कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।
भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत्
kṛtabuddhiṃ nivāsāya tatraiva sa munistadā |
bharataṃ kaikayīputramātithyena nyamantrayat
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितम: सर्ग: ॥ ९१ ॥
83 श्लोक · 91 में से 119
भरद्वाज भरत को अतिथि बनने का निमन्त्रण देते हैं। भरत आश्रम की हानि के भय से सेना को दूर छोड़ आए थे, पर मुनि उसे भी बुलवाते हैं। अग्निशाला में जाकर आचमन करके वे आतिथ्य के लिए विश्वकर्मा, लोकपालों, इन्द्र आदि देवताओं, नदियों और गन्धर्वों का आवाहन करते हैं। तप के प्रभाव से वन बदल जाता है। महल प्रकट होते हैं, नदियों में पेय बहते हैं, अन्न, मालाएँ और शय्याएँ सज जाती हैं। अप्सराएँ नाचती हैं, गन्धर्व गाते हैं, और ब्रह्मा तथा कुबेर की भेजी बीस-बीस हजार दिव्य स्त्रियाँ सैनिकों की सेवा करती हैं। भरत राजसिंहासन को राम का मानकर प्रणाम करते हैं और चँवर लेकर मन्त्री के आसन पर बैठते हैं। सैनिक अयोध्या और वन दोनों भूल जाते हैं, और रात नन्दनवन की रात जैसी बीतती है।
कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।
भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत्
kṛtabuddhiṃ nivāsāya tatraiva sa munistadā |
bharataṃ kaikayīputramātithyena nyamantrayat
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।
पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते
abravīdbharatastvenaṃ nanvidaṃ bhavatā kṛtam |
pādyamarghyaṃ tathātithyaṃ vane yadupapadyate
अथोवाच भरद्वाजो भरतं प्रहसन्निव ।
जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित्
athovāca bharadvājo bharataṃ prahasanniva |
jāne tvāṃ prītisaṃyuktaṃ tuṣyestvaṃ yena kenacit
सेनायास्तु तवैतस्या: कर्तुमिच्छामि भोजनम् ।
मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप
senāyāstu tavaitasyā: kartumicchāmi bhojanam |
mama prītiryathārūpā tvamarho manujādhipa
किमर्थं चापि निक्षिप्य दूरे बलमिहागत: ।
कस्मान्नेहोपयातोसि सबल: पुरुषर्षभ
kimarthaṃ cāpi nikṣipya dūre balamihāgata: |
kasmānnehopayātosi sabala: puruṣarṣabha
भरत: प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।
ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात्
bharata: pratyuvācedaṃ prāñjalistaṃ tapodhanam |
sasainyo nopayāto 'smi bhagavan bhagavadbhayāt
राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा ।
यत्नत: परिहर्त्तव्या विषयेषु तपस्विन:
rājñā ca bhagavan nityaṃ rājaputreṇa vā sadā |
yatnata: pariharttavyā viṣayeṣu tapasvina:
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणा: ।
प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम्
vājimukhyā manuṣyāśca mattāśca varavāraṇā: |
pracchādya bhagavan bhūmiṃ mahatīmanuyānti mām
ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ।
न हिंस्युरिति तेनाहमेक एव समागत:
te vṛkṣānudakaṃ bhūmimāśrameṣūṭajāṃstathā |
na hiṃsyuriti tenāhameka eva samāgata:
आनीयतामित: सेनेत्याज्ञप्त: परमर्षिणा ।
ततस्तु चक्रे भरत: सेनाया: समुपागमम्
ānīyatāmita: senetyājñapta: paramarṣiṇā |
tatastu cakre bharata: senāyā: samupāgamam
अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च ।
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत्
agniśālāṃ praviśyātha pītvāpa: parimṛjya ca |
ātithyasya kriyāhetorviśvakarmāṇamāhvayat
आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्
āhvaye viśvakarmāṇamahaṃ tvaṣṭārameva ca |
ātithyaṃ kartumicchāmi tatra me saṃvidhīyatām
आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्
āhvaye lokapālāṃstrīn devān śakramukhāṃstathā |
ātithyaṃ kartumicchāmi tatra me saṃvidhīyatām
प्राक्स्रोतसश्च या नद्य: प्रत्यक्स्रोतस एव च ।
पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वश:
prāksrotasaśca yā nadya: pratyaksrotasa eva ca |
pṛthivyāmantarikṣe ca samāyāntvadya sarvaśa:
अन्या: स्रवन्तु मैरेयं सुरामन्या: सुनिष्ठिताम् ।
अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम्
anyā: sravantu maireyaṃ surāmanyā: suniṣṭhitām |
aparāścodakaṃ śītamikṣukāṇḍarasopamam
आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।
तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वश:
āhvaye devagandharvān viśvāvasuhahāhuhūn |
tathaivāpsaraso devīrgandharvvīścāpi sarvaśa:
घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।
नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम्
ghṛtācīmatha viśvācīṃ miśrakeśīmalambusām |
nāgadantāṃ ca hemāṃ ca himāmadrikṛtasthalām
शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषित: ।
सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदा:
śakraṃ yāścopatiṣṭhanti brahmāṇaṃ yāśca yoṣita: |
sarvāstumburuṇā sārddhamāhvaye saparicchadā:
वनं कुरुषु यद्दिव्यं वासोभूषणपत्त्रवत् ।
दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च
vanaṃ kuruṣu yaddivyaṃ vāsobhūṣaṇapattravat |
divyanārīphalaṃ śaśvattatkauberamihaitu ca
इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् ।
भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु
iha me bhagavān somo vidhattāmannamuttamam |
bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu
विचित्राणि च माल्यानि पादपप्रच्युतानि च ।
सुरादीनि च पेयानि मांसानि विविधानि च
vicitrāṇi ca mālyāni pādapapracyutāni ca |
surādīni ca peyāni māṃsāni vividhāni ca
एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च ।
शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनि:
evaṃ samādhinā yuktastejasā 'pratimena ca |
śīkṣāsvarasamāyuktaṃ tapasā cābravīnmuni:
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जले: ।
आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक्
manasā dhyāyatastasya prāṅmukhasya kṛtāñjale: |
ājagmustāni sarvāṇi daivatāni pṛthakpṛthak
मलयं दर्दुरं चैव तत: स्वेदनुदऽ ऽनिल: ।
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुख: शिव:
malayaṃ darduraṃ caiva tata: svedanuda' 'nila: |
upaspṛśya vavau yuktyā supriyātmā sukha: śiva:
ततोभ्यवर्तन्त घना दिव्या: कुसुमवृष्टय: ।
दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे
tatobhyavartanta ghanā divyā: kusumavṛṣṭaya: |
divyadundubhighoṣaśca dikṣu sarvāsu śuśruve
प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणा: ।
प्रजगुर्देवगन्धर्वा वीणा: प्रमुमुचु: स्वरान्
pravavuścottamā vātānanṛtuścāpsarogaṇā: |
prajagurdevagandharvā vīṇā: pramumucu: svarān
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।
विवेशोच्चारित: श्लक्ष्ण: समो लयगुणान्वित:
sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca |
viveśoccārita: ślakṣṇa: samo layaguṇānvita:
तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् ।
ददर्श भारतं सैन्यं विधानं विश्वकर्मण:
tasminnuparate śabde divye śrotṛ(tra)sukhe nṛṇām |
dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇa:
बभूव हि समा भूमि: समन्तात्पञ्चयोजना ।
शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभै:
babhūva hi samā bhūmi: samantātpañcayojanā |
śādvalairbahubhiśchannā nīlavaiḍūryyasannibhai:
तस्मिन् बिल्वा: कपित्थाश्च पनसा बीजपूरका: ।
आमलक्यो बभूवुश्च चूताश्च फलभूषणा:
tasmin bilvā: kapitthāśca panasā bījapūrakā: |
āmalakyo babhūvuśca cūtāśca phalabhūṣaṇā:
उत्तरेभ्य: कुरुभ्यश्च वनं दिव्योपभोगवत् ।
आजगाम नदी दिव्या तीजैर्बहुभिर्वृता
uttarebhya: kurubhyaśca vanaṃ divyopabhogavat |
