तस्य तद् वचनं श्रुत्वा वालिसूनुरभाषत ।
अश्विपुत्रौ महावेगौ बलवन्तौ प्लवंगमौ
tasya tad vacanaṃ śrutvā vālisūnurabhāṣata |
aśviputrau mahāvegau balavantau plavaṃgamau
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे षष्ठितमः सर्गः ॥ ५.६० ॥
20 श्लोक · 60 में से 68
हनुमान की बात सुनकर वाली-पुत्र अंगद कहते हैं: अश्विनीकुमारों के पुत्र मैन्द और द्विविद ने ब्रह्मा के वर से अमृत पिया है और घोड़ों तथा रथों सहित लंका को नष्ट कर सकते हैं। मैं स्वयं रावण सहित सब राक्षसों को मार सकता हूँ। जब हनुमान ने ही इतने राक्षस मार दिए, तो जानकी को लाकर राम और लक्ष्मण के बीच रखने के सिवा और क्या शेष है? चलकर राक्षसों को मारें और सीता के साथ लौटें। बुद्धिमान जाम्बवान उन्हें रोकते हैं: हमें केवल दक्षिण खोजने की आज्ञा थी, सीता को लाने की नहीं; राम इसे पसन्द नहीं करेंगे, क्योंकि उन्होंने सब वानरों के सामने स्वयं सीता को लाने की प्रतिज्ञा की है। व्यर्थ दिखाया पराक्रम उन्हें अप्रिय होगा। चलो, राम, लक्ष्मण और सुग्रीव के पास चलें।
तस्य तद् वचनं श्रुत्वा वालिसूनुरभाषत ।
अश्विपुत्रौ महावेगौ बलवन्तौ प्लवंगमौ
tasya tad vacanaṃ śrutvā vālisūnurabhāṣata |
aśviputrau mahāvegau balavantau plavaṃgamau
पितामहवरोत्सेकात् परमं दर्पमास्थितौ ।
अश्विनोर्माननार्थं हि सर्वलोकपितामहः
pitāmahavarotsekāt paramaṃ darpamāsthitau |
aśvinormānanārthaṃ hi sarvalokapitāmahaḥ
सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ।
वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम्
sarvāvadhyatvamatulamanayordattavān purā |
varotsekena mattau ca pramathya mahatīṃ camūm
सुराणाममृतं वीरौ पीतवन्तौ महाबलौ ।
एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम्
surāṇāmamṛtaṃ vīrau pītavantau mahābalau |
etāveva hi saṃkruddhau savājirathakuñjarām
लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ।
अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्
laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ |
ahameko'pi paryāptaḥ sarākṣasagaṇāṃ purīm
तां लङ्कां तरसा हन्तुं रावणं च महाबलम् ।
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः
tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam |
kiṃ punaḥ sahito vīrairbalavadbhiḥ kṛtātmabhiḥ
कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः ।
वायुसूनोर्बलेनैव दग्धा लङ्केति नः श्रुतम्
kṛtāstraiḥ plavagaiḥ śaktairbhavadbhirvijayaiṣibhiḥ |
vāyusūnorbalenaiva dagdhā laṅketi naḥ śrutam
दृष्टा देवी न चानीता इति तत्र निवेदितुम् ।
न युक्तमिव पश्यामि भवद्भिः ख्यातपौरुषैः
dṛṣṭā devī na cānītā iti tatra niveditum |
na yuktamiva paśyāmi bhavadbhiḥ khyātapauruṣaiḥ
नहि वः प्लवने कश्चिन्नापि कश्चित् पराक्रमे ।
तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः
nahi vaḥ plavane kaścinnāpi kaścit parākrame |
tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ
जित्वा लङ्कां सरक्षौघां हत्वा तं रावणं रणे ।
सीतामादाय गच्छामः सिद्धार्था हृष्टमानसाः
jitvā laṅkāṃ sarakṣaughāṃ hatvā taṃ rāvaṇaṃ raṇe |
sītāmādāya gacchāmaḥ siddhārthā hṛṣṭamānasāḥ
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ।
किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्
teṣvevaṃ hatavīreṣu rākṣaseṣu hanūmatā |
kimanyadatra kartavyaṃ gṛhītvā yāma jānakīm
रामलक्ष्मणयोर्मध्ये न्यस्याम जनकात्मजाम् ।
किं व्यलीकैस्तु तान् सर्वान् वानरान् वानरर्षभान्
rāmalakṣmaṇayormadhye nyasyāma janakātmajām |
kiṃ vyalīkaistu tān sarvān vānarān vānararṣabhān
वयमेव हि गत्वा तान् हत्वा राक्षसपुङ्गवान् ।
राघवं द्रष्टुमर्हामः सुग्रीवं सहलक्ष्मणम्
vayameva hi gatvā tān hatvā rākṣasapuṅgavān |
rāghavaṃ draṣṭumarhāmaḥ sugrīvaṃ sahalakṣmaṇam
तमेवं कृतसंकल्पं जाम्बवान् हरिसत्तमः ।
उवाच परमप्रीतो वाक्यमर्थवदर्थवित्
tamevaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ |
uvāca paramaprīto vākyamarthavadarthavit
नैषा बुद्धिर्महाबुद्धे यद् ब्रवीषि महाकपे ।
विचेतुं वयमाज्ञप्ता दक्षिणां दिशमुत्तमाम्
naiṣā buddhirmahābuddhe yad bravīṣi mahākape |
vicetuṃ vayamājñaptā dakṣiṇāṃ diśamuttamām
नानेतुं कपिराजेन नैव रामेण धीमता ।
कथंचिन्निर्जितां सीतामस्माभिर्नाभिरोचयेत्
nānetuṃ kapirājena naiva rāmeṇa dhīmatā |
kathaṃcinnirjitāṃ sītāmasmābhirnābhirocayet
राघवो नृपशार्दूलः कुलं व्यपदिशन् स्वकम् ।
प्रतिज्ञाय स्वयं राजा सीताविजयमग्रतः
rāghavo nṛpaśārdūlaḥ kulaṃ vyapadiśan svakam |
pratijñāya svayaṃ rājā sītāvijayamagrataḥ
सर्वेषां कपिमुख्यानां कथं मिथ्या करिष्यति ।
विफलं कर्म च कृतं भवेत् तुष्टिर्न तस्य च
sarveṣāṃ kapimukhyānāṃ kathaṃ mithyā kariṣyati |
viphalaṃ karma ca kṛtaṃ bhavet tuṣṭirna tasya ca
वृथा च दर्शितं वीर्यं भवेद् वानरपुङ्गवाः ।
तस्माद् गच्छाम वै सर्वे यत्र रामः सलक्ष्मणः ।
सुग्रीवश्च महातेजाः कार्यस्यास्य निवेदने
vṛthā ca darśitaṃ vīryaṃ bhaved vānarapuṅgavāḥ |
tasmād gacchāma vai sarve yatra rāmaḥ salakṣmaṇaḥ |
sugrīvaśca mahātejāḥ kāryasyāsya nivedane
न तावदेषा मतिरक्षमा नो
यथा भवान् पश्यति राजपुत्र ।
यथा तु रामस्य मतिर्निविष्टा
तथा भवान् पश्यतु कार्यसिद्धिम्
na tāvadeṣā matirakṣamā no
yathā bhavān paśyati rājaputra |
yathā tu rāmasya matirniviṣṭā
tathā bhavān paśyatu kāryasiddhim
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)