अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ ।
देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः
atha tau deśakālajñau rājaputrāvariṃdamau |
deśe kāle ca vākyajñāvabrūtāṃ kauśikaṃ vacaḥ
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिंशः सर्गः ॥१-३०॥
26 श्लोक · 30 में से 77
राजकुमार पूछते हैं कि राक्षस कब आएँगे। ऋषि बताते हैं कि दीक्षा में स्थित विश्वामित्र छह रात मौन रहेंगे, और उतने समय उनकी रक्षा करनी है। छह दिन और रात दोनों भाई धनुष ताने, बिना सोए पहरा देते हैं। छठे दिन वेदी प्रज्वलित होती है, और भयंकर गर्जन के साथ मारीच और सुबाहु अपने अनुचरों सहित आकाश से रक्त बरसाते आते हैं। राम लक्ष्मण से सावधान रहने को कहते हैं। वे मारीच की छाती पर मानवास्त्र चलाते हैं, जो उसे पूरे सौ योजन दूर समुद्र में फेंक देता है, अचेत पर जीवित। सुबाहु को वे आग्नेयास्त्र से मार देते हैं और बाकी को वायव्यास्त्र से नष्ट करते हैं। यज्ञ पूरा होता है। विश्वामित्र कहते हैं कि तुमने गुरु का वचन पूरा किया और सिद्धाश्रम का नाम सार्थक कर दिया।
अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ ।
देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः
atha tau deśakālajñau rājaputrāvariṃdamau |
deśe kāle ca vākyajñāvabrūtāṃ kauśikaṃ vacaḥ
भगवञ्छ्रोतुमिच्छावो यस्मिन् काले निशाचरौ ।
संरक्षणीयौ तौ ब्रूहि नातिवर्तेत तत्क्षणम्
bhagavañchrotumicchāvo yasmin kāle niśācarau |
saṃrakṣaṇīyau tau brūhi nātivarteta tatkṣaṇam
एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।
सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ
evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā |
sarve te munayaḥ prītāḥ praśaśaṃsurnṛpātmajau
अद्यप्रभृति षड्रात्रं रक्षतां राघवौ युवाम् ।
दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति
adyaprabhṛti ṣaḍrātraṃ rakṣatāṃ rāghavau yuvām |
dīkṣāṃ gato hyeṣa munirmaunitvaṃ ca gamiṣyati
तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ ।
अनिद्रं षडहोरात्रं तपोवनमरक्षताम्
tau tu tadvacanaṃ śrutvā rājaputrau yaśasvinau |
anidraṃ ṣaḍahorātraṃ tapovanamarakṣatām
उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ ।
ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ
upāsāṃcakraturvīrau yattau paramadhanvinau |
rarakṣaturmunivaraṃ viśvāmitramariṃdamau
अथ काले गते तस्मिन् षष्ठेऽहनि तदागते ।
सौमित्रिमब्रवीद् रामो यत्तो भव समाहितः
atha kāle gate tasmin ṣaṣṭhe'hani tadāgate |
saumitrimabravīd rāmo yatto bhava samāhitaḥ
रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया ।
प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता
rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā |
prajajvāla tato vediḥ sopādhyāyapurohitā
सदर्भचमसस्रुक्का स समित्कुसुमोच्चया ।
विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा
sadarbhacamasasrukkā sa samitkusumoccayā |
viśvāmitreṇa sahitā vedirjajvāla sartvijā
मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते ।
आकाशे च महाञ्छ्ब्दः प्रादुरासीद् भयानकः
mantravacca yathānyāyaṃ yajño'sau sampravartate |
ākāśe ca mahāñchbdaḥ prādurāsīd bhayānakaḥ
आवार्य गगनं मेघो यथा प्रावृषि दृश्यते ।
तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम्
āvārya gaganaṃ megho yathā prāvṛṣi dṛśyate |
tathā māyāṃ vikurvāṇau rākṣasāvabhyadhāvatām