ājagāma nadī divyā tījairbahubhirvṛtā
चतु:शालानि शुभ्राणि शालाश्च गजवाजिनाम् ।
हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च
catu:śālāni śubhrāṇi śālāśca gajavājinām |
harmyaprāsādasambādhāstoraṇāni śubhāni ca
सितमेघनिभं चापि राजवेश्मसु तोरणम् ।
दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम्
sitameghanibhaṃ cāpi rājaveśmasu toraṇam |
divyamālyakṛtākāraṃ divyagandhasamukṣitam
चतुरश्रमसम्बाधं शयनासनयानवत् ।
दिव्यै: सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ।
उपकल्पितसर्वान्नं धौतनिर्मलभाजनम्
caturaśramasambādhaṃ śayanāsanayānavat |
divyai: sarvarasairyuktaṃ divyabhojanavastravat |
upakalpitasarvānnaṃ dhautanirmalabhājanam
क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ।
प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।
वेश्म तद्रत्नसम्पूर्णं भरत: केकयीसुत:
klṛptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam |
praviveśa mahābāhuranujñāto maharṣiṇā |
veśma tadratnasampūrṇaṃ bharata: kekayīsuta:
अनुजग्मुश्च तं सर्वे मन्त्रिण: सपुरोहिता: ।
बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम्
anujagmuśca taṃ sarve mantriṇa: sapurohitā: |
babhūvuśca mudā yuktā dṛṣṭvā taṃ veśmasaṃvidhim
तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।
भरतो मन्त्रिभि: सार्द्धमभ्यवर्त्तत राजवत्
tatra rājāsanaṃ divyaṃ vyajanaṃ chatrameva ca |
bharato mantribhi: sārddhamabhyavarttata rājavat
आसनं पूजयामास रामायाभिप्रणम्य च ।
वालव्यजनमादाय न्यषीदत् सचिवासने
āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca |
vālavyajanamādāya nyaṣīdat sacivāsane
आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिता: ।
तत: सेनापति: पश्चात् प्रशास्ता च निषेदतु:
ānupūrvyāniṣeduśca sarve mantripurohitā: |
tata: senāpati: paścāt praśāstā ca niṣedatu:
ततस्तत्र मुहूर्त्तेन नद्य: पायसकर्दमा: ।
उपातिष्ठन्त भरतं भरद्वाजस्य शासनात्
tatastatra muhūrttena nadya: pāyasakardamā: |
upātiṣṭhanta bharataṃ bharadvājasya śāsanāt
तासामुभयत:कूलं पाण्डुमृत्तिकलेपना: ।
रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजा:
tāsāmubhayata:kūlaṃ pāṇḍumṛttikalepanā: |
ramyāścāvasathā divyā brahmaṇastu prasādajā:
तेनैव च मुहूर्त्तेन दिव्याभरणभूषिता: ।
आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिता: स्त्रिय:
tenaiva ca muhūrttena divyābharaṇabhūṣitā: |
āgurviṃśatisāhasrā brahmaṇā prahitā: striya:
सुवर्णमणिमुक्तेन प्रवालेन च शोभिता: ।
आगुर्विंशतिसाहस्रा: कुबेरप्रहिता: स्त्रिय:
suvarṇamaṇimuktena pravālena ca śobhitā: |
āgurviṃśatisāhasrā: kuberaprahitā: striya:
याभिर्गृहीतपुरुष: सोन्माद इव लक्ष्यते ।
आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणा:
yābhirgṛhītapuruṣa: sonmāda iva lakṣyate |
āgurviṃśatisāhasrā nandanādapsarogaṇā:
नारदस्तुम्बुरुर्गोप: प्रवरा: सूर्य्यवर्चस: ।
एते गन्धर्वराजानो भरतस्याग्रतो जगु:
nāradastumbururgopa: pravarā: sūryyavarcasa: |
ete gandharvarājāno bharatasyāgrato jagu:
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना ।
उपानृत्यंस्तु भरत भरद्वाजस्य शासनात्
alambusā miśrakeśī puṇḍarīkātha vāmanā |
upānṛtyaṃstu bharata bharadvājasya śāsanāt
यानि माल्यानि देवेषु यानि चैत्ररथे वने ।
प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा
yāni mālyāni deveṣu yāni caitrarathe vane |
prayāge tānyadṛśyanta bharadvājasya tejasā
बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतका: ।
अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात्
bilvā mārdaṅgikā āsan śamyāgrāhā vibhītakā: |
aśvatthānarttakāścāsan bharadvājasya śāsanāt
तत: सरलतालाश्च तिलका नक्तमालका: ।
प्रहृष्टास्तत्र सम्पेतु: कुब्जा भूत्वाथ वामना:
