बालकाण्ड

सर्ग 58: शापित त्रिशंकु विश्वामित्र की शरण में

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टपञ्चाशः सर्गः ॥१-५८॥

24 श्लोक · 58 में से 77

इस अध्याय में क्या होता है

शापित त्रिशंकु विश्वामित्र की शरण में

वसिष्ठ के पुत्र क्रोध से कहते हैं: मूर्ख, सत्यवादी गुरु ने तुम्हें मना कर दिया, फिर उन्हें लाँघकर दूसरी शाखा के पास कैसे आए? जब त्रिशंकु कहते हैं कि मैं किसी और के पास जाऊँगा, तो वे शाप देते हैं: तुम चाण्डाल हो जाओगे। सुबह तक उनका शरीर काला, वस्त्र मोटे और मालाएँ तथा आभूषण लोहे के हो जाते हैं। मन्त्री और प्रजा उन्हें छोड़ देते हैं। अकेले, दिन-रात जलते हुए वे विश्वामित्र के पास जाते हैं। करुणा से भरे मुनि पूछते हैं कि क्या हुआ। त्रिशंकु सब बताते हैं; धर्म से राज्य किया, कभी झूठ नहीं बोला, फिर भी ठुकरा दिया गया। दैव पुरुषार्थ पर भारी है; आप पुरुषार्थ से दैव को पलट सकते हैं। मेरी और कोई शरण नहीं।

58.1

ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् ।
ऋषिपुत्रशतं राम राजानमिदमब्रवीत्

tatastriśaṅkorvacanaṃ śrutvā krodhasamanvitam |
ṛṣiputraśataṃ rāma rājānamidamabravīt

58.2

प्रत्याख्यातोऽसि दुर्मेधो गुरुणा सत्यवादिना ।
तं कथं समतिक्रम्य शाखान्तरमुपेयिवान्

pratyākhyāto'si durmedho guruṇā satyavādinā |
taṃ kathaṃ samatikramya śākhāntaramupeyivān

58.3

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः ।
न चातिक्रमितुं शक्यं वचनं सत्यवादिनः

ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ |
na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ

58.4

अशक्यमिति सोवाच वसिष्ठो भगवानृषिः ।
तं वयं वै समाहर्तुं क्रतुं शक्ताः कथंचन

aśakyamiti sovāca vasiṣṭho bhagavānṛṣiḥ |
taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃcana

58.5

बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः ।
याजने भगवान् शक्तस्त्रैलोक्यस्यापि पार्थिव

bāliśastvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ |
yājane bhagavān śaktastrailokyasyāpi pārthiva

58.6

अवमानं कथं कर्तुं तस्य शक्ष्यामहे वयम् ।
तेषां तद् वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम्

avamānaṃ kathaṃ kartuṃ tasya śakṣyāmahe vayam |
teṣāṃ tad vacanaṃ śrutvā krodhaparyākulākṣaram

58.7

स राजा पुनरेवैतानिदं वचनमब्रवीत् ।
प्रत्याख्यातो भगवता गुरुपुत्रैस्तथैव हि

sa rājā punarevaitānidaṃ vacanamabravīt |
pratyākhyāto bhagavatā guruputraistathaiva hi

58.8

अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः ।
ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम्

anyāṃ gatiṃ gamiṣyāmi svasti vo'stu tapodhanāḥ |
ṛṣiputrāstu tacchrutvā vākyaṃ ghorābhisaṃhitam

58.9

शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि ।
इत्युक्त्वा ते महात्मानो विविशुः स्वं स्वमाश्रमम्

śepuḥ paramasaṃkruddhāścaṇḍālatvaṃ gamiṣyasi |
ityuktvā te mahātmāno viviśuḥ svaṃ svamāśramam

58.10

अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः ।
नीलवस्त्रधरो नीलः पुरुषो ध्वस्तमूर्धजः

atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ |
nīlavastradharo nīlaḥ puruṣo dhvastamūrdhajaḥ

58.11

चित्यमाल्यांगरागश्च आयसाभरणोऽभवत् ।
तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम्

cityamālyāṃgarāgaśca āyasābharaṇo'bhavat |
taṃ dṛṣṭvā mantriṇaḥ sarve tyajya caṇḍālarūpiṇam

58.12

प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः ।
एको हि राजा काकुत्स्थ जगाम परमात्मवान्

prādravan sahitā rāma paurā ye'syānugāminaḥ |
eko hi rājā kākutstha jagāma paramātmavān

58.13

दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् ।
विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम्

dahyamāno divārātraṃ viśvāmitraṃ tapodhanam |
viśvāmitrastu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam

58.14

चण्डालरूपिणं राम मुनिः कारुण्यमागतः ।
कारुण्यात् स महातेजा वाक्यं परमधार्मिकः

caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyamāgataḥ |
kāruṇyāt sa mahātejā vākyaṃ paramadhārmikaḥ

58.15

इदं जगाद भद्रं ते राजानं घोरदर्शनम् ।
किमागमनकार्यं ते राजपुत्र महाबल

idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam |
kimāgamanakāryaṃ te rājaputra mahābala

58.16

अयोध्याधिपते वीर शापाच्चण्डालतां गतः ।
अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतः

ayodhyādhipate vīra śāpāccaṇḍālatāṃ gataḥ |
atha tadvākyamākarṇya rājā caṇḍālatāṃ gataḥ

58.17

अब्रवीत् प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम् ।
प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च

abravīt prāñjalirvākyaṃ vākyajño vākyakovidam |
pratyākhyāto'smi guruṇā guruputraistathaiva ca

58.18

अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः ।
सशरीरो दिवं यायामिति मे सौम्यदर्शन

anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ |
saśarīro divaṃ yāyāmiti me saumyadarśana

58.19

मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम् ।
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन

mayā ceṣṭaṃ kratuśataṃ tacca nāvāpyate phalam |
anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana

58.20

कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे ।
यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः

kṛcchreṣvapi gataḥ saumya kṣatradharmeṇa te śape |
yajñairbahuvidhairiṣṭaṃ prajā dharmeṇa pālitāḥ

58.21

गुरवश्च महात्मानः शीलवृत्तेन तोषिताः ।
धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः

guravaśca mahātmānaḥ śīlavṛttena toṣitāḥ |
dharme prayatamānasya yajñaṃ cāhartumicchataḥ

58.22

परितोषं न गच्छन्ति गुरवो मुनिपुंगव ।
दैवमेव परं मन्ये पौरुषं तु निरर्थकम्

paritoṣaṃ na gacchanti guravo munipuṃgava |
daivameva paraṃ manye pauruṣaṃ tu nirarthakam

58.23

दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः ।
तस्य मे परमार्तस्य प्रसादमभिकांक्षतः ।
कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः

daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ |
tasya me paramārtasya prasādamabhikāṃkṣataḥ |
kartumarhasi bhadraṃ te daivopahatakarmaṇaḥ

58.24

नान्यां गतिं गमिष्यामि नान्यच्छरणमस्ति मे ।
दैवं पुरुषकारेण निवर्तयितुमर्हसि

nānyāṃ gatiṃ gamiṣyāmi nānyaccharaṇamasti me |
daivaṃ puruṣakāreṇa nivartayitumarhasi

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)