यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् ।
तामेव रात्रिं सीतापि प्रसूता दारकद्वयम्
yāmeva rātriṃ śatrughnaḥ parṇaśālāmupāviśat |
tāmeva rātriṃ sītāpi prasūtā dārakadvayam
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्षष्टितमः सर्गः ॥ ६६ ॥
17 श्लोक · 66 में से 111
जिस रात शत्रुघ्न पर्णशाला में ठहरे, उसी रात सीता दो पुत्रों को जन्म देती हैं। आधी रात को मुनिकुमार दौड़कर वाल्मीकि को समाचार देते हैं और रक्षा-संस्कार की विनती करते हैं। प्रसन्न महर्षि आकर बालचन्द्र-से तेजस्वी दोनों शिशुओं को देखते हैं। वे कुश और उसके कटे सिरे, लव, वृद्ध स्त्रियों को रक्षा-विधि के लिए देते हैं। पहले जन्मे बालक को कुश से पोंछा जाए, इसलिए उसका नाम कुश होगा; छोटे को लव से पोंछा जाए, इसलिए वह लव कहलाएगा। स्त्रियाँ रक्षा-विधि करती हैं। आधी रात को समाचार सुनकर शत्रुघ्न पर्णशाला में जाकर कहते हैं, 'माँ, बड़े सौभाग्य की बात है!' भोर में मुनि से विदा लेकर वे सात रात चलकर यमुना पहुँचते हैं और च्यवन के आश्रम में ठहरते हैं।
यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् ।
तामेव रात्रिं सीतापि प्रसूता दारकद्वयम्
yāmeva rātriṃ śatrughnaḥ parṇaśālāmupāviśat |
tāmeva rātriṃ sītāpi prasūtā dārakadvayam
ततो ऽर्धरात्रसमये बालका मुनिदारकाः ।
वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम्
tato 'rdharātrasamaye bālakā munidārakāḥ |
vālmīkeḥ priyamācakhyuḥ sītāyāḥ prasavaṃ śubham
भगवन्रामपत्नी सा प्रसूता दारकद्वयम् ।
ततो रक्षां महातेजः कुरु भूतविनाशिनीम्
bhagavanrāmapatnī sā prasūtā dārakadvayam |
tato rakṣāṃ mahātejaḥ kuru bhūtavināśinīm
तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् ।
बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ
teṣāṃ tadvacanaṃ śrutvā maharṣiḥ samupāgamat |
bālacandrapratīkāśau devaputrau mahaujasau
जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ ।
भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम्
jagāma tatra hṛṣṭātmā dadarśa ca kumārakau |
bhūtaghnīṃ cākarottābhyāṃ rakṣāṃ rakṣovināśinīm
कुशमुष्टिमुपादाय लवं चैव तु स द्विजः ।
वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम्
kuśamuṣṭimupādāya lavaṃ caiva tu sa dvijaḥ |
vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm
यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः ।
निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत्
yastayoḥ pūrvajo jātaḥ sa kuśairmantrasatkṛtaiḥ |
nirmārjanīyastu tadā kuśa ityasya nāma tat
यश्चावरो भवेत्ताभ्यां लवेन स समाहितः ।
निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः
yaścāvaro bhavettābhyāṃ lavena sa samāhitaḥ |
nirmārjanīyo vṛddhābhirlava ityeva nāmataḥ
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ।
मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः
evaṃ kuśalavau nāmnā tāvubhau yamajātakau |
matkṛtābhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ
तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः ।
अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः
tāṃ rakṣāṃ jagṛhustāśca munihastātsamāhitāḥ |
akurvaṃśca tato rakṣāṃ tayorvigatakalmaṣāḥ
तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च ।
सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ
tathā tāṃ kriyamāṇāṃ ca vṛddhābhirjanma nāma ca |
saṅkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau
अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् ।
पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत्
ardharātre tu śatrughnaḥ śuśrāva sumahatpriyam |
parṇaśālāṃ tato gatvā mātardiṣṭyeti cābravīt
तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः ।
व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः
tathā tasya prahṛṣṭasya śatrughnasya mahātmanaḥ |
vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramaḥ
प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् ।
मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः
prabhāte sumahāvīryaḥ kṛtvā paurvāhṇikīṃ kriyām |
muniṃ prāñjalirāmantrya yayau paścānmukhaḥ punaḥ
स गत्वा यमुनातीरं सप्तरात्रोषितः पथि ।
ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात्
sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi |
ṛṣīṇāṃ puṇyakīrtīnāmāśrame vāsamabhyayāt
स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः ।
कथाभिरभिरूपाभिर्वासं चक्रे महायशाः
sa tatra munibhiḥ sārdhaṃ bhārgavapramukhairnṛpaḥ |
kathābhirabhirūpābhirvāsaṃ cakre mahāyaśāḥ
स काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् ।
कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः
sa kāñcanādyairmunibhiḥ sameto raghupravīro rajanīṃ tadānīm |
kathāprakārairbahubhirmahātmā virāmayāmāsa narendrasūnuḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)