श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् ।
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन
śrutvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram |
prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टसप्ततितमः सर्गः ॥ ७८ ॥
30 श्लोक · 78 में से 111
स्वर्गवासी बताता है कि मैं सुदेव का पुत्र श्वेत हूँ। पिता के बाद मैंने धर्म से राज किया, फिर छोटे भाई सुरथ का अभिषेक किया और इस सरोवर पर तीन हजार वर्ष तप किया, और ब्रह्मलोक पाया। पर वहाँ भूख-प्यास सताने लगी। ब्रह्मा ने कहा कि तुमने तप से केवल अपना शरीर पाला, कभी दान नहीं दिया। इसलिए तुम्हारा भोजन तुम्हारा ही मांस होगा, जो कभी समाप्त नहीं होगा, जब तक अगस्त्य आकर तुम्हें मुक्त न करें। वह विनती करता है कि यह आभूषण स्वीकार कर मुझे उबारिए। अगस्त्य ने उसे स्वीकार किया। तुरंत राजा का पुराना शरीर नष्ट हो गया और श्वेत आनंद से स्वर्ग चला गया। अगस्त्य श्रीराम से कहते हैं कि यह आभूषण इसी प्रकार मुझे मिला।
श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् ।
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन
śrutvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram |
prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana
शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः ।
अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज
śṛṇu brahmanpurā vṛttaṃ mamaitatsukhaduḥkhayoḥ |
anatikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija
पुरा वैदर्भको राजा पिता मम महायशाः ।
सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान्
purā vaidarbhako rājā pitā mama mahāyaśāḥ |
sudeva iti vikhyātastriṣu lokeṣu vīryavān
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत ।
अहं श्वेत इति ख्यातो यवीयान्सुरथो ऽभवत्
tasya putradvayaṃ brahmandvābhyāṃ strībhyāmajāyata |
ahaṃ śveta iti khyāto yavīyānsuratho 'bhavat
ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ।
तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः
tataḥ pitari svaryāte paurā māmabhyaṣecayan |
tatrāhaṃ kṛtavānrājyaṃ dharmyaṃ ca susamāhitaḥ
एवं वर्षसहस्राणि समतीतानि सुव्रत ।
राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः
evaṃ varṣasahasrāṇi samatītāni suvrata |
rājyaṃ kārayato brahmanprajā dharmeṇa rakṣataḥ
सो ऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ।
कालधर्मं हृदि न्यस्य ततो वनमुपागमम्
so 'haṃ nimitte kasmiṃścidvijñātāyurdvijottama |
kāladharmaṃ hṛdi nyasya tato vanamupāgamam
सो ऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ।
तपश्चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे
so 'haṃ vanamidaṃ durgaṃ mṛgapakṣivivarjitam |
tapaścartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe
भ्रातरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् ।
इदं सरः समासाद्य तपस्तप्तं मया चिरम्
bhrātaraṃ surathaṃ rājye hyabhiṣicya mahīpatim |
idaṃ saraḥ samāsādya tapastaptaṃ mayā ciram
सो ऽहं वर्षसहस्राणि तपस्त्रीणि महावने ।
तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम्
so 'haṃ varṣasahasrāṇi tapastrīṇi mahāvane |
taptvā suduṣkaraṃ prāpto brahmalokamanuttamam
तस्य मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम ।
बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः ।
गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह
tasya me svargabhūtasya kṣutpipāse dvijottama |
bādhete paramodāra tato 'haṃ vyathitendriyaḥ |
gatvā tribhuvanaśreṣṭhaṃ pitāmahamuvāca ha
भगवन्ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः ।
कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम्
bhagavanbrahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ |
kasyāyaṃ karmaṇaḥ pākaḥ kṣutpipāsānugo hyaham
आहारः कश्च मे देव तन्मे ब्रूहि पितामह
āhāraḥ kaśca me deva tanme brūhi pitāmaha
पितामहस्तु मामाह तवाहारः सुदेवज ।
स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः
pitāmahastu māmāha tavāhāraḥ sudevaja |
svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ।
अनुप्तं रोहते श्वेत न कदाचिन्महामते
svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam |
anuptaṃ rohate śveta na kadācinmahāmate
तृप्तिर्न ते ऽस्ति सूक्ष्मा ऽपि वने सत्वनिषेविते ।
पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप ।
न हि दत्ता त्वयेन्द्राभ यस्मादतिथये ऽपि वै
tṛptirna te 'sti sūkṣmā 'pi vane satvaniṣevite |
purā tu bhikṣamāṇāya bhikṣā vai yataye nṛpa |
na hi dattā tvayendrābha yasmādatithaye 'pi vai
दत्तं न ते ऽस्ति सूक्ष्मो ऽपि तप एव निषेवसे ।
तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया
dattaṃ na te 'sti sūkṣmo 'pi tapa eva niṣevase |
tena svargagato vatsa bādhyase kṣutpipāsayā
स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।
भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यति
sa tvaṃ supuṣṭamāhāraiḥ svaśarīramanuttamam |
bhakṣayitvāmṛtarasaṃ tena tṛptirbhaviṣyati
यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः ।
आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यते
yadā tu tadvanaṃ śveta agastyaḥ sumahānṛṣiḥ |
āgamiṣyati durdharṣastadā kṛcchrādvimokṣyate
स हि तारयितुं सौम्य शक्तः सुरगणानपि ।
किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम्
sa hi tārayituṃ saumya śaktaḥ suragaṇānapi |
kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam
सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ।
आहारं गर्हितं स्वशरीरं द्विजोत्तम
so 'haṃ bhagavataḥ śrutvā devadevasya niścayam |
āhāraṃ garhitaṃ svaśarīraṃ dvijottama
बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया ।
क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा
bahūnvarṣagaṇānbrahmanbhujyamānamidaṃ mayā |
kṣayaṃ nābhyeti brahmarṣe tṛptiścāpi mamottamā
तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोचय ।
अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम्
tasya me kṛcchrabhūtasya kṛcchrādasmādvimocaya |
anyeṣāṃ na gatirhyatra kumbhayonimṛte dvijam
इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ।
प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि
idamābharaṇaṃ saumya tāraṇārthaṃ dvijottama |
pratigṛhṇīṣva bhadraṃ te prasādaṃ kartumarhasi
इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज ।
भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च
idaṃ tāvatsuvarṇaṃ ca dhanaṃ vastrāṇi ca dvija |
bhakṣyaṃ bhojyaṃ ca brahmarṣe dadātyābharaṇāni ca
सर्वान्कामान्प्रयच्छामि भोगांश्च मुनिपुङ्गव ।
तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि
sarvānkāmānprayacchāmi bhogāṃśca munipuṅgava |
tāraṇe bhagavanmahyaṃ prasādaṃ kartumarhasi
तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् ।
तारणायोपजग्राह तदाभरणमुत्तमम्
tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam |
tāraṇāyopajagrāha tadābharaṇamuttamam
मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे ।
मानुषः पूर्वको देहो राजर्षेर्विननाश ह
mayā pratigṛhīte tu tasminnābharaṇe śubhe |
mānuṣaḥ pūrvako deho rājarṣervinanāśa ha
प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा ।
तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम्
pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā |
tṛptaḥ pramudito rājā jagāma tridivaṃ sukham
तेनेदं शक्रतुल्येन दिव्यमाभरणं मम ।
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम्
tenedaṃ śakratulyena divyamābharaṇaṃ mama |
tasminnimitte kākutstha dattamadbhutadarśanam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)