युद्धकाण्ड

सर्ग 91: विजयी लक्ष्मण का श्रीराम द्वारा आलिंगन

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकनवतितमः सर्गः ॥ ९१ ॥

29 श्लोक · 91 में से 128

इस अध्याय में क्या होता है

विजयी लक्ष्मण का श्रीराम द्वारा आलिंगन

रक्त से भीगे शरीर वाले लक्ष्मण इंद्र-विजेता के वध से प्रसन्न हैं। वे विभीषण और हनुमान का सहारा लिए शीघ्र श्रीराम और सुग्रीव के पास आकर प्रणाम करते हैं। विभीषण बताते हैं कि लक्ष्मण ने इंद्रजित का सिर काट दिया है। श्रीराम अत्यंत हर्षित होते हैं। वे लक्ष्मण को गोद में बैठाकर गले लगाते हैं, उनका सिर सूँघते हैं और बार-बार सहलाते हैं। तुमने अनुपम कार्य किया है, वे कहते हैं; पुत्र के जाने से रावण मरे समान है। पुत्रशोक में जब वह बाहर आएगा, मैं उसे मारूँगा। फिर श्रीराम सुषेण से कहते हैं कि लक्ष्मण और सब घायल वानरों को स्वस्थ करो। सुषेण लक्ष्मण को एक महौषधि सुँघाते हैं, जिसकी गंध से उनके घाव भर जाते हैं और पीड़ा मिट जाती है।

91.1

रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः ।
बभूव हृष्टस्तं हत्वा शत्रुजेतारमाहवे

rudhiraklinnagātrastu lakṣmaṇaḥ śubhalakṣaṇaḥ |
babhūva hṛṣṭastaṃ hatvā śatrujetāramāhave

91.2

ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान् ।
संनिपत्य महातेजास्तांश्च सर्वान् वनौकसः

tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān |
saṃnipatya mahātejāstāṃśca sarvān vanaukasaḥ

91.3

आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ ।
विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः

ājagāma tataḥ śīghraṃ yatra sugrīvarāghavau |
vibhīṣaṇamavaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ

91.4

ततो राममभिक्रम्य सौमित्रिरभिवाद्य च ।
तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा

tato rāmamabhikramya saumitrirabhivādya ca |
tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā

91.5

निष्टनन्निव चागत्य राघवाय महात्मने ।
आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम्

niṣṭananniva cāgatya rāghavāya mahātmane |
ācacakṣe tadā vīro ghoramindrajito vadham

91.6

रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना ।
न्यवेदयत रामाय तदा हृष्टो विभीषणः

rāvaṇestu śiraśchinnaṃ lakṣmaṇena mahātmanā |
nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ

91.7

श्रुत्वैव तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम् ।
प्रहर्षमतुलं लेभे वाक्यं चेदमुवाच ह

śrutvaiva tu mahāvīryo lakṣmaṇenendrajidvadham |
praharṣamatulaṃ lebhe vākyaṃ cedamuvāca ha

91.8

साधु लक्ष्मण तुष्टोऽस्मि कर्म चासुकरं कृतम् ।
रावणेर्हि विनाशेन जितमित्युपधारय

sādhu lakṣmaṇa tuṣṭo'smi karma cāsukaraṃ kṛtam |
rāvaṇerhi vināśena jitamityupadhāraya

91.9

स तं शिरस्युपाघ्राय लक्ष्मणं कीर्तिवर्धनम् ।
लज्जमानं बलात् स्नेहादङ्कमारोप्य वीर्यवान्

sa taṃ śirasyupāghrāya lakṣmaṇaṃ kīrtivardhanam |
lajjamānaṃ balāt snehādaṅkamāropya vīryavān

91.10

उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम् ।
भ्रातरं लक्ष्मणं स्निग्धं पुनः पुनरुदैक्षत

upaveśya tamutsaṅge pariṣvajyāvapīḍitam |
bhrātaraṃ lakṣmaṇaṃ snigdhaṃ punaḥ punarudaikṣata

91.11

शल्यसम्पीडितं शस्तं निःश्वसन्तं तु लक्ष्मणम् ।
रामस्तु दुःखसंतप्तं तं तु निःश्वासपीडितम्

śalyasampīḍitaṃ śastaṃ niḥśvasantaṃ tu lakṣmaṇam |
rāmastu duḥkhasaṃtaptaṃ taṃ tu niḥśvāsapīḍitam

91.12

मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन् ।
उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः

mūrdhni cainamupāghrāya bhūyaḥ saṃspṛśya ca tvaran |
uvāca lakṣmaṇaṃ vākyamāśvāsya puruṣarṣabhaḥ

91.13

कृतं परमकल्याणं कर्म दुष्करकर्मणा ।
अद्य मन्ये हते पुत्रे रावणं निहतं युधि

kṛtaṃ paramakalyāṇaṃ karma duṣkarakarmaṇā |
adya manye hate putre rāvaṇaṃ nihataṃ yudhi

