किष्किन्धाकाण्ड

सर्ग 21: हनुमान द्वारा तारा को सांत्वना

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकविंशः सर्गः ॥४-२१॥

16 श्लोक · 21 में से 67

इस अध्याय में क्या होता है

हनुमान द्वारा तारा को सांत्वना

आकाश से टूटे तारे-सी गिरी तारा को वानर-यूथपति हनुमान कोमलता से सांत्वना देते हैं: हर प्राणी अपने शुभ-अशुभ कर्मों का फल पाता है; जब यह शरीर बुलबुले-सा है, तो किसके लिए शोक करें? वाली ने अच्छा राज्य किया और धर्मात्माओं के लोक में गए हैं। उठिए, उनके संस्कार और अंगद के अभिषेक की व्यवस्था कीजिए, क्योंकि वानर और राज्य अब आपके हाथ में हैं। तारा उत्तर देती हैं कि अंगद जैसे सौ पुत्रों पर राज करने से अच्छा है कि मैं अपने मृत पति को गले लगाए रहूँ। मैं राज्य के योग्य नहीं, न अंगद; राज्य सुग्रीव को करना चाहिए। पुत्र का सच्चा बन्धु पिता होता है, माता नहीं; मैं वाली को नहीं छोड़ सकती।

21.1

ततो निपतितां तारां च्युतां तारामिवाम्बरात् ।
शनैराश्वासयामास हनुमान् हरियूथपः

tato nipatitāṃ tārāṃ cyutāṃ tārāmivāmbarāt |
śanairāśvāsayāmāsa hanumān hariyūthapaḥ

21.2

गुणदोषकृतं जन्तुः स्वकर्म फलहेतुकम् ।
अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम्

guṇadoṣakṛtaṃ jantuḥ svakarma phalahetukam |
avyagrastadavāpnoti sarvaṃ pretya śubhāśubham

21.3

शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे ।
कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे

śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase |
kaśca kasyānuśocyo'sti dehe'smin budbudopame

21.4

अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया ।
आयत्यां च विधेयानि समर्थान्यस्य चिन्तय

aṅgadastu kumāro'yaṃ draṣṭavyo jīvaputrayā |
āyatyāṃ ca vidheyāni samarthānyasya cintaya

21.5

जानास्यनियतामेवं भूतानामागतिं गतिम् ।
तस्माच्छुभं हि कर्तव्यं पण्डिते नेह लौकिकम्

jānāsyaniyatāmevaṃ bhūtānāmāgatiṃ gatim |
tasmācchubhaṃ hi kartavyaṃ paṇḍite neha laukikam

21.6

यस्मिन् हरिसहस्राणि शतानि नियुतानि च ।
वर्तयन्ति कृताशानि सोऽयं दिष्टान्तमागतः

yasmin harisahasrāṇi śatāni niyutāni ca |
vartayanti kṛtāśāni so'yaṃ diṣṭāntamāgataḥ

21.7

यदयं न्यायदृष्टार्थः सामदानक्षमापरः ।
गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि

yadayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ |
gato dharmajitāṃ bhūmiṃ nainaṃ śocitumarhasi

21.8

सर्वे च हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः ।
हर्यृक्षपतिराज्यं च त्वत्सनाथमनिन्दिते

sarve ca hariśārdūlāḥ putraścāyaṃ tavāṅgadaḥ |
haryṛkṣapatirājyaṃ ca tvatsanāthamanindite

21.9

ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि ।
त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम्

tāvimau śokasaṃtaptau śanaiḥ preraya bhāmini |
tvayā parigṛhīto'yamaṅgadaḥ śāstu medinīm

21.10

संततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम् ।
राज्ञस्तत् क्रियतां सर्वमेष कालस्य निश्चयः

saṃtatiśca yathā dṛṣṭā kṛtyaṃ yaccāpi sāmpratam |
rājñastat kriyatāṃ sarvameṣa kālasya niścayaḥ

21.11

संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम् ।
सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि

saṃskāryo harirājastu aṅgadaścābhiṣicyatām |
siṃhāsanagataṃ putraṃ paśyantī śāntimeṣyasi

21.12

सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता ।
अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम्

sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā |
abravīduttaraṃ tārā hanūmantamavasthitam

21.13

अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम् ।
हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम्

aṅgadapratirūpāṇāṃ putrāṇāmekataḥ śatam |
hatasyāpyasya vīrasya gātrasaṃśleṣaṇaṃ varam

21.14

न चाहं हरिराज्यस्य प्रभवाम्यङ्गदस्य वा ।
पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः

na cāhaṃ harirājyasya prabhavāmyaṅgadasya vā |
pitṛvyastasya sugrīvaḥ sarvakāryeṣvanantaraḥ

21.15

नह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति ।
पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम

nahyeṣā buddhirāstheyā hanūmannaṅgadaṃ prati |
pitā hi bandhuḥ putrasya na mātā harisattama

21.16

नहि मम हरिराजसंश्रयात्
क्षमतरमस्ति परत्र चेह वा ।
अभिमुखहतवीरसेवितं
शयनमिदं मम सेवितुं क्षमम्

nahi mama harirājasaṃśrayāt
kṣamataramasti paratra ceha vā |
abhimukhahatavīrasevitaṃ
śayanamidaṃ mama sevituṃ kṣamam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)