तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ।
वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा
tayoḥ saṃvadatorevaṃ rāmalakṣmaṇayostadā |
vāsantikī niśā prāptā na śītā na ca gharmadā
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षष्टितमः सर्गः ॥ ६० ॥
18 श्लोक · 60 में से 111
वसन्त की सुहानी रात के बाद श्रीराम पुरवासियों के कार्य सुनने बैठते हैं। सुमन्त्र सूचना देते हैं कि भृगुवंशी च्यवन के नेतृत्व में यमुना तट के तपस्वी द्वार पर खड़े हैं। श्रीराम उन्हें बुलाते हैं। सौ से अधिक तेजस्वी ऋषि सब तीर्थों के जल से भरे कलश और फल-मूल लेकर आते हैं। श्रीराम उन्हें कुश बिछे सोने के आसनों पर बिठाते हैं और हाथ जोड़कर पूछते हैं कि आप किस कार्य से आए हैं; मैं आपकी आज्ञा का पालक हूँ, यह सारा राज्य और मेरे प्राण भी ब्राह्मणों के लिए हैं। ऋषि साधुवाद करते हैं। वे कहते हैं कि अनेक बलवान राजाओं ने वचन नहीं दिया, पर आपने बिना कारण पूछे वचन दे दिया, इसलिए आप ऋषियों को महाभय से बचाएँगे।
तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ।
वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा
tayoḥ saṃvadatorevaṃ rāmalakṣmaṇayostadā |
vāsantikī niśā prāptā na śītā na ca gharmadā
ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः ।
अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित्
tataḥ prabhāte vimale kṛtapaurvāhṇikakriyaḥ |
abhicakrāma kākutstho darśanaṃ paurakāryavit
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ।
एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः
tataḥ sumantrastvāgamya rāghavaṃ vākyamabravīt |
ete pratihatā rājandvāri tiṣṭhanti tāpasāḥ
भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः ।
दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः ।
प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः
bhārgavacyavanaṃ caiva puraskṛtya maharṣayaḥ |
darśanaṃ te mahārājñaścodayanti kṛtatvarāḥ |
prīyamāṇā naravyāghra yamunātīravāsinaḥ
तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् ।
प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः
tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit |
praveśyantāṃ mahābhāgā bhārgavapramukhā dvijāḥ
राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।
प्रवेशयामास तदा तापसान्सुदुरासदान्
rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ |
praveśayāmāsa tadā tāpasānsudurāsadān
शतं समधिकं तत्र दीप्यमानं स्वतेजसा ।
प्रविष्टं राजभवनं तापसानां महात्मनाम्
śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā |
praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām
ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः ।
गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु
te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtaiḥ |
gṛhītvā phalamūlaṃ ca rāmasyābhyāharanbahu
प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः ।
तीर्थोदकानि सर्वाणि फलानि विविधानि च
pratigṛhya tu tatsarvaṃ rāmaḥ prītipuraskṛtaḥ |
tīrthodakāni sarvāṇi phalāni vividhāni ca
उवाच च महाबाहुः सर्वानेव महामुनीन् ।
इमान्यासनमुख्यानि यथार्हमुपविश्यताम्
uvāca ca mahābāhuḥ sarvāneva mahāmunīn |
imānyāsanamukhyāni yathārhamupaviśyatām
रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः ।
बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते
rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ |
bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te
उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः ।
प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत्
upaviṣṭānṛṣīṃstatra dṛṣṭvā parapurañjayaḥ |
prayataḥ prāñjalirbhūtvā rāghavo vākyamabravīt
किमागमनकार्यं वः किं करोमि समाहितः ।
आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम्
kimāgamanakāryaṃ vaḥ kiṃ karomi samāhitaḥ |
ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham
इदं राज्यं च सकलं जीवितं च हृदि स्थितम् ।
सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः
idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam |
sarvametaddvidārthaṃ me satyametadbravīmi vaḥ
तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् ।
ऋषीणामुग्रतपसां यमुनातीरवासिनाम्
tasya tadvacanaṃ śrutvā sādhukāro mahānabhūt |
ṛṣīṇāmugratapasāṃ yamunātīravāsinām
ऊचुश्च ते महात्मानो हर्षेण महता वृताः ।
उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः
ūcuśca te mahātmāno harṣeṇa mahatā vṛtāḥ |
upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ
बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ।
कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन्
bahavaḥ pārthivā rājannatikrāntā mahābalāḥ |
kāryasya gauravaṃ matvā pratijñāṃ nābhyarocayan
त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ।
ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्त्रातुमृषींस्त्वमर्हसि
tvayā punarbrāhmaṇagauravādiyaṃ kṛtā pratijñā hyanavekṣya kāraṇam |
tataśca kartā hyasi nātra saṃśayo mahābhayāttrātumṛṣīṃstvamarhasi
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)