युद्धकाण्ड

सर्ग 112: विभीषण का अभिषेक, हनुमान सीता के पास

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशाधिकशततमः सर्गः ॥ ११२ ॥

26 श्लोक · 112 में से 128

इस अध्याय में क्या होता है

विभीषण का अभिषेक, हनुमान सीता के पास

रावण के पतन, श्रीराम के पराक्रम, वानरों के वीर युद्ध, सुग्रीव की मंत्रणा तथा सीता के पतिव्रत की चर्चा करते हुए देवता, गंधर्व और दानव अपने विमानों से लौट जाते हैं। श्रीराम मातलि का सम्मान करते हैं, जो दिव्य रथ लेकर स्वर्ग लौट जाते हैं। श्रीराम लक्ष्मण से कहते हैं कि विभीषण का लंका के राजा के रूप में अभिषेक करो। लक्ष्मण स्वर्ण कलश में समुद्र का जल लाकर मित्रों के बीच मंत्रों में बताई विधि से विभीषण का अभिषेक करते हैं। विभीषण श्रीराम और लक्ष्मण को मंगल उपहार भेंट करते हैं। फिर श्रीराम हनुमान से कहते हैं: राजा विभीषण की अनुमति लेकर लंका जाओ, वैदेही का कुशल पूछो, उन्हें यह शुभ समाचार सुनाओ और उनका संदेश लेकर लौटो।

112.1

ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः ।
जग्मुः स्वैः स्वैर्विमानैस्ते कथयन्तः शुभाः कथाः

te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ |
jagmuḥ svaiḥ svairvimānaiste kathayantaḥ śubhāḥ kathāḥ

112.2

रावणस्य वधं घोरं राघवस्य पराक्रमम् ।
सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम्

rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam |
suyuddhaṃ vānarāṇāṃ ca sugrīvasya ca mantritam

112.3

अनुरागं च वीर्यं च मारुतेर्लक्ष्मणस्य च ।
पतिव्रतात्वं सीताया हनूमति पराक्रमम्

anurāgaṃ ca vīryaṃ ca māruterlakṣmaṇasya ca |
pativratātvaṃ sītāyā hanūmati parākramam

112.4

कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ।
राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम्

kathayanto mahābhāgā jagmurhṛṣṭā yathāgatam |
rāghavastu rathaṃ divyamindradattaṃ śikhiprabham

112.5

अनुज्ञाप्य महाबाहुर्मातलिं प्रत्यपूजयत् ।
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः

anujñāpya mahābāhurmātaliṃ pratyapūjayat |
rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ

112.6

दिव्यं तं रथमास्थाय दिवमेवोत्पपात ह ।
तस्मिंस्तु दिवमारूढे सरथे रथिनां वरः

divyaṃ taṃ rathamāsthāya divamevotpapāta ha |
tasmiṃstu divamārūḍhe sarathe rathināṃ varaḥ

112.7

राघवः परमप्रीतः सुग्रीवं परिषस्वजे ।
परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः

rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje |
pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ

112.8

पूज्यमानो हरिगणैराजगाम बलालयम् ।
अथोवाच स काकुत्स्थः समीपपरिवर्तिनम्

pūjyamāno harigaṇairājagāma balālayam |
athovāca sa kākutsthaḥ samīpaparivartinam

112.9

सौमित्रिं सत्त्वसम्पन्नं लक्ष्मणं दीप्ततेजसम् ।
विभीषणमिमं सौम्य लङ्कायामभिषेचय

saumitriṃ sattvasampannaṃ lakṣmaṇaṃ dīptatejasam |
vibhīṣaṇamimaṃ saumya laṅkāyāmabhiṣecaya

112.10

अनुरक्तं च भक्तं च तथा पूर्वोपकारिणम् ।
एष मे परमः कामो यदिमं रावणानुजम्

anuraktaṃ ca bhaktaṃ ca tathā pūrvopakāriṇam |
eṣa me paramaḥ kāmo yadimaṃ rāvaṇānujam

112.11

लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् ।
एवमुक्तस्तु सौमित्री राघवेण महात्मना

laṅkāyāṃ saumya paśyeyamabhiṣiktaṃ vibhīṣaṇam |
evamuktastu saumitrī rāghaveṇa mahātmanā

