बालकाण्ड

सर्ग 12: राजा ऋष्यशृंग से यज्ञ कराने की प्रार्थना करते हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वादशः सर्गः ॥१-१२॥

22 श्लोक · 12 में से 77

इस अध्याय में क्या होता है

राजा ऋष्यशृंग से यज्ञ कराने की प्रार्थना करते हैं

बहुत समय बीतता है। मनोहर वसन्त आने पर दशरथ का मन यज्ञ की ओर जाता है। वे देवतुल्य ऋष्यशृंग को सिर झुकाकर प्रणाम करते हैं और वंश के लिए यज्ञ कराने हेतु उनका वरण करते हैं; मुनि स्वीकार कर लेते हैं। फिर राजा सुमन्त्र से सुयज्ञ, वामदेव, जाबालि, कश्यप, वसिष्ठ और अन्य विद्वान ब्राह्मणों को बुलवाते हैं। वे सीधे कहते हैं कि पुत्र के बिना मुझे सुख नहीं, मैं ऋष्यशृंग की सहायता से अश्वमेध करना चाहता हूँ। ब्राह्मण उनके निश्चय की प्रशंसा करते हैं: सामग्री जुटाइए, अश्व छोड़िए, सरयू के उत्तरी तट पर यज्ञभूमि बनाइए। राजा तुरन्त आज्ञा देते हैं, ब्राह्मण विदा होते हैं, और मन्त्रियों को विदा करके राजा महल में प्रवेश करते हैं।

12.1

ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे ।
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत्

tataḥ kāle bahutithe kasmiṃścit sumanohare |
vasante samanuprāpte rājño yaṣṭuṃ mano'bhavat

12.2

ततः प्रणम्य शिरसा तं विप्रं देववर्णिनम् ।
यज्ञाय वरयामास संतानार्थं कुलस्य च

tataḥ praṇamya śirasā taṃ vipraṃ devavarṇinam |
yajñāya varayāmāsa saṃtānārthaṃ kulasya ca

12.3

तथेति च स राजानमुवाच वसुधाधिपम् ।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्

tatheti ca sa rājānamuvāca vasudhādhipam |
sambhārāḥ sambhriyantāṃ te turagaśca vimucyatām

12.4

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
ततोऽब्रवीनृपो वाक्यं ब्राह्मणान् वेदपारगान्

sarayvāścottare tīre yajñabhūmirvidhīyatām |
tato'bravīnṛpo vākyaṃ brāhmaṇān vedapāragān

12.5

सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः ।
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम्

sumantrāvāhaya kṣipramṛtvijo brahmavādinaḥ |
suyajñaṃ vāmadevaṃ ca jābālimatha kāśyapam

12.6

पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ।
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः

purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ |
tataḥ sumantrastvaritaṃ gatvā tvaritavikramaḥ

12.7

समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ।
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा

samānayat sa tān sarvān samastān vedapāragān |
tān pūjayitvā dharmātmā rājā daśarathastadā

12.8

धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ।
मम तातप्यमानस्य पुत्रार्थं नास्ति वै सुखम्

dharmārthasahitaṃ yuktaṃ ślakṣṇaṃ vacanamabravīt |
mama tātapyamānasya putrārthaṃ nāsti vai sukham

12.9

पुत्रार्थं हयमेधेन यक्ष्यामीति मतिर्मम ।
तदहं यष्टुमिच्छामि हयमेधेन कर्मणा

putrārthaṃ hayamedhena yakṣyāmīti matirmama |
tadahaṃ yaṣṭumicchāmi hayamedhena karmaṇā

12.10

ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम् ।
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन्

ṛṣiputraprabhāveṇa kāmān prāpsyāmi cāpyaham |
tataḥ sādhviti tadvākyaṃ brāhmaṇāḥ pratyapūjayan

12.11

वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ।
ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा

vasiṣṭhapramukhāḥ sarve pārthivasya mukhāccyutam |
ṛṣyaśṛṅgapurogāśca pratyūcurnṛpatiṃ tadā

12.12

सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ।
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्

sambhārāḥ sambhriyantāṃ te turagaśca vimucyatām |
sarayvāścottare tīre yajñabhūmirvidhīyatām

12.13

सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् ।
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता

sarvathā prāpyase putrāṃścaturo'mitavikramān |
yasya te dhārmikī buddhiriyaṃ putrārthamāgatā

12.14

ततः प्रीतोऽभवद् राजा श्रुत्वा तु द्विजभाषितम् ।
अमात्यानब्रवीद् राजा हर्षेणेदं शुभाक्षरम्

tataḥ prīto'bhavad rājā śrutvā tu dvijabhāṣitam |
amātyānabravīd rājā harṣeṇedaṃ śubhākṣaram

12.15

गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे ।
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम्

gurūṇāṃ vacanācchīghraṃ sambhārāḥ sambhriyantu me |
samarthādhiṣṭhitaścāśvaḥ sopādhyāyo vimucyatām

12.16

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि

sarayvāścottare tīre yajñabhūmirvidhīyatām |
śāntayaścābhivardhantāṃ yathākalpaṃ yathāvidhi

12.17

शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता ।
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे

śakyaḥ kartumayaṃ yajñaḥ sarveṇāpi mahīkṣitā |
nāparādho bhavet kaṣṭo yadyasmin kratusattame

12.18

छिद्रं हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसाः ।
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति

chidraṃ hi mṛgayantyete vidvāṃso brahmarākṣasāḥ |
vidhihīnasya yajñasya sadyaḥ kartā vinaśyati

12.19

तद् यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।
तथा विधानं क्रियतां समर्थाः करणेष्विह

tad yathā vidhipūrvaṃ me kratureṣa samāpyate |
tathā vidhānaṃ kriyatāṃ samarthāḥ karaṇeṣviha

12.20

तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् ।
पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तमकुर्वत

tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan |
pārthivendrasya tad vākyaṃ yathājñaptamakurvata

12.21

ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् ।
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्

tato dvijāste dharmajñamastuvan pārthivarṣabham |
anujñātāstataḥ sarve punarjagmuryathāgatam

12.22

गतेषु तेषु विप्रेषु मन्त्रिणस्तान् नराधिपः ।
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः

gateṣu teṣu vipreṣu mantriṇastān narādhipaḥ |
visarjayitvā svaṃ veśma praviveśa mahāmatiḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)