रावणग्रहणं तत्तु वायुग्रहणसन्निभम् ।
ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः
rāvaṇagrahaṇaṃ tattu vāyugrahaṇasannibham |
tataḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
23 श्लोक · 33 में से 111
पौत्र को बंदी जानकर पुलस्त्य वायुमार्ग से माहिष्मती पहुँचते हैं। अर्जुन हाथ जोड़े आगे आते हैं, मधुपर्क, गौ और अर्घ्य अर्पित करते हैं और कहते हैं कि मेरा राज्य आपकी आज्ञा में है। पुलस्त्य अर्जुन के बल की प्रशंसा करते हैं कि जिस रावण से समुद्र और वायु भी थम जाते हैं, उसे तुमने बाँध लिया; अब उसे छोड़ दो। अर्जुन बिना कुछ कहे रावण को छोड़ देते हैं, आभूषणों से उसका सम्मान करते हैं और अग्नि को साक्षी मानकर मित्रता करते हैं। लज्जित रावण लौट जाता है और पुलस्त्य ब्रह्मलोक चले जाते हैं। अगस्त्य कहते हैं कि बलवानों से भी बलवान होते हैं, इसलिए किसी का अपमान न करे। रावण फिर राजाओं को सताता है।
रावणग्रहणं तत्तु वायुग्रहणसन्निभम् ।
ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः
rāvaṇagrahaṇaṃ tattu vāyugrahaṇasannibham |
tataḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ
ततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः ।
माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः
tataḥ putrakṛtasnehātkampyamāno mahādhṛtiḥ |
māhiṣmatīpatiṃ draṣṭumājagāma mahānṛṣiḥ
स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः ।
पुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः
sa vāyumārgamāsthāya vāyutulyagatirdvijaḥ |
purīṃ māhiṣmatīṃ prāpto manaḥsampātavikramaḥ
सो ऽमरावतिसङ्काशां हृष्टपुष्टजनाकुलाम् ।
प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम्
so 'marāvatisaṅkāśāṃ hṛṣṭapuṣṭajanākulām |
praviveśa purīṃ brahmā indrasyevāmarāvatīm
पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् ।
ततस्ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन्
pādacāramivādityaṃ niṣpatantaṃ sudurdaśam |
tataste pratyabhijñāya arjunāya nivedayan
पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः ।
शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम्
pulastya iti vijñāya vacanāddhaihayādhipaḥ |
śirasyañjalimādhāya pratyudgacchattapasvinam
पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च ।
पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः
purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca |
purastātprayayau rājñaḥ śakrasyeva bṛhaspatiḥ
ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् ।
अर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम्
tatastamṛṣimāyāntamudyantamiva bhāskaram |
arjuno dṛśya sambhrānto vavandendra iveśvaram
स तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च ।
पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा
sa tasya madhuparkaṃ gāṃ pādyamarghyaṃ nivedya ca |
pulastyamāha rājendro harṣagadgadayā girā
अद्यैवममरावत्या तुल्या माहिष्मती कृता ।
अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम्
adyaivamamarāvatyā tulyā māhiṣmatī kṛtā |
adyāhaṃ tu dvijendra tvāṃ yasmātpaśyāmi durdaśam
अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् ।
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
यस्माद्देवगणैर्वन्द्यौ वन्दे ऽहं चरणौ तव
adya me kuśalaṃ deva adya me kuśalaṃ vratam |
adya me saphalaṃ janma adya me saphalaṃ tapaḥ |
yasmāddevagaṇairvandyau vande 'haṃ caraṇau tava
इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् ।
ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान्
idaṃ rājyamime putrā ime dārā ime vayam |
brahmankiṃ kurmi kiṃ kāryamājñāpayatu no bhavān
तं धर्मे ऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् ।
पुलस्त्योवाच राजानं हैहयानां तथा ऽर्जुनम्
taṃ dharme 'gniṣu putreṣu śivaṃ pṛṣṭvā ca pārthivam |
pulastyovāca rājānaṃ haihayānāṃ tathā 'rjunam
नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन ।
अतुलं ते बलं येन दशग्रीवस्त्वया जितः
narendrāmbujapatrākṣa pūrṇacandranibhānana |
atulaṃ te balaṃ yena daśagrīvastvayā jitaḥ
भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ ।
सो ऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः
bhayādyasyopatiṣṭhetāṃ niṣpandau sāgarānilau |
so 'yaṃ mṛdhe tvayā baddhaḥ pautro me raṇadurjayaḥ
पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया ।
मद्वाक्याद्याच्यमानो ऽद्य मुञ्च वत्सं दशाननम्
putrakasya yaśaḥ pītaṃ nāma viśrāvitaṃ tvayā |
madvākyādyācyamāno 'dya muñca vatsaṃ daśānanam
पुलस्त्याज्ञां प्रगृह्योचे न किञ्चन वचो ऽर्जुनः ।
मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत्
pulastyājñāṃ pragṛhyoce na kiñcana vaco 'rjunaḥ |
mumoca vai pārthivendro rākṣasendraṃ prahṛṣṭavat
स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः ।
अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ
sa taṃ pramucya tridaśārimarjunaḥ prapūjya divyābharaṇasragambaraiḥ |
ahiṃsakaṃ sakhyamupetya sāgnikaṃ praṇamya taṃ brahmasutaṃ gṛhaṃ yayau
पुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान् ।
परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः
pulastyenāpi santyakto rākṣasendraḥ pratāpavān |
pariṣvaktaḥ kṛtātithyo lajjamāno vinirjitaḥ
पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः ।
मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह
pitāmahasutaścāpi pulastyo munipuṅgavaḥ |
mocayitvā daśagrīvaṃ brahmalokaṃ jagāma ha
एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम् ।
पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः
evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryātpradharṣaṇam |
pulastyavacanāccāpi punarmukto mahābalaḥ
एवं बलिभ्यो बलिनः सन्ति राघवनन्दन ।
नावज्ञा हि परे कार्या य इच्छेत् प्रियमात्मनः
evaṃ balibhyo balinaḥ santi rāghavanandana |
nāvajñā hi pare kāryā ya icchet priyamātmanaḥ
ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् ।
पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात्
tataḥ sa rājā piśitāśanānāṃ sahasrabāhorupalabhya maitrīm |
punarnṛpāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)