirūpāntāmativāhikadevatām

22.8

आवाहयामि नम इत्यन्तं सर्वत्र भावयेत् ।
दर्शयेत्स्थापनाद्यास्तु मुद्राः प्रत्येकमादरात्

āvāhayāmi nama ityantaṃ sarvatra bhāvayet |
darśayetsthāpanādyāstu mudrāḥ pratyekamādarāt

22.9

ह्रांह्रीमित्यादिना कुर्य्यादासामंगानि च क्रमात् ।
पाशांकुशाभयाभीष्टपाणिचन्द्रोपलप्रभाः

hrāṃhrīmityādinā kuryyādāsāmaṃgāni ca kramāt |
pāśāṃkuśābhayābhīṣṭapāṇicandropalaprabhāḥ

22.10

रक्तांगुलीयकच्छायरञ्जिताखिलदिङ्मुखा ।
रक्ताम्बरधराः कारपदपंकजशोभिताः

raktāṃgulīyakacchāyarañjitākhiladiṅmukhā |
raktāmbaradharāḥ kārapadapaṃkajaśobhitāḥ

22.11

त्रिनेत्रोल्लासिवदनपूर्णचन्द्रमनोहराः ।
माणिक्य मुकुटोद्भासिचन्द्रलेखावतंसिताः

trinetrollāsivadanapūrṇacandramanoharāḥ |
māṇikya mukuṭodbhāsicandralekhāvataṃsitāḥ

22.12

कुण्डलामृष्टगण्डाश्च पीनोन्नतपयोधराः ।
हारकेयूरकटककांचीदाममनोहराः

kuṇḍalāmṛṣṭagaṇḍāśca pīnonnatapayodharāḥ |
hārakeyūrakaṭakakāṃcīdāmamanoharāḥ

22.13

तनुमध्याः पृथुश्रोण्यो रक्तदिव्याम्बरावृताः ।
माणिक्यमयमंजीरसिंजत्पदसरोरुहाः ।
पादांगुलीयकश्रोणीर्मंजुलातिमनोहराः

tanumadhyāḥ pṛthuśroṇyo raktadivyāmbarāvṛtāḥ |
māṇikyamayamaṃjīrasiṃjatpadasaroruhāḥ |
pādāṃgulīyakaśroṇīrmaṃjulātimanoharāḥ

22.14

अनुग्रहेण मूर्तेन शिववत्किं नु साध्यते ।
तस्माच्छक्त्यात्ममूर्तेन सर्वं साध्यं महेशवत्

anugraheṇa mūrtena śivavatkiṃ nu sādhyate |
tasmācchaktyātmamūrtena sarvaṃ sādhyaṃ maheśavat

22.15

सर्वानुग्रहकर्त्रैव स्वीकृताः पंचमूर्तय ।
सर्वकार्य्यकरा दिव्याः परानुग्रहतत्पराः

sarvānugrahakartraiva svīkṛtāḥ paṃcamūrtaya |
sarvakāryyakarā divyāḥ parānugrahatatparāḥ

22.16

एवं ध्यात्वा तु ताः सर्वा अनुग्रहपराश्शिवाः ।
पादयोः पाद्यमेतासां दद्याच्छंखोदबिन्दुभिः

evaṃ dhyātvā tu tāḥ sarvā anugrahaparāśśivāḥ |
pādayoḥ pādyametāsāṃ dadyācchaṃkhodabindubhiḥ

22.17

हस्तेष्वाचमनीयं च मौलिष्वर्घ्यं प्रदापयेत् ।
शंखोद बिन्दुभिस्तासां स्नानकर्म च भावयेत्

hasteṣvācamanīyaṃ ca mauliṣvarghyaṃ pradāpayet |
śaṃkhoda bindubhistāsāṃ snānakarma ca bhāvayet

22.18

रक्ताम्बराणि दिव्यानि सोत्तरीयाणि दापयेत् ।
मुकुटादीन्यनर्घ्याणि दद्यादाभरणानि च

raktāmbarāṇi divyāni sottarīyāṇi dāpayet |
mukuṭādīnyanarghyāṇi dadyādābharaṇāni ca

22.19

सुवासितं च श्रीखण्डमक्षतांश्चातिशोभनान् ।
सुरभीणि मनोज्ञानि कुसुमानि च दापयेत्

suvāsitaṃ ca śrīkhaṇḍamakṣatāṃścātiśobhanān |
surabhīṇi manojñāni kusumāni ca dāpayet