112.12

तथेत्युक्त्वा सुसंहृष्टः सौवर्णं घटमाददे ।
तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान्

tathetyuktvā susaṃhṛṣṭaḥ sauvarṇaṃ ghaṭamādade |
taṃ ghaṭaṃ vānarendrāṇāṃ haste dattvā manojavān

112.13

व्यादिदेश महासत्त्वान् समुद्रसलिलं तदा ।
अतिशीघ्रं ततो गत्वा वानरास्ते मनोजवाः

vyādideśa mahāsattvān samudrasalilaṃ tadā |
atiśīghraṃ tato gatvā vānarāste manojavāḥ

112.14

आगतास्तु जलं गृह्य समुद्राद् वानरोत्तमाः ।
ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने

āgatāstu jalaṃ gṛhya samudrād vānarottamāḥ |
tatastvekaṃ ghaṭaṃ gṛhya saṃsthāpya paramāsane

112.15

घटेन तेन सौमित्रिरभ्यषिञ्चद् विभीषणम् ।
लङ्कायां रक्षसां मध्ये राजानं रामशासनात्

ghaṭena tena saumitrirabhyaṣiñcad vibhīṣaṇam |
laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt

112.16

विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम् ।
अभ्यषिञ्चस्तदा सर्वे राक्षसा वानरास्तथा

vidhinā mantradṛṣṭena suhṛdgaṇasamāvṛtam |
abhyaṣiñcastadā sarve rākṣasā vānarāstathā

112.17

प्रहर्षमतुलं गत्वा तुष्टुवू राममेव हि ।
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः

praharṣamatulaṃ gatvā tuṣṭuvū rāmameva hi |
tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ

112.18

दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् ।
राघवः परमां प्रीतिं जगाम सहलक्ष्मणः

dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam |
rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ

112.19

स तद् राज्यं महत् प्राप्य रामदत्तं विभीषणः ।
सान्त्वयित्वा प्रकृतयस्ततो राममुपागमत्

sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ |
sāntvayitvā prakṛtayastato rāmamupāgamat

112.20

दध्यक्षतान् मोदकांश्च लाजाः सुमनसस्तथा ।
आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः

dadhyakṣatān modakāṃśca lājāḥ sumanasastathā |
ājahruratha saṃhṛṣṭāḥ paurāstasmai niśācarāḥ

112.21

स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ।
मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान्

sa tān gṛhītvā durdharṣo rāghavāya nyavedayat |
maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān

112.22

कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ।
प्रतिजग्राह तत् सर्वं तस्यैव प्रतिकाम्यया

kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam |
pratijagrāha tat sarvaṃ tasyaiva pratikāmyayā

112.23

ततः शैलोपमं वीरं प्राञ्जलिं प्रणतं स्थितम् ।
उवाचेदं वचो रामो हनूमन्तं प्लवङ्गमम्

tataḥ śailopamaṃ vīraṃ prāñjaliṃ praṇataṃ sthitam |
uvācedaṃ vaco rāmo hanūmantaṃ plavaṅgamam

112.24

अनुज्ञाप्य महाराजमिमं सौम्य विभीषणम् ।
प्रविश्य नगरीं लङ्कां कौशलं ब्रूहि मैथिलीम्

anujñāpya mahārājamimaṃ saumya vibhīṣaṇam |
praviśya nagarīṃ laṅkāṃ kauśalaṃ brūhi maithilīm

112.25

वैदेह्यै मां च कुशलं सुग्रीवं च सलक्ष्मणम् ।
आचक्ष्व वदतां श्रेष्ठ रावणं च हतं रणे

vaidehyai māṃ ca kuśalaṃ sugrīvaṃ ca salakṣmaṇam |
ācakṣva vadatāṃ śreṣṭha rāvaṇaṃ ca hataṃ raṇe

112.26

प्रियमेतदिहाख्याहि वैदेह्यास्त्वं हरीश्वर ।
प्रतिगृह्य तु संदेशमुपावर्तितुमर्हसि

priyametadihākhyāhi vaidehyāstvaṃ harīśvara |
pratigṛhya tu saṃdeśamupāvartitumarhasi

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)