तं तु शोकपरिद्यूनं रामं दशरथात्मजम् ।
उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम्
taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam |
uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वितीयः सर्गः ॥६-२॥
24 श्लोक · 2 में से 128
श्रीराम को शोक में डूबा देखकर सुग्रीव उन्हें उत्साहित करते हैं। वे कहते हैं, आप जैसे बुद्धिमान और शास्त्रज्ञ पुरुष को साधारण मनुष्य की भाँति शोक नहीं करना चाहिए। सीता का पता मिल गया है, शत्रु का निवास जान लिया गया है, और शोक तो कार्य को ही बिगाड़ता है। वानर वीर हैं और आपके लिए अग्नि में भी कूदने को तैयार हैं। सुग्रीव कहते हैं कि वरुणालय पर सेतु बाँधे बिना इंद्र सहित देवता भी लंका को नहीं जीत सकते, इसलिए सेतु बने और सेना पार हो जाए तो विजय निश्चित समझिए। धनुष हाथ में लिए राम के सामने तीनों लोकों में कोई टिक नहीं सकता। अंत में वे कहते हैं कि उन्हें शुभ शकुन दिख रहे हैं और उनका मन प्रसन्न है।
तं तु शोकपरिद्यूनं रामं दशरथात्मजम् ।
उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम्
taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam |
uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam
किं त्वया तप्यते वीर यथान्यः प्राकृतस्तथा ।
मैवं भूस्त्यज संतापं कृतघ्न इव सौहृदम्
kiṃ tvayā tapyate vīra yathānyaḥ prākṛtastathā |
maivaṃ bhūstyaja saṃtāpaṃ kṛtaghna iva sauhṛdam
संतापस्य च ते स्थानं नहि पश्यामि राघव ।
प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः
saṃtāpasya ca te sthānaṃ nahi paśyāmi rāghava |
pravṛttāvupalabdhāyāṃ jñāte ca nilaye ripoḥ
मतिमान् शास्त्रवित् प्राज्ञः पण्डितश्चासि राघव ।
त्यजेमां प्राकृतां बुद्धिं कृतात्मेवार्थदूषिणीम्
matimān śāstravit prājñaḥ paṇḍitaścāsi rāghava |
tyajemāṃ prākṛtāṃ buddhiṃ kṛtātmevārthadūṣiṇīm
समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम् ।
लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम्
samudraṃ laṅghayitvā tu mahānakrasamākulam |
laṅkāmārohayiṣyāmo haniṣyāmaśca te ripum
निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ।
सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति
nirutsāhasya dīnasya śokaparyākulātmanaḥ |
sarvārthā vyavasīdanti vyasanaṃ cādhigacchati
इमे शूराः समर्थाश्च सर्वतो हरियूथपाः ।
त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम् ।
एषां हर्षेण जानामि तर्कश्चापि दृढो मम
ime śūrāḥ samarthāśca sarvato hariyūthapāḥ |
tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭumapi pāvakam |
eṣāṃ harṣeṇa jānāmi tarkaścāpi dṛḍho mama
विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम् ।
रावणं पापकर्माणं तथा त्वं कर्तुमर्हसि
vikrameṇa samāneṣye sītāṃ hatvā yathā ripum |
rāvaṇaṃ pāpakarmāṇaṃ tathā tvaṃ kartumarhasi
सेतुरत्र यथा बद्ध्येद् यथा पश्येम तां पुरीम् ।
तस्य राक्षसराजस्य तथा त्वं कुरु राघव
seturatra yathā baddhyed yathā paśyema tāṃ purīm |
tasya rākṣasarājasya tathā tvaṃ kuru rāghava
दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम् ।
हतं च रावणं युद्धे दर्शनादवधारय
dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām |
hataṃ ca rāvaṇaṃ yuddhe darśanādavadhāraya
अबद्ध्वा सागरे सेतुं घोरे च वरुणालये ।
लङ्कां न मर्दितुं शक्या सेन्द्रैरपि सुरासुरैः
abaddhvā sāgare setuṃ ghore ca varuṇālaye |
laṅkāṃ na mardituṃ śakyā sendrairapi surāsuraiḥ
सेतुबन्धः समुद्रे च यावल्लङ्कासमीपतः ।
सर्वं तीर्णं च मे सैन्यं जितमित्युपधारय ।
इमे हि समरे वीरा हरयः कामरूपिणः
setubandhaḥ samudre ca yāvallaṅkāsamīpataḥ |
sarvaṃ tīrṇaṃ ca me sainyaṃ jitamityupadhāraya |
ime hi samare vīrā harayaḥ kāmarūpiṇaḥ
तदलं विक्लवां बुद्धिं राजन् सर्वार्थनाशिनीम् ।
पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः
tadalaṃ viklavāṃ buddhiṃ rājan sarvārthanāśinīm |
puruṣasya hi loke'smin śokaḥ śauryāpakarṣaṇaḥ
यत् तु कार्यं मनुष्येण शौटीर्यमवलम्ब्यताम् ।
तदलंकरणायैव कर्तुर्भवति सत्वरम्
yat tu kāryaṃ manuṣyeṇa śauṭīryamavalambyatām |
tadalaṃkaraṇāyaiva karturbhavati satvaram
अस्मिन् काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा ।
शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम् ।
विनष्टे वा प्रणष्टे वा शोकः सर्वार्थनाशनः
asmin kāle mahāprājña sattvamātiṣṭha tejasā |
śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām |
vinaṣṭe vā praṇaṣṭe vā śokaḥ sarvārthanāśanaḥ
तत्त्वं बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः ।
मद्विधैः सचिवैः सार्धमरिं जेतुं समर्हसि
tattvaṃ buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ |
madvidhaiḥ sacivaiḥ sārdhamariṃ jetuṃ samarhasi
नहि पश्याम्यहं कंचित् त्रिषु लोकेषु राघव ।
गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे
nahi paśyāmyahaṃ kaṃcit triṣu lokeṣu rāghava |
gṛhītadhanuṣo yaste tiṣṭhedabhimukho raṇe
वानरेषु समासक्तं न ते कार्यं विपत्स्यते ।
अचिराद् द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम्
vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate |
acirād drakṣyase sītāṃ tīrtvā sāgaramakṣayam
तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते ।
निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति
tadalaṃ śokamālambya krodhamālamba bhūpate |
niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati
लङ्घनार्थं च घोरस्य समुद्रस्य नदीपतेः ।
सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय
laṅghanārthaṃ ca ghorasya samudrasya nadīpateḥ |
sahāsmābhirihopetaḥ sūkṣmabuddhirvicāraya
लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ।
सर्वं तीर्णं च मे सैन्यं जितमित्यवधार्यताम्
laṅghite tatra taiḥ sainyairjitamityeva niścinu |
sarvaṃ tīrṇaṃ ca me sainyaṃ jitamityavadhāryatām
इमे हि हरयः शूराः समरे कामरूपिणः ।
तानरीन् विधमिष्यन्ति शिलापादपवृष्टिभिः
ime hi harayaḥ śūrāḥ samare kāmarūpiṇaḥ |
tānarīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ
कथंचित् परिपश्यामि लङ्घितं वरुणालयम् ।
हतमित्येव तं मन्ये युद्धे शत्रुनिबर्हण
kathaṃcit paripaśyāmi laṅghitaṃ varuṇālayam |
hatamityeva taṃ manye yuddhe śatrunibarhaṇa
किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान् ।
निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति
kimuktvā bahudhā cāpi sarvathā vijayī bhavān |
nimittāni ca paśyāmi mano me samprahṛṣyati
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)