22.20

धूपं च परमामोदं साज्यवर्ति च दीपकम् ।
सर्वं समर्पयामीति प्रणवं ह्रीमुपक्रमात्

dhūpaṃ ca paramāmodaṃ sājyavarti ca dīpakam |
sarvaṃ samarpayāmīti praṇavaṃ hrīmupakramāt

22.21

नमोऽन्तंचततोदद्यात्पायस्तमधुनाप्लुतम् ।
साज्यशर्करयापूपकदलीगुडपूरितम्

namo'ntaṃcatatodadyātpāyastamadhunāplutam |
sājyaśarkarayāpūpakadalīguḍapūritam

22.22

प्रत्येकं कदलीपत्रे भरितं च सुवासितम् ।
भूर्भुवस्स्वरिति प्रोच्य प्रोक्ष्णादीनि कारयेत

pratyekaṃ kadalīpatre bharitaṃ ca suvāsitam |
bhūrbhuvassvariti procya prokṣṇādīni kārayeta

22.23

ॐ ह्रीमिति समुच्चार्य्य नैवेद्यं वह्निजायया ।
पानीयं नम इत्युक्त्वा परम्प्रेम्णा समर्पयेत्

oṃ hrīmiti samuccāryya naivedyaṃ vahnijāyayā |
pānīyaṃ nama ityuktvā parampremṇā samarpayet

22.24

तत उद्वासयेत्प्रीत्या पूर्वतो मुनिसत्तम ।
स्थलं विशोध्य गंडूषाचमनार्घ्याणि दापयेत्

tata udvāsayetprītyā pūrvato munisattama |
sthalaṃ viśodhya gaṃḍūṣācamanārghyāṇi dāpayet

22.25

तांबूलं धूप दीपौ च प्रदक्षिणनमस्कृती ।
विधाय प्रार्थयेदेताश्शिरस्यंजलिमादधत्

tāṃbūlaṃ dhūpa dīpau ca pradakṣiṇanamaskṛtī |
vidhāya prārthayedetāśśirasyaṃjalimādadhat

22.26

श्रीमातरस्सुप्रसन्ना यतिं शिवपदैषिणम् ।
रक्षणीय म्प्रब्रुवन्तु परमेशपदाब्जयोः

śrīmātarassuprasannā yatiṃ śivapadaiṣiṇam |
rakṣaṇīya mprabruvantu parameśapadābjayoḥ

22.27

इति संप्रार्थ्य तास्सर्वा विसृज्य च यथागतम् ।
तासाम्प्रसादमुद्धृत्य कन्यकाभ्यः प्रदापयेत

iti saṃprārthya tāssarvā visṛjya ca yathāgatam |
tāsāmprasādamuddhṛtya kanyakābhyaḥ pradāpayeta

22.28

गोभ्यो वा जलमध्ये वा निक्षिपेन्नान्यथा क्वचित् ।
अत्रैव पार्वणं कुर्य्यान्नैकोद्दिष्टं यतेः क्वचित्

gobhyo vā jalamadhye vā nikṣipennānyathā kvacit |
atraiva pārvaṇaṃ kuryyānnaikoddiṣṭaṃ yateḥ kvacit

22.29

अत्रायं पार्वणश्राद्धे नियमः प्रोच्यते मया ।
तं शृणुष्व मुनिश्रेष्ठ येन श्रेयो भवेत्ततः

atrāyaṃ pārvaṇaśrāddhe niyamaḥ procyate mayā |
taṃ śṛṇuṣva muniśreṣṭha yena śreyo bhavettataḥ

22.30

कर्ता स्नात्वा धृतप्राण उपवीती समाहितः ।
सपवित्रकरस्त्वस्यां पुण्यतिथ्यामिति ब्रुवन्

kartā snātvā dhṛtaprāṇa upavītī samāhitaḥ |
sapavitrakarastvasyāṃ puṇyatithyāmiti bruvan

22.31

करिष्ये पार्वणं श्राद्धमिति संकल्प्य चोत्तरे ।
दद्याद्दर्भानुत्तमांश्च ह्यासनार्थं जलं स्पृशेत्

kariṣye pārvaṇaṃ śrāddhamiti saṃkalpya cottare |
dadyāddarbhānuttamāṃśca hyāsanārthaṃ jalaṃ spṛśet

22.32

तत्रोपवेशयेद्भक्त्या साभ्यंगं कृतमज्जनान् ।
आहूय चतुरो विप्राञ्छिवभक्तान्दृढव्रतान्

tatropaveśayedbhaktyā sābhyaṃgaṃ kṛtamajjanān |
āhūya caturo viprāñchivabhaktāndṛḍhavratān