91.14

अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि ।
रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे

adyāhaṃ vijayī śatrau hate tasmin durātmani |
rāvaṇasya nṛśaṃsasya diṣṭyā vīra tvayā raṇe

91.15

छिन्नो हि दक्षिणो बाहुः स हि तस्य व्यपाश्रयः ।
विभीषणहनूमद्भ्यां कृतं कर्म महद् रणे

chinno hi dakṣiṇo bāhuḥ sa hi tasya vyapāśrayaḥ |
vibhīṣaṇahanūmadbhyāṃ kṛtaṃ karma mahad raṇe

91.16

अहोरात्रैस्त्रिभिर्वीरः कथंचिद् विनिपातितः ।
निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः

ahorātraistribhirvīraḥ kathaṃcid vinipātitaḥ |
niramitraḥ kṛto'smyadya niryāsyati hi rāvaṇaḥ

91.17

बलव्यूहेन महता निर्यास्यति हि रावणः ।
बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम्

balavyūhena mahatā niryāsyati hi rāvaṇaḥ |
balavyūhena mahatā śrutvā putraṃ nipātitam

91.18

तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम् ।
बलेनावृत्य महता निहनिष्यामि दुर्जयम्

taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam |
balenāvṛtya mahatā nihaniṣyāmi durjayam

91.19

त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे ।
न दुष्प्रापा हते तस्मिन् शक्रजेतरि चाहवे

tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me |
na duṣprāpā hate tasmin śakrajetari cāhave

91.20

स तं भ्रातरमाश्वास्य परिष्वज्य च राघवः ।
रामः सुषेणं मुदितः समाभाष्येदमब्रवीत्

sa taṃ bhrātaramāśvāsya pariṣvajya ca rāghavaḥ |
rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedamabravīt

91.21

विशल्योऽयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः ।
यथा भवति सुस्वस्थस्तथा त्वं समुपाचर

viśalyo'yaṃ mahāprājña saumitrirmitravatsalaḥ |
yathā bhavati susvasthastathā tvaṃ samupācara

91.22

विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः ।
ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम्

viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ |
ṛkṣavānarasainyānāṃ śūrāṇāṃ drumayodhinām

91.23

ये चाप्यन्येऽत्र युध्यन्ति सशल्या व्रणिनस्तथा ।
तेऽपि सर्वे प्रयत्नेन क्रियन्ते सुखिनस्त्वया

ye cāpyanye'tra yudhyanti saśalyā vraṇinastathā |
te'pi sarve prayatnena kriyante sukhinastvayā

91.24

एवमुक्तः स रामेण महात्मा हरियूथपः ।
लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम्

evamuktaḥ sa rāmeṇa mahātmā hariyūthapaḥ |
lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham

91.25

स तस्य गन्धमाघ्राय विशल्यः समपद्यत ।
तदा निर्वेदनश्चैव संरूढव्रण एव च

sa tasya gandhamāghrāya viśalyaḥ samapadyata |
tadā nirvedanaścaiva saṃrūḍhavraṇa eva ca

91.26

विभीषणमुखानां च सुहृदां राघवाज्ञया ।
सर्ववानरमुख्यानां चिकित्सामकरोत् तदा

vibhīṣaṇamukhānāṃ ca suhṛdāṃ rāghavājñayā |
sarvavānaramukhyānāṃ cikitsāmakarot tadā

91.27

ततः प्रकृतिमापन्नो हृतशल्यो गतक्लमः ।
सौमित्रिर्मुमुदे तत्र क्षणेन विगतज्वरः

tataḥ prakṛtimāpanno hṛtaśalyo gataklamaḥ |
saumitrirmumude tatra kṣaṇena vigatajvaraḥ

91.28

तदैव रामः प्लवगाधिपस्तथा
विभीषणश्चर्क्षपतिश्च वीर्यवान् ।
अवेक्ष्य सौमित्रिमरोगमुत्थितं
मुदा ससैन्याः सुचिरं जहर्षिरे

tadaiva rāmaḥ plavagādhipastathā
vibhīṣaṇaścarkṣapatiśca vīryavān |
avekṣya saumitrimarogamutthitaṃ
mudā sasainyāḥ suciraṃ jaharṣire

91.29

अपूजयत् कर्म स लक्ष्मणस्य
सुदुष्करं दाशरथिर्महात्मा ।
बभूव हृष्टो युधि वानरेन्द्रो
निशम्य तं शक्रजितं निपातितम्

apūjayat karma sa lakṣmaṇasya
suduṣkaraṃ dāśarathirmahātmā |
babhūva hṛṣṭo yudhi vānarendro
niśamya taṃ śakrajitaṃ nipātitam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)