तेऽग्निं प्रदक्षिणं कृत्वा ब्राह्मणं च पुरोहितम् ।
अभिवाद्य ततः सर्वे प्रस्थातुमुपचक्रमुः ॥ 1
te'gniṃ pradakṣiṇaṃ kṛtvā brāhmaṇaṃ ca purohitam |
abhivādya tataḥ sarve prasthātumupacakramuḥ || 1
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि षष्ठोऽध्यायः ॥
28 श्लोक · 6 में से 78
पाण्डव अग्नि की प्रदक्षिणा करके, धौम्य को प्रणाम करके, तलवार और धनुष बाँधे द्रौपदी के साथ चल पड़ते हैं। काम्यक वन से वे यमुना तक आते हैं, दशार्ण के उत्तर और पाञ्चाल के दक्षिण पश्चिम की ओर वनों में चलते हैं, और स्वयं को व्याध बताते हुए मत्स्यदेश में प्रवेश करते हैं। धौम्य पीछे आश्रम में अग्निहोत्र करते रहते हैं। खेत और गोशालाएँ देखकर द्रौपदी कहती हैं कि राजधानी अभी दूर होगी और वे बहुत थक गई हैं। युधिष्ठिर पहले नकुल से, फिर सहदेव से उन्हें कुछ देर उठा लेने को कहते हैं; दोनों भूख, प्यास और थकान बताते हैं। तब युधिष्ठिर अर्जुन से कहते हैं। जटाधारी, वल्कलधारी अर्जुन प्रसन्न होकर राजकुमारी को कन्धे पर उठाते हैं और नगर के पास लाकर उतारते हैं।
वैशंपायन उवाच
तेऽग्निं प्रदक्षिणं कृत्वा ब्राह्मणं च पुरोहितम् ।
अभिवाद्य ततः सर्वे प्रस्थातुमुपचक्रमुः ॥ 1
te'gniṃ pradakṣiṇaṃ kṛtvā brāhmaṇaṃ ca purohitam |
abhivādya tataḥ sarve prasthātumupacakramuḥ || 1
युधिष्ठिर उवाच
अनुशिष्टोस्मि भद्रं ते नैतद्वक्ताऽस्ति कश्चन ।
कुन्तीमृते मातरं नः पितरं च यशस्विनम् ॥ 2
anuśiṣṭosmi bhadraṃ te naitadvaktā'sti kaścana |
kuntīmṛte mātaraṃ naḥ pitaraṃ ca yaśasvinam || 2
यदेवानन्तरं कार्यं तद्भवान्वक्तुमर्हति ।
तारणाय तु दुःखस्य प्रस्थानाय भवाय च ॥ 3
yadevānantaraṃ kāryaṃ tadbhavānvaktumarhati |
tāraṇāya tu duḥkhasya prasthānāya bhavāya ca || 3
वैशंपायन उवाच
तेषां प्रतिष्ठमानानां धौम्यो मन्त्रानथाजपत् ।
सर्वविघ्नप्रशमनानर्थसिद्धिकरांस्तथा ।
ततः पावकमुञ्ज्वाल्य मन्त्रहव्यपुरुस्कृतम् ॥ 4
teṣāṃ pratiṣṭhamānānāṃ dhaumyo mantrānathājapat |
sarvavighnapraśamanānarthasiddhikarāṃstathā |
tataḥ pāvakamuñjvālya mantrahavyapuruskṛtam || 4
याज्ञसेनीं पुरस्कृत्य सर्व एव महारथाः ।
प्राद्रवन्सह धौम्येन बद्धशस्त्रा वनाद्वनम् ॥ 5
yājñasenīṃ puraskṛtya sarva eva mahārathāḥ |
prādravansaha dhaumyena baddhaśastrā vanādvanam || 5
ते वीरा बद्धनिस्त्रिंशा धनुर्बाणकलापिनः ।
अगच्छन्भीमधन्वानः काम्यकाद्यमुनां नदीम् ॥ 6
te vīrā baddhanistriṃśā dhanurbāṇakalāpinaḥ |
agacchanbhīmadhanvānaḥ kāmyakādyamunāṃ nadīm || 6
