शोकाद् भ्रष्टस्वरमपि श्रुत्वा वानरयूथपाः ।
श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः
śokād bhraṣṭasvaramapi śrutvā vānarayūthapāḥ |
śraddadhurnaiva tadvākyaṃ karmaṇā tasya śaṅkitāḥ
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥४-५७॥
19 श्लोक · 57 में से 67
शोक से टूटे स्वर के बावजूद वानर-प्रमुख गृध्र पर विश्वास नहीं करते। फिर भी सोचते हैं कि अनशन में बैठे हमें यह खा ले तो हमारा उद्देश्य पूरा होगा, क्योंकि हम मरना ही चाहते हैं। उसे नीचे उतारकर अंगद वृत्तान्त सुनाते हैं: दशरथ-पुत्र राम पिता की आज्ञा से लक्ष्मण और सीता के साथ दण्डकवन आए। रावण जनस्थान से सीता को हर ले गया। राम के पिता के मित्र जटायु ने उन्हें ले जाते देखा, रावण से लड़े, उसका रथ तोड़कर सीता को उतारा, पर वृद्ध और थके होने से मारे गए। फिर राम ने सुग्रीव से मित्रता करके वाली को मारा और सुग्रीव ने हमें खोज में भेजा। सीता नहीं मिलीं, अवधि बीत गई, और सुग्रीव के भय से हम यहाँ अनशन कर रहे हैं।
शोकाद् भ्रष्टस्वरमपि श्रुत्वा वानरयूथपाः ।
श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः
śokād bhraṣṭasvaramapi śrutvā vānarayūthapāḥ |
śraddadhurnaiva tadvākyaṃ karmaṇā tasya śaṅkitāḥ
ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवंगमाः ।
चक्रुर्बुद्धिं तदा रौद्रां सर्वान् नो भक्षयिष्यति
te prāyamupaviṣṭāstu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ |
cakrurbuddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati
सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति ।
कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः
sarvathā prāyamāsīnān yadi no bhakṣayiṣyati |
kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhimito gatāḥ
एतां बुद्धिं ततश्चक्रुः सर्वे ते हरियूथपाः ।
अवतार्य गिरेः शृङ्गाद् गृध्रमाहाङ्गदस्तदा
etāṃ buddhiṃ tataścakruḥ sarve te hariyūthapāḥ |
avatārya gireḥ śṛṅgād gṛdhramāhāṅgadastadā
बभूवर्क्षरजो नाम वानरेन्द्रः प्रतापवान् ।
ममार्यः पार्थिवः पक्षिन् धार्मिकौ तस्य चात्मजौ
babhūvarkṣarajo nāma vānarendraḥ pratāpavān |
mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau
सुग्रीवश्चैव वाली च पुत्रौ घनबलावुभौ ।
लोके विश्रुतकर्माभूद् राजा वाली पिता मम
sugrīvaścaiva vālī ca putrau ghanabalāvubhau |
loke viśrutakarmābhūd rājā vālī pitā mama
राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः ।
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्
rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ |
rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
लक्ष्मणेन सह भ्रात्रा वैदेह्या सह भार्यया ।
पितुर्निदेशनिरतो धर्मं पन्थानमाश्रितः
lakṣmaṇena saha bhrātrā vaidehyā saha bhāryayā |
piturnideśanirato dharmaṃ panthānamāśritaḥ
तस्य भार्या जनस्थानाद् रावणेन हृता बलात् ।
रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट्
tasya bhāryā janasthānād rāvaṇena hṛtā balāt |
rāmasya tu piturmitraṃ jaṭāyurnāma gṛdhrarāṭ
ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ।
रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् ।
परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे
dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā |
rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm |
pariśrāntaśca vṛddhaśca rāvaṇena hato raṇe
एवं गृध्रो हतस्तेन रावणेन बलीयसा ।
संस्कृतश्चापि रामेण जगाम गतिमुत्तमाम्
evaṃ gṛdhro hatastena rāvaṇena balīyasā |
saṃskṛtaścāpi rāmeṇa jagāma gatimuttamām
ततो मम पितृव्येण सुग्रीवेण महात्मना ।
चकार राघवः सख्यं सोऽवधीत् पितरं मम
tato mama pitṛvyeṇa sugrīveṇa mahātmanā |
cakāra rāghavaḥ sakhyaṃ so'vadhīt pitaraṃ mama
मम पित्रा निरुद्धो हि सुग्रीवः सचिवैः सह ।
निहत्य वालिनं रामस्ततस्तमभिषेचयत्
mama pitrā niruddho hi sugrīvaḥ sacivaiḥ saha |
nihatya vālinaṃ rāmastatastamabhiṣecayat
स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः ।
राजा वानरमुख्यानां तेन प्रस्थापिता वयम्
sa rājye sthāpitastena sugrīvo vānareśvaraḥ |
rājā vānaramukhyānāṃ tena prasthāpitā vayam
एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः ।
वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव
evaṃ rāmaprayuktāstu mārgamāṇāstatastataḥ |
vaidehīṃ nādhigacchāmo rātrau sūryaprabhāmiva
ते वयं दण्डकारण्यं विचित्य सुसमाहिताः ।
अज्ञानात् तु प्रविष्टाः स्म धरण्या विवृतं बिलम्
te vayaṃ daṇḍakāraṇyaṃ vicitya susamāhitāḥ |
ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam
मयस्य मायाविहितं तद् बिलं च विचिन्वताम् ।
व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः
mayasya māyāvihitaṃ tad bilaṃ ca vicinvatām |
vyatītastatra no māso yo rājñā samayaḥ kṛtaḥ
ते वयं कपिराजस्य सर्वे वचनकारिणः ।
कृतां संस्थामतिक्रान्ता भयात् प्रायमुपासिताः
te vayaṃ kapirājasya sarve vacanakāriṇaḥ |
kṛtāṃ saṃsthāmatikrāntā bhayāt prāyamupāsitāḥ
क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे ।
गतानामपि सर्वेषां तत्र नो नास्ति जीवितम्
kruddhe tasmiṃstu kākutsthe sugrīve ca salakṣmaṇe |
gatānāmapi sarveṣāṃ tatra no nāsti jīvitam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)