बालकाण्ड

सर्ग 74: मार्ग में परशुराम प्रकट होते हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःसप्ततितमः सर्गः ॥१-७४॥

24 श्लोक · 74 में से 77

इस अध्याय में क्या होता है

मार्ग में परशुराम प्रकट होते हैं

रात बीतने पर विश्वामित्र दोनों राजाओं से विदा लेकर उत्तर पर्वत की ओर जाते हैं। दशरथ अयोध्या लौटने की तैयारी करते हैं। जनक पुत्रियों को भरपूर दहेज देते हैं: गौएँ, रेशमी वस्त्र, हाथी, घोड़े, दासियाँ, सोना और मोती। मार्ग में चारों ओर भयानक पक्षी बोलते हैं, जबकि हिरन दाहिनी ओर से निकलते हैं। दशरथ वसिष्ठ से अर्थ पूछते हैं; मुनि कहते हैं कि पक्षी आकाश से भय की सूचना देते हैं, हिरन बताते हैं कि भय टल जाएगा। आँधी उठती है, धरती काँपती है, अँधेरा सूर्य को ढक लेता है, और सेना अचेत हो जाती है। तब वे जमदग्नि-पुत्र परशुराम को देखते हैं अग्नि जैसे भयंकर, जटाधारी, कन्धे पर फरसा और हाथ में धनुष लिए। ऋषि अर्घ्य देकर 'राम, राम' कहते हैं। वे पूजा स्वीकार कर दशरथ-पुत्र से बोलते हैं।

74.1

अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः ।
आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम्

atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ |
āpṛṣṭvā tau ca rājānau jagāmottaraparvatam

74.2

विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् ।
आपृष्ट्वैव जगामाशु राजा दशरथः पुरीम्

viśvāmitre gate rājā vaidehaṃ mithilādhipam |
āpṛṣṭvaiva jagāmāśu rājā daśarathaḥ purīm

74.3

अथ राजा विदेहानां ददौ कन्याधनं बहु ।
गवां शतसहस्राणि बहूनि मिथिलेश्वरः

atha rājā videhānāṃ dadau kanyādhanaṃ bahu |
gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ

74.4

कम्बलानां च मुख्यानां क्षौमान् कोट्यम्बराणि च ।
हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम्

kambalānāṃ ca mukhyānāṃ kṣaumān koṭyambarāṇi ca |
hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam

74.5

ददौ कन्याशतं तासां दासीदासमनुत्तमम् ।
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च

dadau kanyāśataṃ tāsāṃ dāsīdāsamanuttamam |
hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca

74.6

ददौ राजा सुसंहृष्टः कन्याधनमनुत्तमम् ।
दत्त्वा बहुविधं राजा समनुज्ञाप्य पार्थिवम्

dadau rājā susaṃhṛṣṭaḥ kanyādhanamanuttamam |
dattvā bahuvidhaṃ rājā samanujñāpya pārthivam

74.7

प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ।
राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः

praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ |
rājāpyayodhyādhipatiḥ saha putrairmahātmabhiḥ

74.8

ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः ।
गच्छन्तं तु नरव्याघ्रं सर्षिसङ्घं सराघवम्

ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ |
gacchantaṃ tu naravyāghraṃ sarṣisaṅghaṃ sarāghavam

74.9

घोरास्तु पक्षिणो वाचो व्याहरन्ति समन्ततः ।
भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्

ghorāstu pakṣiṇo vāco vyāharanti samantataḥ |
bhaumāścaiva mṛgāḥ sarve gacchanti sma pradakṣiṇam

74.10

तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत ।
असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः

tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata |
asaumyāḥ pakṣiṇo ghorā mṛgāścāpi pradakṣiṇāḥ

74.11

किमिदं हृदयोत्कम्पि मनो मम विषीदति ।
राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः

kimidaṃ hṛdayotkampi mano mama viṣīdati |
rājño daśarathasyaitacchrutvā vākyaṃ mahānṛṣiḥ

74.12

उवाच मधुरां वाणीं श्रूयतामस्य यत् फलम् ।
उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम्

uvāca madhurāṃ vāṇīṃ śrūyatāmasya yat phalam |
upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāccyutam

74.13

मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम् ।
तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह

mṛgāḥ praśamayantyete saṃtāpastyajyatāmayam |
teṣāṃ saṃvadatāṃ tatra vāyuḥ prādurbabhūva ha

74.14

कम्पयन् मेदिनीं सर्वां पातयंश्च महाद्रुमान् ।
तमसा संवृतः सूर्यः सर्वे नावेदिषुर्दिशः

kampayan medinīṃ sarvāṃ pātayaṃśca mahādrumān |
tamasā saṃvṛtaḥ sūryaḥ sarve nāvediṣurdiśaḥ

74.15

भस्मना चावृतं सर्वं सम्मूढमिव तद्बलम् ।
वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा

bhasmanā cāvṛtaṃ sarvaṃ sammūḍhamiva tadbalam |
vasiṣṭha ṛṣayaścānye rājā ca sasutastadā

74.16

ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् ।
तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः

sasaṃjñā iva tatrāsan sarvamanyadvicetanam |
tasmiṃstamasi ghore tu bhasmacchanneva sā camūḥ

74.17

ददर्श भीमसंकाशं जटामण्डलधारिणम् ।
भार्गवं जामदग्न्येयं राजा राजविमर्दनम्

dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam |
bhārgavaṃ jāmadagnyeyaṃ rājā rājavimardanam

74.18

कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम् ।
ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः

kailāsamiva durdharṣaṃ kālāgnimiva duḥsaham |
jvalantamiva tejobhirdurnirīkṣyaṃ pṛthagjanaiḥ

74.19

स्कन्धे चासज्ज्य परशुं धनुर्विद्युद्गणोपमम् ।
प्रगृह्य शरमुग्रं च त्रिपुरघ्नं यथा शिवम्

skandhe cāsajjya paraśuṃ dhanurvidyudgaṇopamam |
pragṛhya śaramugraṃ ca tripuraghnaṃ yathā śivam

74.20

तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम् ।
वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः

taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantamiva pāvakam |
vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ

74.21

संगता मुनयः सर्वे संजजल्पुरथो मिथः ।
कच्चित् पितृवधामर्षी क्षत्रं नोत्सादयिष्यति

saṃgatā munayaḥ sarve saṃjajalpuratho mithaḥ |
kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati

74.22

पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः ।
क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्

pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyurgatajvaraḥ |
kṣatrasyotsādanaṃ bhūyo na khalvasya cikīrṣitam

74.23

एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम् ।
ऋषयो राम रामेति मधुरं वाक्यमब्रुवन्

evamuktvārghyamādāya bhārgavaṃ bhīmadarśanam |
ṛṣayo rāma rāmeti madhuraṃ vākyamabruvan

74.24

प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् ।
रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत

pratigṛhya tu tāṃ pūjāmṛṣidattāṃ pratāpavān |
rāmaṃ dāśarathiṃ rāmo jāmadagnyo'bhyabhāṣata

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)