22.33

विश्वेदेवार्थं भवता प्रसादः क्रियतामिति ।
आत्मने भवता पश्चादन्तरात्मन इत्यपि

viśvedevārthaṃ bhavatā prasādaḥ kriyatāmiti |
ātmane bhavatā paścādantarātmana ityapi

22.34

परमात्मन इत्येवं प्रोच्य प्रार्थ्यं च तान्यतिः ।
श्रद्धया चरणन्तेषां कुर्य्याद्याथार्थ्यमादरात्

paramātmana ityevaṃ procya prārthyaṃ ca tānyatiḥ |
śraddhayā caraṇanteṣāṃ kuryyādyāthārthyamādarāt

22.35

पादौ प्रक्षाल्य तेषान्तु प्राङ्मुखानुपवेश्य च ।
गन्धादिभिरलंकृत्य भोजयेच्च शिवा ग्रतः

pādau prakṣālya teṣāntu prāṅmukhānupaveśya ca |
gandhādibhiralaṃkṛtya bhojayecca śivā grataḥ

22.36

गोमयेनोपलिप्यात्र दर्भान्प्रागग्रकल्पितान् ।
आस्तीर्य्य संयतप्राणः पिण्डानां च प्रदानकम्

gomayenopalipyātra darbhānprāgagrakalpitān |
āstīryya saṃyataprāṇaḥ piṇḍānāṃ ca pradānakam

22.37

करिष्य इति संकल्प्य मण्डलत्रयमर्च्य च ।
आत्मानमन्तरात्मानं परमात्मनमप्यतः

kariṣya iti saṃkalpya maṇḍalatrayamarcya ca |
ātmānamantarātmānaṃ paramātmanamapyataḥ

22.38

चतुर्थ्यन्तं वदन्पश्चादिमं पिण्डमितीरयन् ।
ददामीति च सम्प्रोच्य दद्यात्पिण्डान्स्वभक्तितः

caturthyantaṃ vadanpaścādimaṃ piṇḍamitīrayan |
dadāmīti ca samprocya dadyātpiṇḍānsvabhaktitaḥ

22.39

कुशोदकं ततो दद्याद्यथाविधिविधानतः ।
तत उत्थाप्य वै कुर्य्यात्प्रदक्षिणनमस्कृती

kuśodakaṃ tato dadyādyathāvidhividhānataḥ |
tata utthāpya vai kuryyātpradakṣiṇanamaskṛtī

22.40

ततो दत्त्वा ब्राह्मणेभ्यो दक्षिणां च यथाविधि ।
नारायणबलिं कुर्य्यात्तस्मिन्नेव स्थले दिने

tato dattvā brāhmaṇebhyo dakṣiṇāṃ ca yathāvidhi |
nārāyaṇabaliṃ kuryyāttasminneva sthale dine

22.41

रक्षार्थमेव सर्वत्र विष्णोः पूजाविधिः स्मृतः ।
कुर्य्याद्विष्णोर्महापूजां पायसान्नं निवेदयेत्

rakṣārthameva sarvatra viṣṇoḥ pūjāvidhiḥ smṛtaḥ |
kuryyādviṣṇormahāpūjāṃ pāyasānnaṃ nivedayet

22.42

द्वादशाथ समाहूय ब्राह्मणान्वेदपारगान् ।
केशवादिभिरभ्यर्च्य गन्धपुष्पाक्षतादिभिः

dvādaśātha samāhūya brāhmaṇānvedapāragān |
keśavādibhirabhyarcya gandhapuṣpākṣatādibhiḥ

22.43

उपानच्छत्रवस्त्रादि दत्त्वा तेभ्यो यथाविधि ।
सन्तोषयेन्महाभक्त्या विविधैर्वच नैश्शुभैः

upānacchatravastrādi dattvā tebhyo yathāvidhi |
santoṣayenmahābhaktyā vividhairvaca naiśśubhaiḥ

22.44

आस्तीर्य्य दर्भान्पूर्वाग्रान्भूस्स्वाहा च भुवस्सुवः ।
प्रणवादि प्रोच्य भूमौ पायसान्नं बलिं हरेत्

āstīryya darbhānpūrvāgrānbhūssvāhā ca bhuvassuvaḥ |
praṇavādi procya bhūmau pāyasānnaṃ baliṃ haret

22.45

एकादशाह सुविधिर्मया प्रोक्तो मुनीश्वर ।
द्वादशाहविधिं वक्ष्ये शृणुष्वादरतो द्विज

ekādaśāha suvidhirmayā prokto munīśvara |
dvādaśāhavidhiṃ vakṣye śṛṇuṣvādarato dvija

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)