अरण्यकाण्ड

सर्ग 10: श्रीराम का उत्तर: मुनियों को दिया वचन

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे दशमः सर्गः ॥३-१०॥

22 श्लोक · 10 में से 75

इस अध्याय में क्या होता है

श्रीराम का उत्तर: मुनियों को दिया वचन

धर्म में स्थित श्रीराम सीता को स्नेह से उत्तर देते हैं। वे कहते हैं, तुमने अपने कुल के योग्य हितकारी बात कही है। पर तुमने ही कहा है कि क्षत्रिय धनुष इसलिए धारण करते हैं कि कहीं आर्त की पुकार न सुनाई दे। दण्डकवन के मुनि राक्षसों से पीड़ित होकर, जिनके साथी खाए जा चुके हैं, मेरी शरण आए और रक्षा माँगी। वे अपने तप के बल से राक्षसों को भस्म कर सकते थे, पर तप खोना नहीं चाहते थे। उनकी बात सुनकर मैंने वचन दे दिया। मैं प्राण त्याग सकता हूँ, तुम्हें भी, लक्ष्मण को भी, पर दिया हुआ वचन नहीं, विशेषकर ब्राह्मणों को दिया हुआ। राम कहते हैं कि वे प्रसन्न हैं, क्योंकि अप्रिय को कोई उपदेश नहीं देता, और सीता को अपनी सहधर्मिणी कहते हैं।

10.1

वाक्यमेतत् तु वैदेह्या व्याहृतं भर्तृभक्तया ।
श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ जानकीम्

vākyametat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā |
śrutvā dharme sthito rāmaḥ pratyuvācātha jānakīm

10.2

हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः ।
कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे

hitamuktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ |
kulaṃ vyapadiśantyā ca dharmajñe janakātmaje

10.3

किं नु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः ।
क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति

kiṃ nu vakṣyāmyahaṃ devi tvayaivoktamidaṃ vacaḥ |
kṣatriyairdhāryate cāpo nārtaśabdo bhavediti

10.4

ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ।
मां सीते स्वयमागम्य शरण्यं शरणं गताः

te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ |
māṃ sīte svayamāgamya śaraṇyaṃ śaraṇaṃ gatāḥ

10.5

वसन्तः कालकालेषु वने मूलफलाशनाः ।
न लभन्ते सुखं भीरु राक्षसैः क्रूरकर्मभिः

vasantaḥ kālakāleṣu vane mūlaphalāśanāḥ |
na labhante sukhaṃ bhīru rākṣasaiḥ krūrakarmabhiḥ

10.6

भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः ।
ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः

bhakṣyante rākṣasairbhīmairnaramāṃsopajīvibhiḥ |
te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ

10.7

अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः ।
मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्

asmānabhyavapadyeti māmūcurdvijasattamāḥ |
mayā tu vacanaṃ śrutvā teṣāmevaṃ mukhāccyutam

10.8

कृत्वा वचनशुश्रूषां वाक्यमेतदुदाहृतम् ।
प्रसीदन्तु भवन्तो मे ह्रीरेषा तु ममातुला

kṛtvā vacanaśuśrūṣāṃ vākyametadudāhṛtam |
prasīdantu bhavanto me hrīreṣā tu mamātulā

10.9

यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः ।
किं करोमीति च मया व्याहृतं द्विजसंनिधौ

yadīdṛśairahaṃ viprairupastheyairupasthitaḥ |
kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau

10.10

सर्वैरेव समागम्य वागियं समुदाहृता ।
राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः

sarvaireva samāgamya vāgiyaṃ samudāhṛtā |
rākṣasairdaṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ

10.11

अर्दिताः स्म भृशं राम भवान् नस्तत्र रक्षतु ।
होमकाले तु सम्प्राप्ते पर्वकालेषु चानघ

arditāḥ sma bhṛśaṃ rāma bhavān nastatra rakṣatu |
homakāle tu samprāpte parvakāleṣu cānagha

10.12

धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः ।
राक्षसैर्धर्षितानां च तापसानां तपस्विनाम्

dharṣayanti sudurdharṣā rākṣasāḥ piśitāśanāḥ |
rākṣasairdharṣitānāṃ ca tāpasānāṃ tapasvinām

10.13

गतिं मृगयमाणानां भवान् नः परमा गतिः ।
कामं तपःप्रभावेण शक्ता हन्तुं निशाचरान्

gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ |
kāmaṃ tapaḥprabhāveṇa śaktā hantuṃ niśācarān

10.14

चिरार्जितं न चेच्छामस्तपः खण्डयितुं वयम् ।
बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव

cirārjitaṃ na cecchāmastapaḥ khaṇḍayituṃ vayam |
bahuvighnaṃ tapo nityaṃ duścaraṃ caiva rāghava

10.15

तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः ।
तदर्द्यमानान् रक्षोभिर्दण्डकारण्यवासिभिः

tena śāpaṃ na muñcāmo bhakṣyamāṇāśca rākṣasaiḥ |
tadardyamānān rakṣobhirdaṇḍakāraṇyavāsibhiḥ

10.16

रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ।
मया चैतद्वचः श्रुत्वा कात्स्न्र्येन परिपालनम्

rakṣa nastvaṃ saha bhrātrā tvannāthā hi vayaṃ vane |
mayā caitadvacaḥ śrutvā kātsnryena paripālanam

10.17

ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ।
संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्

ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje |
saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam

10.18

मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा ।
अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्

munīnāmanyathā kartuṃ satyamiṣṭaṃ hi me sadā |
apyahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām

10.19

न तु प्रतिज्ञा संश्रुत्य ब्राह्मणेभ्यो विशेषतः ।
तदवश्यं मया कार्यमृषीणां परिपालनम्

na tu pratijñā saṃśrutya brāhmaṇebhyo viśeṣataḥ |
tadavaśyaṃ mayā kāryamṛṣīṇāṃ paripālanam

10.20

अनुक्तेनापि वैदेहि प्रतिज्ञाय कथं पुनः ।
मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः

anuktenāpi vaidehi pratijñāya kathaṃ punaḥ |
mama snehācca sauhārdādidamuktaṃ tvayā vacaḥ

10.21

परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशास्यते ।
सदृशं चानुरूपं च कुलस्य तव शोभने ।
सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी

parituṣṭo'smyahaṃ sīte na hyaniṣṭo'nuśāsyate |
sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane |
sadharmacāriṇī me tvaṃ prāṇebhyo'pi garīyasī

10.22

इत्येवमुक्त्वा वचनं महात्मा
सीतां प्रियां मैथिलराजपुत्रीम् ।
रामो धनुष्मान् सह लक्ष्मणेन
जगाम रम्याणि तपोवनानि

ityevamuktvā vacanaṃ mahātmā
sītāṃ priyāṃ maithilarājaputrīm |
rāmo dhanuṣmān saha lakṣmaṇena
jagāma ramyāṇi tapovanāni

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)