एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः ।
आग्नेयमस्त्रमुद्दिश्य तिष्ठ तिष्ठेति चाब्रवीत्
evamukto vasiṣṭhena viśvāmitro mahābalaḥ |
āgneyamastramuddiśya tiṣṭha tiṣṭheti cābravīt
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्पञ्चाशः सर्गः ॥१-५६॥
24 श्लोक · 56 में से 77
विश्वामित्र 'ठहरो, ठहरो' कहते हुए आग्नेयास्त्र चलाते हैं। ब्रह्मदण्ड उठाए वसिष्ठ कहते हैं: मैं यहीं खड़ा हूँ, जो है दिखाओ, मैं तुम्हारा घमण्ड तोड़ दूँगा। विश्वामित्र सब छोड़ देते हैं: वारुण, रौद्र, ऐन्द्र, पाशुपत और ऐषीक, मानव, मोहन और गान्धर्व, पिनाक, वज्र, ब्रह्मपाश, कालपाश और वरुणपाश, चक्र, त्रिशूल, और अन्त में ब्रह्मास्त्र। दण्ड सब निगल जाता है। ब्रह्मास्त्र निगलते समय वसिष्ठ के रोम-रोम से ज्वालाएँ और चिनगारियाँ निकलती हैं, और उनका रूप तीनों लोकों को मोहित करने वाला भयंकर हो जाता है। ऋषि उनसे शान्त होने की प्रार्थना करते हैं। विश्वामित्र आह भरकर कहते हैं: 'धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्', क्षत्रिय-बल को धिक्कार है, ब्रह्मतेज ही सच्चा बल है। वे ब्राह्मणत्व पाने के लिए तप का निश्चय करते हैं।
एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः ।
आग्नेयमस्त्रमुद्दिश्य तिष्ठ तिष्ठेति चाब्रवीत्
evamukto vasiṣṭhena viśvāmitro mahābalaḥ |
āgneyamastramuddiśya tiṣṭha tiṣṭheti cābravīt
ब्रह्मदण्डं समुद्यम्य कालदण्डमिवापरम् ।
वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत्
brahmadaṇḍaṃ samudyamya kāladaṇḍamivāparam |
vasiṣṭho bhagavān krodhādidaṃ vacanamabravīt
क्षत्रबन्धो स्थितोऽस्म्येष यद् बलं तद् विदर्शय ।
नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज
kṣatrabandho sthito'smyeṣa yad balaṃ tad vidarśaya |
nāśayāmyadya te darpaṃ śastrasya tava gādhija
क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् ।
पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन
kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat |
paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana
तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम् ।
ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा
tasyāstraṃ gādhiputrasya ghoramāgneyamuttamam |
brahmadaṇḍena tacchāntamagnervega ivāmbhasā
वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा ।
ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः
vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā |
aiṣīkaṃ cāpi cikṣepa kupito gādhinandanaḥ
मानवं मोहनं चैव गान्धर्वं स्वापनं तथा ।
जृम्भणं मादनं चैव संतापनविलापने
mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā |
jṛmbhaṇaṃ mādanaṃ caiva saṃtāpanavilāpane
शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् ।
ब्रह्मपाशं कालपाशं वारुणं पाशमेव च
śoṣaṇaṃ dāraṇaṃ caiva vajramastraṃ sudurjayam |
brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśameva ca
पिनाकमस्त्रं दयितं शुष्कार्द्रे अशनी तथा ।
दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च
pinākamastraṃ dayitaṃ śuṣkārdre aśanī tathā |
daṇḍāstramatha paiśācaṃ krauñcamastraṃ tathaiva ca
धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च ।
वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा
dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca |
vāyavyaṃ mathanaṃ caiva astraṃ hayaśirastathā
शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा ।
वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम्
śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā |
vaidyādharaṃ mahāstraṃ ca kālāstramatha dāruṇam
त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम् ।
एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन
triśūlamastraṃ ghoraṃ ca kāpālamatha kaṅkaṇam |
etānyastrāṇi cikṣepa sarvāṇi raghunandana
वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् ।
तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः
vasiṣṭhe japatāṃ śreṣṭhe tadadbhutamivābhavat |
tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ
तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः ।
तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः
teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ |
tadastramudyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ
देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः ।
त्रैलोक्यमासीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते
devarṣayaśca sambhrāntā gandharvāḥ samahoragāḥ |
trailokyamāsīt saṃtrastaṃ brahmāstre samudīrite
तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा ।
वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव
tadapyastraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā |
vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava
ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः ।
त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम्
brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ |
trailokyamohanaṃ raudraṃ rūpamāsīt sudāruṇam
रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः ।
मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः
romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ |
marīcya iva niṣpeturagnerdhūmākulārciṣaḥ
प्राज्वलद् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः ।
विधूम इव कालाग्नेर्यमदण्ड इवापरः
prājvalad brahmadaṇḍaśca vasiṣṭhasya karodyataḥ |
vidhūma iva kālāgneryamadaṇḍa ivāparaḥ
ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम् ।
अमोघं ते बलं ब्रह्मंस्तेजो धारय तेजसा
tato'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam |
amoghaṃ te balaṃ brahmaṃstejo dhāraya tejasā
निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महाबलः ।
अमोघं ते बलं श्रेष्ठ लोकाः सन्तु गतव्यथाः
nigṛhītastvayā brahman viśvāmitro mahābalaḥ |
amoghaṃ te balaṃ śreṣṭha lokāḥ santu gatavyathāḥ
एवमुक्तो महातेजाः शमं चक्रे महाबलः ।
विश्वामित्रो विनिकृतो विनिःश्वस्येदमब्रवीत्
evamukto mahātejāḥ śamaṃ cakre mahābalaḥ |
viśvāmitro vinikṛto viniḥśvasyedamabravīt
धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् ।
एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे
dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam |
ekena brahmadaṇḍena sarvāstrāṇi hatāni me
तदेतत् प्रसमीक्ष्याहं प्रसन्नेन्द्रियमानसः ।
तपो महत् समास्थास्ये यद् वै ब्रह्मत्वकारणम्
tadetat prasamīkṣyāhaṃ prasannendriyamānasaḥ |
tapo mahat samāsthāsye yad vai brahmatvakāraṇam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)