स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः ।
पताकाध्वजसम्पन्नं महार्हागुरुधूपितम्
sa rāmo rathamāsthāya samprahṛṣṭasuhṛjjanaḥ |
patākādhvajasampannaṃ mahārhāgurudhūpitam
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तदशः सर्गः ॥२-१७॥
22 श्लोक · 17 में से 119
ध्वजाओं से सजी, अगरु के धुएँ से सुगन्धित और मेघ जैसे ऊँचे श्वेत भवनों वाली अयोध्या से होकर श्रीराम का रथ चलता है। वे लोगों के अभिवादन का यथायोग्य उत्तर देते हैं। मार्ग में मित्र और पुरवासी कहते हैं कि आज राम को वह राज्य मिलेगा जो उनके पिता-पितामहों ने संभाला था; उनके राज में हम सुखी रहेंगे, और जो आज उन्हें न देख पाए वे दया के पात्र हैं। राम ये प्रशंसा भरे वचन शान्त, उदासीन भाव से सुनते हैं। वाल्मीकि बताते हैं कि राम चारों वर्णों और हर आयु के लोगों पर दया रखते हैं, इसलिए सब उनके अनुरागी हैं। आँगनों को पार करते हुए राम भीड़ को लौटाकर अकेले अन्तःपुर में प्रवेश करते हैं, और लोग उनके बाहर आने की वैसे प्रतीक्षा करते हैं जैसे चन्द्रोदय की।
स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः ।
पताकाध्वजसम्पन्नं महार्हागुरुधूपितम्
sa rāmo rathamāsthāya samprahṛṣṭasuhṛjjanaḥ |
patākādhvajasampannaṃ mahārhāgurudhūpitam
अपश्यन्नगरं श्रीमान् नानाजनसमन्वितम् ।
स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम्
apaśyannagaraṃ śrīmān nānājanasamanvitam |
sa gṛhairabhrasaṃkāśaiḥ pāṇḍurairupaśobhitam
राजमार्गं ययौ रामो मध्येनागुरुधूपितम् ।
चन्दनानां च मुख्यानामगुरूणां च संचयैः
rājamārgaṃ yayau rāmo madhyenāgurudhūpitam |
candanānāṃ ca mukhyānāmagurūṇāṃ ca saṃcayaiḥ
उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च ।
अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि
uttamānāṃ ca gandhānāṃ kṣaumakauśāmbarasya ca |
aviddhābhiśca muktābhiruttamaiḥ sphāṭikairapi
शोभमानमसम्बाधं तं राजपथमुत्तमम् ।
संवृतं विविधैः पुष्पैर्भक्ष्यैरुच्चावचैरपि
śobhamānamasambādhaṃ taṃ rājapathamuttamam |
saṃvṛtaṃ vividhaiḥ puṣpairbhakṣyairuccāvacairapi
ददर्श तं राजपथं दिवि देवपतिर्यथा ।
दध्यक्षतहविर्लाजैर्धूपैरगुरुचन्दनैः
dadarśa taṃ rājapathaṃ divi devapatiryathā |
dadhyakṣatahavirlājairdhūpairagurucandanaiḥ
नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम् ।
आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान्
nānāmālyopagandhaiśca sadābhyarcitacatvaram |
āśīrvādān bahūn śṛṇvan suhṛdbhiḥ samudīritān
यथार्हं चापि सम्पूज्य सर्वानेव नरान् ययौ ।
पितामहैराचरितं तथैव प्रपितामहैः
yathārhaṃ cāpi sampūjya sarvāneva narān yayau |
pitāmahairācaritaṃ tathaiva prapitāmahaiḥ
अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय ।
यथा स्म पोषिताः पित्रा यथा सर्वैः पितामहैः ।
ततः सुखतरं सर्वे रामे वत्स्याम राजनि
adyopādāya taṃ mārgamabhiṣikto'nupālaya |
yathā sma poṣitāḥ pitrā yathā sarvaiḥ pitāmahaiḥ |
tataḥ sukhataraṃ sarve rāme vatsyāma rājani
अलमद्य हि भुक्तेन परमार्थैरलं च नः ।
यदि पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्
alamadya hi bhuktena paramārthairalaṃ ca naḥ |
yadi paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam
ततो हि नः प्रियतरं नान्यत् किंचिद् भविष्यति ।
यथाभिषेको रामस्य राज्येनामिततेजसः
tato hi naḥ priyataraṃ nānyat kiṃcid bhaviṣyati |
yathābhiṣeko rāmasya rājyenāmitatejasaḥ
एताश्चान्याश्च सुहृदामुदासीनः शुभाः कथाः ।
आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम्
etāścānyāśca suhṛdāmudāsīnaḥ śubhāḥ kathāḥ |
ātmasampūjanīḥ śṛṇvan yayau rāmo mahāpatham
न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् ।
नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे
na hi tasmānmanaḥ kaściccakṣuṣī vā narottamāt |
naraḥ śaknotyapākraṣṭumatikrānte'pi rāghave
यश्च रामं न पश्येत्तु यं च रामो न पश्यति ।
निन्दितः सर्वलोकेषु स्वात्माप्येनं विगर्हते
yaśca rāmaṃ na paśyettu yaṃ ca rāmo na paśyati |
ninditaḥ sarvalokeṣu svātmāpyenaṃ vigarhate
सर्वेषु स हि धर्मात्मा वर्णानां कुरुते दयाम् ।
चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः
sarveṣu sa hi dharmātmā varṇānāṃ kurute dayām |
caturṇāṃ hi vayaḥsthānāṃ tena te tamanuvratāḥ
चतुष्पथान् देवपथांश्चैत्यांश्चायतनानि च ।
प्रदक्षिणं परिहरज्जगाम नृपतेः सुतः
catuṣpathān devapathāṃścaityāṃścāyatanāni ca |
pradakṣiṇaṃ pariharajjagāma nṛpateḥ sutaḥ
स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः ।
प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः
sa rājakulamāsādya meghasaṅghopamaiḥ śubhaiḥ |
prāsādaśṛṅgairvividhaiḥ kailāsaśikharopamaiḥ
आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः ।
वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः
āvārayadbhirgaganaṃ vimānairiva pāṇḍuraiḥ |
vardhamānagṛhaiścāpi ratnajālapariṣkṛtaiḥ
तत् पृथिव्यां गृहवरं महेन्द्रसदनोपमम् ।
राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्
tat pṛthivyāṃ gṛhavaraṃ mahendrasadanopamam |
rājaputraḥ piturveśma praviveśa śriyā jvalan
स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः ।
पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः
sa kakṣyā dhanvibhirguptāstisro'tikramya vājibhiḥ |
padātirapare kakṣye dve jagāma narottamaḥ
स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः ।
संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमत्यगात्
sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ |
saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuramatyagāt
तस्मिन् प्रविष्टे पितुरन्तिकं तदा
जनः स सर्वो मुदितो नृपात्मजे ।
प्रतीक्षते तस्य पुनः स्म निर्गमं
यथोदयं चन्द्रमसः सरित्पतिः
tasmin praviṣṭe piturantikaṃ tadā
janaḥ sa sarvo mudito nṛpātmaje |
pratīkṣate tasya punaḥ sma nirgamaṃ
yathodayaṃ candramasaḥ saritpatiḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)