युद्धकाण्ड

सर्ग 124: भरद्वाज आश्रम में श्रीराम

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशत्यधिकशततमः सर्गः ॥ १२४ ॥

23 श्लोक · 124 में से 128

इस अध्याय में क्या होता है

भरद्वाज आश्रम में श्रीराम

चौदह वर्ष पूरे होने पर पंचमी के दिन श्रीराम भरद्वाज आश्रम पहुँचकर मुनि को प्रणाम करते हैं। वे पूछते हैं, क्या अयोध्या में सुभिक्ष और आरोग्य है, क्या भरत दृढ़ हैं, क्या मेरी माताएँ जीवित हैं? भरद्वाज मुस्कराते हैं: भरत जटा धारण किए तुम्हारी पादुकाओं को आगे रखकर तुम्हारी प्रतीक्षा कर रहे हैं, और घर में सब कुशल है। तप से वे सब घटनाएँ जानते हैं। वे भी एक वर देते हैं और कहते हैं कि आज रात रुककर कल अयोध्या जाना। श्रीराम माँगते हैं कि अयोध्या के मार्ग के सब वृक्ष बिना ऋतु के फल दें और मधु बहाएँ। उसी क्षण वृक्ष फलने लगते हैं और वानर आनंद से भोजन करते हैं।

124.1

पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः ।
भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम्

pūrṇe caturdaśe varṣe pañcamyāṃ lakṣmaṇāgrajaḥ |
bharadvājāśramaṃ prāpya vavande niyato munim

124.2

सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् ।
शृणोषि कच्चिद् भगवन् सुभिक्षानामयं पुरे ।
कच्चित् स युक्तो भरतो जीवन्त्यपि च मातरः

so'pṛcchadabhivādyainaṃ bharadvājaṃ tapodhanam |
śṛṇoṣi kaccid bhagavan subhikṣānāmayaṃ pure |
kaccit sa yukto bharato jīvantyapi ca mātaraḥ

124.3

एवमुक्तस्तु रामेण भरद्वाजो महामुनिः ।
प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत्

evamuktastu rāmeṇa bharadvājo mahāmuniḥ |
pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat

124.4

आज्ञावशत्वे भरतो जटिलस्त्वां प्रतीक्षते ।
पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे

ājñāvaśatve bharato jaṭilastvāṃ pratīkṣate |
pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe

124.5

त्वां पुरा चीरवसनं प्रविशन्तं महावनम् ।
स्त्रीतृतीयं च्युतं राज्याद् धर्मकामं च केवलम्

tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam |
strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam

124.6

पदातिं त्यक्तसर्वस्वं पितृनिर्देशकारिणम् ।
सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम्

padātiṃ tyaktasarvasvaṃ pitṛnirdeśakāriṇam |
sarvabhogaiḥ parityaktaṃ svargacyutamivāmaram

124.7

दृष्ट्वा तु करुणापूर्वं ममासीत् समितिंजय ।
कैकेयीवचने युक्तं वन्यमूलफलाशिनम्

dṛṣṭvā tu karuṇāpūrvaṃ mamāsīt samitiṃjaya |
kaikeyīvacane yuktaṃ vanyamūlaphalāśinam

124.8

साम्प्रतं तु समृद्धार्थं समित्रगणबान्धवम् ।
समीक्ष्य विजितारिं च ममाभूत् प्रीतिरुत्तमा

sāmprataṃ tu samṛddhārthaṃ samitragaṇabāndhavam |
samīkṣya vijitāriṃ ca mamābhūt prītiruttamā

124.9

सर्वं च सुखदुःखं ते विदितं मम राघव ।
यत् त्वया विपुलं प्राप्तं जनस्थाननिवासिना

sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava |
yat tvayā vipulaṃ prāptaṃ janasthānanivāsinā

124.10

ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान् ।
रावणेन हृता भार्या बभूवेयमनिन्दिता

brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān |
rāvaṇena hṛtā bhāryā babhūveyamaninditā

124.11

मारीचदर्शनं चैव सीतोन्मथनमेव च ।
कबन्धदर्शनं चैव पम्पाभिगमनं तथा

mārīcadarśanaṃ caiva sītonmathanameva ca |
kabandhadarśanaṃ caiva pampābhigamanaṃ tathā

124.12

सुग्रीवेण च ते सख्यं यत्र वाली हतस्त्वया ।
मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च

sugrīveṇa ca te sakhyaṃ yatra vālī hatastvayā |
mārgaṇaṃ caiva vaidehyāḥ karma vātātmajasya ca

124.13

विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ।
यथा चादीपिता लङ्का प्रहृष्टैर्हरियूथपैः

viditāyāṃ ca vaidehyāṃ nalaseturyathā kṛtaḥ |
yathā cādīpitā laṅkā prahṛṣṭairhariyūthapaiḥ

124.14

सपुत्रबान्धवामात्यः सबलः सहवाहनः ।
यथा च निहतः संख्ये रावणो बलदर्पितः

saputrabāndhavāmātyaḥ sabalaḥ sahavāhanaḥ |
yathā ca nihataḥ saṃkhye rāvaṇo baladarpitaḥ

124.15

यथा च निहते तस्मिन् रावणे देवकण्टके ।
समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः

yathā ca nihate tasmin rāvaṇe devakaṇṭake |
samāgamaśca tridaśairyathā dattaśca te varaḥ

124.16

सर्वं ममैतद् विदितं तपसा धर्मवत्सल ।
सम्पतन्ति च मे शिष्याः प्रवृत्त्याख्याः पुरीमितः

sarvaṃ mamaitad viditaṃ tapasā dharmavatsala |
sampatanti ca me śiṣyāḥ pravṛttyākhyāḥ purīmitaḥ

124.17

अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर ।
अर्घ्यं प्रतिगृहाणेदमयोध्यां श्वो गमिष्यसि

ahamapyatra te dadmi varaṃ śastrabhṛtāṃ vara |
arghyaṃ pratigṛhāṇedamayodhyāṃ śvo gamiṣyasi

124.18

तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः ।
बाढमित्येव संहृष्टः श्रीमान् वरमयाचत

tasya tacchirasā vākyaṃ pratigṛhya nṛpātmajaḥ |
bāḍhamityeva saṃhṛṣṭaḥ śrīmān varamayācata

124.19

अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः ।
फलान्यमृतगन्धीनि बहूनि विविधानि च

akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ |
phalānyamṛtagandhīni bahūni vividhāni ca

124.20

भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः ।
तथेति च प्रतिज्ञाते वचनात् समनन्तरम्

bhavantu mārge bhagavannayodhyāṃ prati gacchataḥ |
tatheti ca pratijñāte vacanāt samanantaram

124.21

अभवन् पादपास्तत्र स्वर्गपादपसंनिभाः ।
निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः

abhavan pādapāstatra svargapādapasaṃnibhāḥ |
niṣphalāḥ phalinaścāsan vipuṣpāḥ puṣpaśālinaḥ

124.22

शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः ।
सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा

śuṣkāḥ samagrapatrāste nagāścaiva madhusravāḥ |
sarvato yojanāstisro gacchatāmabhavaṃstadā

124.23

ततः प्रहृष्टाः प्लवगर्षभास्ते
बहूनि दिव्यानि फलानि चैव ।
कामादुपाश्नन्ति सहस्रशस्ते
मुदान्विताः स्वर्गजितो यथैव

tataḥ prahṛṣṭāḥ plavagarṣabhāste
bahūni divyāni phalāni caiva |
kāmādupāśnanti sahasraśaste
mudānvitāḥ svargajito yathaiva

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)