विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ।
समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत्
visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ |
samīpe dvāḥsthamāsīnamidaṃ vacanamabravīt
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥
21 श्लोक · 44 में से 111
मन में निश्चय करके श्रीराम द्वारपाल से कहते हैं कि लक्ष्मण, भरत और शत्रुघ्न को तुरंत बुला लाओ। लक्ष्मण रथ पर चढ़कर दौड़े आते हैं, भरत पैदल ही चल पड़ते हैं, और शत्रुघ्न सिर से भूमि को प्रणाम कर पीछे आते हैं। व्याकुल श्रीराम कहते हैं कि उन्हें भीतर लाओ, वे ही मेरा जीवन और प्राण हैं। हाथ जोड़े राजकुमार भीतर आते हैं और देखते हैं कि उनका मुख ग्रहण-ग्रस्त चन्द्रमा-सा निस्तेज है। वे चरणों में प्रणाम करते हैं। रोते हुए श्रीराम उन्हें उठाकर गले लगाते हैं, बिठाते हैं और कहते हैं कि तुम ही मेरे सर्वस्व हो, अब मेरे लिए मिलकर एक बात पर विचार करो। व्याकुल भाई प्रतीक्षा करते हैं कि राजा क्या कहेंगे।
विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ।
समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत्
visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ |
samīpe dvāḥsthamāsīnamidaṃ vacanamabravīt
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् ।
भरतं च महाभागं शत्रुघ्नमपराजितम्
śīghramānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam |
bharataṃ ca mahābhāgaṃ śatrughnamaparājitam
रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।
लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः
rāmasya vacanaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ |
lakṣmaṇasya gṛhaṃ gatvā praviveśānivāritaḥ
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः ।
द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम्
uvāca sumahātmānaṃ vardhayitvā kṛtāñjaliḥ |
draṣṭumicchati rājā tvāṃ gamyatāṃ tatra mā ciram
बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् ।
प्राद्रवद्रथमारुह्य राघवस्य निवेशनम्
bāḍhamityeva saumitriḥ śrutvā rāghavaśāsanam |
prādravadrathamāruhya rāghavasya niveśanam
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् ।
उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः
prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatamantikāt |
uvāca bharataṃ tatra vardhayitvā kṛtāñjaliḥ
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति ।
भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम्
vinayāvanato bhūtvā rājā tvāṃ draṣṭumicchati |
bharatastu vacaḥśrutvā dvāḥsthādrāmasamīritam
उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली ।
दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः
utpapātāsanāttūrṇaṃ padbhyāmeva yayau balī |
dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह ।
एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति
śatrughnabhavanaṃ gatvā tato vākyamuvāca ha |
ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭumicchati
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः ।
श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात्
gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ |
śrutvā tu vacanaṃ tasya śatrughnaḥ paramāsanāt
शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः ।
द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः ।
निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान्
śirasā dharaṇīṃ prāpya prayayau yatra rāghavaḥ |
dvāḥsthastvāgamya rāmāya sarvāneva kṛtāñjaliḥ |
nivedayāmāsa tadā bhrāta'nsvānsamupasthitān
कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः ।
अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत्
kumārānāgatāñchrutvā cintāvyākulitendriyaḥ |
avāṅmukho dīnamanā dvāḥsthaṃ vacanamabravīt
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ।
एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम
praveśaya kumārāṃstvaṃ matsamīpaṃ tvarānvitaḥ |
eteṣu jīvitaṃ mahyamete prāṇāḥ priyā mama
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः ।
प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः
ājñaptāstu narendreṇa kumārāḥ śakratejasaḥ |
prahvāḥ prāñjalayo bhūtvā viviśuste samāhitāḥ
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ।
सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम्
te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā |
sandhyāgatamivādityaṃ prabhayā parivarjitam
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः ।
हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते
bāṣpapūrṇe ca nayane dṛṣṭvā rāmasya dhīmataḥ |
hataśobhaṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te
ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ।
तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत्
tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ |
tasthuḥ samāhitāḥ sarve rāmastvaśrūṇyavartayat
तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः ।
आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह
tānpariṣvajya bāhubhyāmutthāpya ca mahābalaḥ |
āsaneṣvāsatetyuktvā tato vākyaṃ jagāda ha
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम ।
भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः
bhavanto mama sarvasvaṃ bhavanto jīvitaṃ mama |
bhavadbhiśca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः ।
सम्भूय च मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः
bhavantaḥ kṛtaśāstrārthā buddhyā ca pariniṣṭhitāḥ |
sambhūya ca madartho 'yamanveṣṭavyo nareśvarāḥ
तथा वदति काकुत्स्थे अवधानपरायणाः ।
उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति
tathā vadati kākutsthe avadhānaparāyaṇāḥ |
udvignamanasaḥ sarve kiṃ nu rājābhidhāsyati
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)