उत्तरकाण्ड

सर्ग 88: इला और बुध का मिलन

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टाशीतितमः सर्गः ॥ ८८ ॥

24 श्लोक · 88 में से 111

इस अध्याय में क्या होता है

इला और बुध का मिलन

भरत और लक्ष्मण पूछते हैं कि राजा स्त्री और पुरुष के रूप में कैसे रहे। श्रीराम बताते हैं। स्त्री बनने के पहले महीने में सुन्दरी इला अपनी सखियों के साथ पैदल वन में घूमती रहीं। पर्वत के पास एक सरोवर था, जहाँ चन्द्रमा के पुत्र बुध जल के बीच कठोर तप कर रहे थे। बुध ने इला को देखा और काम के वश हो गए। उन्होंने स्त्रियों को आश्रम में बुलाकर पूछा कि यह सुन्दरी कौन है; उन्होंने कहा कि यह हमारी स्वामिनी है। अपनी विद्या से बुध ने राजा के बारे में सब जान लिया। उन्होंने सखियों से कहा कि किम्पुरुषी बनकर पर्वत की ढलान पर रहो, वहाँ तुम्हें किम्पुरुष पति मिलेंगे; और वे वैसा ही करने लगीं।

88.1

तां कथामिलसम्बद्धां रामेण समुदीरिताम् ।
लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ

tāṃ kathāmilasambaddhāṃ rāmeṇa samudīritām |
lakṣmaṇo bharataścaiva śrutvā paramavismitau

88.2

तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः ।
विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः

tau rāmaṃ prāñjalī bhūtvā tasya rājño mahātmanaḥ |
vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ

88.3

कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः ।
पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ

kathaṃ sa rājā strībhūto vartayāmāsa durgatiḥ |
puruṣaḥ sa yadā bhūtaḥ kāṃ vṛttiṃ vartayatyasau

88.4

तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ।
कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम्

tayostadbhāṣitaṃ śrutvā kautūhalasamanvitam |
kathayāmāsa kākutsthastasya rājño yathāgatam

88.5

तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी ।
ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः

tameva prathamaṃ māsaṃ strībhūtā lokasundarī |
tābhiḥ parivṛtā strībhirye ca pūrvapadānugāḥ

88.6

तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी ।
द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा

tatkānanaṃ vigāhvāśu vijahre lokasundarī |
drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā

88.7

वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः ।
पर्वताभोगविवरे तस्मिन्रेमे इला तदा

vāhanāni ca sarvāṇi sā tyaktvā vai samantataḥ |
parvatābhogavivare tasminreme ilā tadā

88.8

अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः ।
सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम्

atha tasminvanoddeśe parvatasyāvidūrataḥ |
saraḥ suruciraprakhyaṃ nānāpakṣigaṇairyutam

88.9

ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा ।
ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम्

dadarśa sā tvilā tasminbudhaṃ somasutaṃ tadā |
jvalantaṃ svena vapuṣā pūrṇasomamivoditam

88.10

तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् ।
यशस्करं कामकरं कारुण्ये पर्यवस्थितम्

tapantaṃ ca tapastīvramambhomadhye durāsadam |
yaśaskaraṃ kāmakaraṃ kāruṇye paryavasthitam

88.11

सा तं जलाशयं सर्वं क्षोभयामास विस्मिता ।
सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन

sā taṃ jalāśayaṃ sarvaṃ kṣobhayāmāsa vismitā |
sahagaiḥ pūrvapuruṣaiḥ strībhūtai raghunandana

88.12

बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः ।
नोपलेभे तदा ऽ ऽत्मानं सञ्चचाल तदा ऽ ऽम्भसि

budhastu tāṃ samīkṣyaiva kāmabāṇavaśaṃ gataḥ |
nopalebhe tadā ' 'tmānaṃ sañcacāla tadā ' 'mbhasi

88.13

इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् ।
चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका

ilāṃ nirīkṣamāṇastu trailokyābhyadhikāṃ śubhām |
cintāṃ samabhyatikrāmat kā nviyaṃ devatādhikā

88.14

न देवीषु न नागीषु नासुरीष्वप्सरःसु च ।
दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता

na devīṣu na nāgīṣu nāsurīṣvapsaraḥsu ca |
dṛṣṭapūrvā mayā kācidrūpeṇānena śobhitā

88.15

सदृशीयं मम भवेद्यदि नान्यपरिग्रहः ।
इति बुद्धिं समास्थाय जलात्कूलमुपागमत्

sadṛśīyaṃ mama bhavedyadi nānyaparigrahaḥ |
iti buddhiṃ samāsthāya jalātkūlamupāgamat

88.16

आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः ।
शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे

āśramaṃ samupāgamya tatastāḥ pramadottamāḥ |
śabdāpayata dharmātmā tāścainaṃ ca vavandire

88.17

स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी ।
किमर्थमागता चैव सर्वमाख्यात मा चिरम्

sa tāḥ papraccha dharmātmā kasyaiṣā lokasundarī |
kimarthamāgatā caiva sarvamākhyāta mā ciram

88.18

शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् ।
श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा

śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram |
śrutvā striyaśca tāḥ sarvā ūcurmadhurayā girā

88.19

अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ।
अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ

asmākameṣā suśroṇī prabhutve vartate sadā |
apatiḥ kānanānteṣu sahāsmābhiścaratyasau

88.20

तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च ।
विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः

tadvākyamavyaktapadaṃ tāsāṃ strīṇāṃ niśamya ca |
vidyāmāvartanīṃ puṇyāmāvartayata sa dvijaḥ

88.21

सो ऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् ।
सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः

so 'rthaṃ viditvā sakalaṃ tasya rājño yathāgatam |
sarvā eva striyastāśca babhāṣe munipuṅgavaḥ

88.22

अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ ।
आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम्

atra kimpuruṣīrbhūtvā śailarodhasi vatsyatha |
āvāsastu girāvasmiñchīghrameva vidhīyatām

88.23

मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा ।
स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ

mūlapatraphalaiḥ sarvā vartayiṣyatha nityadā |
striyaḥ kimpuruṣānnāma bharta'nsamupalapsyatha

88.24

ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः ।
उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा

tāḥ śrutvā somaputrasya vācaṃ kimpuruṣīkṛtāḥ |
upāsāñcakrire śailaṃ vadhvastā bahulāstadā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)