tata: saralatālāśca tilakā naktamālakā: |
prahṛṣṭāstatra sampetu: kubjā bhūtvātha vāmanā:
शिंशुपामलकीजम्ब्वो याश्चान्या: काननेषु ता: ।
मालती मल्लिका जातिर्याश्चान्या: कानने लता:
śiṃśupāmalakījambvo yāścānyā: kānaneṣu tā: |
mālatī mallikā jātiryāścānyā: kānane latā:
प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् ।
सुरा: सुरापा: पिबत पायसं च बुभुक्षिता: ।
मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ
pramadāvigrahaṃ kṛtvā bharadvājāśrame 'vadan |
surā: surāpā: pibata pāyasaṃ ca bubhukṣitā: |
māṃsāni ca sumedhyāni bhakṣyantāṃ yāvadicchatha
उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ।
अप्येकमेकं पुरुषं प्रमदा: सप्त चाष्ट च
ucchādya snāpayanti sma nadītīreṣu valguṣu |
apyekamekaṃ puruṣaṃ pramadā: sapta cāṣṭa ca
संवाहन्त्य: समापेतुर्नार्यो रुचिरलोचना: ।
परिमृज्य तथान्योन्यं पाययन्ति वराङ्गना:
saṃvāhantya: samāpeturnāryo ruciralocanā: |
parimṛjya tathānyonyaṃ pāyayanti varāṅganā:
हयान् गजान् खरानुष्ट्रांस्तथैव सुरभे: सुतान् ।
अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि
hayān gajān kharānuṣṭrāṃstathaiva surabhe: sutān |
abhojayan vāhanapāsteṣāṃ bhojyaṃ yathāvidhi
इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् ।
इक्ष्वाकुवरयोधानां चोदयन्तो महाबला:
ikṣūṃśca madhulājāṃśca bhojayanti sma vāhanān |
ikṣvākuvarayodhānāṃ codayanto mahābalā:
नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रह: ।
मत्तप्रमत्तमुदिता नमू: सा तत्र सम्बभौ
nāśvabandho 'śvamājānānna gajaṃ kuñjaragraha: |
mattapramattamuditā namū: sā tatra sambabhau
तर्पिता: सर्वकामैस्ते रक्तचन्दनरूषिता: ।
अप्सरोगणसंयुक्ता: सैन्या वाचमुदैरयन्
tarpitā: sarvakāmaiste raktacandanarūṣitā: |
apsarogaṇasaṃyuktā: sainyā vācamudairayan
नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।
कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम्
naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān |
kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham
इति पादातयोधाश्च हस्त्यश्वारोह बन्धका: ।
अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन्
iti pādātayodhāśca hastyaśvāroha bandhakā: |
anāthāstaṃ vidhiṃ labdhvā vācametāmudairayan
सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रश: ।
भरतस्यानुयातार: स्वर्गोयमिति चाब्रुवन्
samprahṛṣṭā vineduste narāstatra sahasraśa: |
bharatasyānuyātāra: svargoyamiti cābruvan
नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिका: ।
समन्तात् परिधावन्ति माल्योपेता: सहस्रश:
nṛtyanti sma hasanti sma gāyanti sma ca sainikā: |
samantāt paridhāvanti mālyopetā: sahasraśa:
ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।
दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मति:
tato bhuktavatāṃ teṣāṃ tadannamamṛtopamam |
divyānudvīkṣya bhakṣyāṃstānabhavadbhakṣaṇe mati:
प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रश: ।
बभूवुस्ते भृशं दृप्ता: सर्वे चाहतवासस:
preṣyāśceṣṭyaśca vadhvaśca balasthāśca sahasraśa: |
babhūvuste bhṛśaṃ dṛptā: sarve cāhatavāsasa:
कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिण: ।
बभूवु: सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत्
kuñjarāśca kharoṣṭrāśca gośvāśca mṛgapakṣiṇa: |
babhūvu: subhṛtāstatra nānyo hyanyamakalpayat
नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा ।
रजसा ध्वस्तकेशो वा नर: कश्चिददृश्यत
nāśuklavāsāstatrāsīt kṣudhito malino 'pi vā |
rajasā dhvastakeśo vā nara: kaścidadṛśyata
आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयै: ।
फलनिर्यूहसंसिद्धै: सूपैर्गन्धरसान्वितै:
ājaiścāpi ca vārāhairniṣṭhānavarasañcayai: |