उत्तरेण दशार्णानां पाञ्चालान्दक्षिणेन तु ।
अन्तरेण यकृल्लोम्नः शूरसेनांश्च पाण्डवाः ॥ 7
uttareṇa daśārṇānāṃ pāñcālāndakṣiṇena tu |
antareṇa yakṛllomnaḥ śūrasenāṃśca pāṇḍavāḥ || 7
ते तस्या दक्षिणं तीरमन्वगच्छन्पदातयः ।
ततः प्रत्यक्प्रयातास्ते संक्रामन्तो वनाद्वनम् ॥ 8
te tasyā dakṣiṇaṃ tīramanvagacchanpadātayaḥ |
tataḥ pratyakprayātāste saṃkrāmanto vanādvanam || 8
वसाना वनदुर्गेषु रमणीयेषु धन्विनः ।
पल्वलेषु च रम्येषु नदीनां संगमेषु च ॥ 9
vasānā vanadurgeṣu ramaṇīyeṣu dhanvinaḥ |
palvaleṣu ca ramyeṣu nadīnāṃ saṃgameṣu ca || 9
द्रुमान्नानाविधाकारान्नानाविधलताकुलान् ।
कुसुमाढ्यान्मनःकान्ताञ्शुभगन्धान्मनोरमान् ॥ 10
drumānnānāvidhākārānnānāvidhalatākulān |
kusumāḍhyānmanaḥkāntāñśubhagandhānmanoramān || 10
पार्था निरीक्षमाणाश्च तान्द्रुमान्पुष्पशालिनः ।
जिघ्रन्तः पुष्पगन्धांश्च फलगन्धान्मनोरमान् ॥ 11
pārthā nirīkṣamāṇāśca tāndrumānpuṣpaśālinaḥ |
jighrantaḥ puṣpagandhāṃśca phalagandhānmanoramān || 11
विध्यन्तो मृगजातानि महेप्वासा महाबलाः ।
उपित्वा द्वादशसमा वने परपुरंजयाः ।
लुब्धान्ब्रुवाणा मात्स्यस्य विपयं प्राविशंस्तदा ॥ 12
vidhyanto mṛgajātāni mahepvāsā mahābalāḥ |
upitvā dvādaśasamā vane parapuraṃjayāḥ |
lubdhānbruvāṇā mātsyasya vipayaṃ prāviśaṃstadā || 12
तत्र धौम्यं महेप्वासाः पाण्डवेया व्यसर्जयन् ।
अग्निहोत्रं परिचरन्सोऽबुद्धोऽवसदाश्रमे ॥ 13
tatra dhaumyaṃ mahepvāsāḥ pāṇḍaveyā vyasarjayan |
agnihotraṃ paricaranso'buddho'vasadāśrame || 13
ततस्तेषु प्रयातेषु पाण्डवेषु महात्मसु ।
इन्द्रसेनमुखाश्चैव यथोक्तं प्राप्य निर्वृताः ।
रथानश्वांश्च रक्षन्तः सुखमूषुः सुसंवृताः ॥ 14
tatasteṣu prayāteṣu pāṇḍaveṣu mahātmasu |
indrasenamukhāścaiva yathoktaṃ prāpya nirvṛtāḥ |
rathānaśvāṃśca rakṣantaḥ sukhamūṣuḥ susaṃvṛtāḥ || 14
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् ॥ 15
tato janapadaṃ prāpya kṛṣṇā rājānamabravīt || 15
पश्यैकपद्यो दृश्यन्ते क्षेत्रे गोष्ठं समाश्रिताः ।
वृक्षांश्चोपवनोपेतान्ग्रामाणां नगरस्य च ॥ 16
paśyaikapadyo dṛśyante kṣetre goṣṭhaṃ samāśritāḥ |
vṛkṣāṃścopavanopetāngrāmāṇāṃ nagarasya ca || 16
व्यक्तं दूरे विराटम...राजधानी भविष्यति ।
वसामेहापरां रात्रिं बलवान्मे परिश्रमः ॥ 17
vyaktaṃ dūre virāṭama...rājadhānī bhaviṣyati |
vasāmehāparāṃ rātriṃ balavānme pariśramaḥ || 17
युधिष्ठिर उवाच
इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन ।
मुहूर्तं परिगृह्यैनां घाहुभ्यां नकुल व्रज ॥ 18
imāṃ kamalapatrākṣīṃ draupadīṃ mādrinandana |
muhūrtaṃ parigṛhyaināṃ ghāhubhyāṃ nakula vraja || 18
ततोऽदूरे विराटस्य नगरं भरतर्षभ ।
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ॥ 19
tato'dūre virāṭasya nagaraṃ bharatarṣabha |
rājadhānyāṃ nivatsyāmaḥ pramuktamiva no vanam || 19
नकुल उवाच
पूर्वाह्णे मृगयां कृत्वा मया विद्धा मृगा वने ।
अटवी च मया दूरं धृता मृगवधेप्सुना ॥ 20
pūrvāhṇe mṛgayāṃ kṛtvā mayā viddhā mṛgā vane |
aṭavī ca mayā dūraṃ dhṛtā mṛgavadhepsunā || 20
विषमा ह्यतिदुर्गा च वेगवत्परिधावता ।
सोहं धर्माभितप्तो वै नैनामादातुमुत्सहे ॥ 21
viṣamā hyatidurgā ca vegavatparidhāvatā |
sohaṃ dharmābhitapto vai naināmādātumutsahe || 21
युधिष्ठिर उवाच
सहदेव त्वमादाय मुहूर्तं द्रौपदीं नय ।
राजधान्यां निवत्स्यामः सुमुक्तमिव नो वनम् ॥ 22
sahadeva tvamādāya muhūrtaṃ draupadīṃ naya |
rājadhānyāṃ nivatsyāmaḥ sumuktamiva no vanam || 22
सहदेव उवाच
अहमप्यस्मि तृषितः क्षुधया परिपीडितः ।
परिश्रान्तश्च भद्रं ते नैनामादातुमुत्सहे ॥ 23
ahamapyasmi tṛṣitaḥ kṣudhayā paripīḍitaḥ |
pariśrāntaśca bhadraṃ te naināmādātumutsahe || 23
युधिष्ठिर उवाच
एहि वीर विशालाश्च वीरसिंह इवार्जुन ।
इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम् ॥ 24
ehi vīra viśālāśca vīrasiṃha ivārjuna |
imāṃ kamalapatrākṣīṃ draupadīṃ drupadātmajām || 24
परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं व्रज ।
राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ॥ 25
parigṛhya muhūrtaṃ tvaṃ bāhubhyāṃ kuśalaṃ vraja |
rājadhānyāṃ nivatsyāmaḥ pramuktamiva no vanam || 25
वैशंपायन उवाच
गुरोर्वचनमाज्ञाय संप्रहृष्टो जितेन्द्रियः ।
बाहुभ्यां परिगृह्याथ राजपुत्रीमनिन्दिताम् ।
प्रवव्राज महाबाहुरर्जुनः प्रियदर्शनाम् ॥ 26
gurorvacanamājñāya saṃprahṛṣṭo jitendriyaḥ |
bāhubhyāṃ parigṛhyātha rājaputrīmaninditām |
pravavrāja mahābāhurarjunaḥ priyadarśanām || 26
जटिलो वल्कलधरः शततूणीधनुर्धरः ।
स्कन्धे कृत्वा वरारोहां बालामायतलोचनाम् ।
jaṭilo valkaladharaḥ śatatūṇīdhanurdharaḥ |
skandhe kṛtvā varārohāṃ bālāmāyatalocanām |
आनीय नगराभ्याशमवातारयदर्जुनः ॥ 27
ānīya nagarābhyāśamavātārayadarjunaḥ || 27
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)