मारीचश्च सुबाहुश्च तयोरनुचरास्तथा ।
आगम्य भीमसंकाशा रुधिरौघानवासृजन्
mārīcaśca subāhuśca tayoranucarāstathā |
āgamya bhīmasaṃkāśā rudhiraughānavāsṛjan
ताम् तेन रुधिरौघेण वेदीं वीक्ष्य समुक्षिताम् ।
सहसाभिद्रुतो रामस्तानपश्यत् ततो दिवि
tām tena rudhiraugheṇa vedīṃ vīkṣya samukṣitām |
sahasābhidruto rāmastānapaśyat tato divi
तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः ।
लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत्
tāvāpatantau sahasā dṛṣṭvā rājīvalocanaḥ |
lakṣmaṇaṃ tvabhisamprekṣya rāmo vacanamabravīt
पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् ।
मानवास्त्रसमाधूताननिलेन यथा घनान्
paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān |
mānavāstrasamādhūtānanilena yathā ghanān
करिष्यामि न संदेहो नोत्सहे हन्तुमीदृशान् ।
इत्युक्त्वा वचनं रामश्चापे संधाय वेगवान्
kariṣyāmi na saṃdeho notsahe hantumīdṛśān |
ityuktvā vacanaṃ rāmaścāpe saṃdhāya vegavān
मानवं परमोदारमस्त्रं परमभास्वरम् ।
चिक्षेप परमक्रुद्धो मारीचोरसि राघवः
mānavaṃ paramodāramastraṃ paramabhāsvaram |
cikṣepa paramakruddho mārīcorasi rāghavaḥ
स तेन परमास्त्रेण मानवेन समाहतः ।
सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे
sa tena paramāstreṇa mānavena samāhataḥ |
sampūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasamplave
विचेतनं विघूर्णन्तं शीतेषुबलपीडितम् ।
निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत्
vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam |
nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇamabravīt
पश्य लक्ष्मण शीतेषुं मानवं मनुसंहितम् ।
मोहयित्वा नयत्येनं न च प्राणैर्वियुज्यते
paśya lakṣmaṇa śīteṣuṃ mānavaṃ manusaṃhitam |
mohayitvā nayatyenaṃ na ca prāṇairviyujyate
इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः ।
राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान्
imānapi vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ |
rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān
इत्युक्त्वा लक्ष्मणं चाशु लाघवं दर्शयन्निव ।
विगृह्य सुमहच्चास्त्रमाग्नेयं रघुनन्दनः
ityuktvā lakṣmaṇaṃ cāśu lāghavaṃ darśayanniva |
vigṛhya sumahaccāstramāgneyaṃ raghunandanaḥ
सुबाहूरसि चिक्षेप स विद्धः प्रापतद् भुवि ।
शेषान् वायव्यमादाय निजघान महायशाः ।
राघवः परमोदारो मुनीनां मुदमावहन्
subāhūrasi cikṣepa sa viddhaḥ prāpatad bhuvi |
śeṣān vāyavyamādāya nijaghāna mahāyaśāḥ |
rāghavaḥ paramodāro munīnāṃ mudamāvahan
स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।
ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा
sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ |
ṛṣibhiḥ pūjitastatra yathendro vijaye purā
अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।
निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत्
atha yajñe samāpte tu viśvāmitro mahāmuniḥ |
nirītikā diśo dṛṣṭvā kākutsthamidamabravīt
कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया ।
सिद्धाश्रममिदं सत्यं कृतं वीर महायशः ।
स हि रामं प्रशस्यैवं ताभ्यां संध्यामुपागमत्
kṛtārtho'smi mahābāho kṛtaṃ guruvacastvayā |
siddhāśramamidaṃ satyaṃ kṛtaṃ vīra mahāyaśaḥ |
sa hi rāmaṃ praśasyaivaṃ tābhyāṃ saṃdhyāmupāgamat
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)