phalaniryūhasaṃsiddhai: sūpairgandharasānvitai:
पुष्पध्वजवती: पूर्णा: शुक्लस्यान्नस्य चाभित: ।
ददृशुर्विस्मितास्तत्र नरा लौही: सहस्रश:
puṣpadhvajavatī: pūrṇā: śuklasyānnasya cābhita: |
dadṛśurvismitāstatra narā lauhī: sahasraśa:
बभूवुर्वनपार्श्वेषु कूपा: पायसकर्दमा: ।
ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुत:
babhūvurvanapārśveṣu kūpā: pāyasakardamā: |
tāśca kāmadughā gāvo drumāścāsan madhusruta:
वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृता: ।
प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटै:
vāpyo maireyapūrṇāśca mṛṣṭamāṃsacayairvṛtā: |
prataptapiṭharaiścāpi mārgamāyūrakaukkuṭai:
पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।
न्यर्बुदानि च पात्राणि शातकुम्भमयानि च
pātrīṇāṃ ca sahasrāṇi sthālīnāṃ niyutāni ca |
nyarbudāni ca pātrāṇi śātakumbhamayāni ca
स्थाल्य: कुम्भ्य: करम्भ्यश्च दधिपूर्णा: सुसंस्कृता: ।
यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिन:
sthālya: kumbhya: karambhyaśca dadhipūrṇā: susaṃskṛtā: |
yauvanasthasya gaurasya kapitthasya sugandhina:
ह्रदा: पूर्णा रसालस्य दघ्न: श्वेतस्य चापरे ।
बभूवु: पायसस्यान्ये शर्करायाश्च सञ्चया:
hradā: pūrṇā rasālasya daghna: śvetasya cāpare |
babhūvu: pāyasasyānye śarkarāyāśca sañcayā:
कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ।
ददृशुर्भाजनस्थानि तीर्थेषु सरितां नरा:
kalkāṃścūrṇakaṣāyāṃśca snānāni vividhāni ca |
dadṛśurbhājanasthāni tīrtheṣu saritāṃ narā:
शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ।
शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठत:
śuklānaṃśumataścāpi dantadhāvanasañcayān |
śuklāṃścandanakalkāṃśca samudgeṣvavatiṣṭhata:
दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् ।
पादुकोपानहश्चैव युग्मानि च सहस्रश:
darpaṇān parimṛṣṭāṃśca vāsasāṃ cāpi sañcayān |
pādukopānahaścaiva yugmāni ca sahasraśa:
आञ्जनी: कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च ।
मर्मत्राणानि चित्राणि शयनान्यासनानि च
āñjanī: kaṅkatān kūrcān śastrāṇi ca dhanūṃṣi ca |
marmatrāṇāni citrāṇi śayanānyāsanāni ca
प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।
अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान्
pratipānahradān pūrṇān kharoṣṭragajavājinām |
avagāhya sutīrthāṃśca hradān sotpalapuṣkarān
आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् ।
नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान्
ākāśavarṇapratimān svacchatoyān sukhaplavān |
nīlavaiḍūryyavarṇāṃśca mṛdūn yavasasañcayān
निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वश:
nirvāpārthān paśūnāṃ te dadṛśustatra sarvaśa:
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।
दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा
vyasmayanta manuṣyāste svapnakalpaṃ tadadbhutam |
dṛṣṭvātithyaṃ kṛtaṃ tādṛk bharatasya maharṣiṇā
इत्येवं रममाणानां देवानामिव नन्दने ।
भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत
ityevaṃ ramamāṇānāṃ devānāmiva nandane |
bharadvājāśrame ramye sā rātrirvyatyavarttata
प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।
भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गना:
pratijagmuśca tā nadyo gandharvāśca yathāgatam |
bharadvājamanujñāpya tāśca sarvā varāṅganā:
तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिता: ।
तथैव दिव्या विविधा: स्रगुत्तमा: पृथक् प्रकीर्णा मनुजै: प्रमर्दिता:
tathaiva mattā madirotkaṭā narāstathaiva divyāgurucandanokṣitā: |
tathaiva divyā vividhā: sraguttamā: pṛthak prakīrṇā manujai: pramarditā:
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)