उद्योग पर्व

अध्याय 21: भीष्म कर्ण को फटकारते हैं, धृतराष्ट्र संजय को भेजेंगे

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि एकविंशोऽध्यायः ॥

22 श्लोक · 21 में से 196

इस अध्याय में क्या होता है

भीष्म कर्ण को फटकारते हैं, धृतराष्ट्र संजय को भेजेंगे

भीष्म पुरोहित की बात का स्वागत करते हैं: सौभाग्य से पाण्डव कुशल हैं, श्रीकृष्ण उनके साथ हैं और वे युद्ध नहीं, संधि चाहते हैं। बात सत्य है, यद्यपि तीखी है। पाण्डवों ने कष्ट सहा है और उनका अधिकार धर्मसम्मत है। कर्ण क्रोध से बीच में बोलता है: यह सब सबको पता है; युधिष्ठिर शर्त में हारे, और अब मत्स्यों और पाञ्चालों के बल पर मूर्ख की तरह राज्य चाहते हैं। राज्य चाहिए तो फिर से वन में अवधि पूरी करें। भीष्म उत्तर देते हैं: विराटनगर में अकेले अर्जुन ने तुम छहों को हराया था; ब्राह्मण की बात न मानी तो दुर्योधन मन्त्रियों सहित नष्ट होगा। धृतराष्ट्र भीष्म को मनाते हैं, कर्ण को डाँटते हैं और संजय को पाण्डवों के पास भेजने की बात कहते हैं।

वैशंपायन उवाच

21.1

तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः ।
संपूज्यैनं यथाकालं भीष्मो वचनमब्रवीत्

tasya tadvacanaṃ śrutvā prajñāvṛddho mahādyutiḥ |
saṃpūjyainaṃ yathākālaṃ bhīṣmo vacanamabravīt

21.2

दिष्ट्या कुशलिनः सर्वे सह दामोदरेण ते ।
दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः

diṣṭyā kuśalinaḥ sarve saha dāmodareṇa te |
diṣṭyā sahāyavantaśca diṣṭyā dharme ca te ratāḥ

21.3

दिष्ट्या च सन्धिकामास्ते भ्रातरः कुरुनन्दनाः ।
दिष्टा न युद्धमनसः पाण्डवाः सह बान्धवैः

diṣṭyā ca sandhikāmāste bhrātaraḥ kurunandanāḥ |
diṣṭā na yuddhamanasaḥ pāṇḍavāḥ saha bāndhavaiḥ

21.4

भवता सत्यमुक्तं तु सर्वमेतन्न संशयः ।
अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः

bhavatā satyamuktaṃ tu sarvametanna saṃśayaḥ |
atitīkṣṇaṃ tu te vākyaṃ brāhmaṇyāditi me matiḥ

21.5

असंशयं क्सेशितास्ते वने चेह च पाण्डवाः ।
प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम्

asaṃśayaṃ kseśitāste vane ceha ca pāṇḍavāḥ |
prāptāśca dharmataḥ sarvaṃ piturdhanamasaṃśayam

21.6

किरीटि बलवान्पार्थः कृतास्त्रश्च महारथः ।
को हि पाण्डुसुतं युद्धे विषहेत धनञ्जयम्

kirīṭi balavānpārthaḥ kṛtāstraśca mahārathaḥ |
ko hi pāṇḍusutaṃ yuddhe viṣaheta dhanañjayam

21.7

अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः ।
त्रयाणामपि लोकानां समर्थ इति मे मतिः

api vajradharaḥ sākṣātkimutānye dhanurbhṛtaḥ |
trayāṇāmapi lokānāṃ samartha iti me matiḥ

21.8

भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युना ।
दुर्योधनं समालोक्य कर्णो वचनमब्रवीत्

bhīṣme bruvati tadvākyaṃ dhṛṣṭamākṣipya manyunā |
duryodhanaṃ samālokya karṇo vacanamabravīt

21.9

न तत्राविदितं ब्रह्मँल्लोके भूतेन केनचित् ।
पुनरुक्तेन किं तेन भाषितेन पुनः पुनः

na tatrāviditaṃ brahmam̐lloke bhūtena kenacit |
punaruktena kiṃ tena bhāṣitena punaḥ punaḥ

21.10

दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा ।
समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः

duryodhanārthe śakunirdyūte nirjitavānpurā |
samayena gato'raṇyaṃ pāṇḍuputro yudhiṣṭhiraḥ

21.11

स तं समयमाश्रित्य राज्यं नेच्छति पैतृकम् ।
बलमाश्रित्य मत्स्यानां पाञ्चालानां च मूर्खवत्

sa taṃ samayamāśritya rājyaṃ necchati paitṛkam |
balamāśritya matsyānāṃ pāñcālānāṃ ca mūrkhavat

21.12

दुर्योधनो भयाद्विद्वन्न दद्यात्पादमन्ततः ।
धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च

duryodhano bhayādvidvanna dadyātpādamantataḥ |
dharmatastu mahīṃ kṛtsnāṃ pradadyācchatrave'pi ca

21.13

यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः ।
यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः

yadi kāṅkṣanti te rājyaṃ pitṛpaitāmahaṃ punaḥ |
yathāpratijñaṃ kālaṃ taṃ carantu vanamāśritāḥ

21.14

ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः ।
अधार्मिकीं तु मा बुद्धिं मौर्ख्यात्कुर्वन्तु केवलात्

tato duryodhanasyāṅke vartantāmakutobhayāḥ |
adhārmikīṃ tu mā buddhiṃ maurkhyātkurvantu kevalāt

21.15

अथ ते धर्ममुत्सृत्य युद्धमिच्छन्ति पाण्डवाः ।
आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम

atha te dharmamutsṛtya yuddhamicchanti pāṇḍavāḥ |
āsādyemānkuruśreṣṭhānsmariṣyanti vaco mama

भीष्म उवाच

21.16

किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि ।
एक एव यदा पार्थः षड्रथाञ्जितवान्युधि

kiṃ nu rādheya vācā te karma tatsmartumarhasi |
eka eva yadā pārthaḥ ṣaḍrathāñjitavānyudhi

21.17

विराटनगरे धीरः किं त्वं तत्रैव नागतः ।
बहुशो जीयमानस्य कर्म दृष्टं तदैव ते

virāṭanagare dhīraḥ kiṃ tvaṃ tatraiva nāgataḥ |
bahuśo jīyamānasya karma dṛṣṭaṃ tadaiva te

21.18

न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत् ।
ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान् ।

na cedevaṃ kariṣyāmo yadayaṃ brāhmaṇo'bravīt |
dhruvaṃ yudhi hatāstena bhakṣayiṣyāma pāṃsukān |

21.19

दुर्योधनः सहामात्यो विनङ्क्ष्यति न संशयः
(वैशंपायन उवाच)
धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च ।
अवभर्त्स्य च राधेयमिदं वचनमब्रवीत्

duryodhanaḥ sahāmātyo vinaṅkṣyati na saṃśayaḥ
(vaiśaṃpāyana uvāca)
dhṛtarāṣṭrastato bhīṣmamanumānya prasādya ca |
avabhartsya ca rādheyamidaṃ vacanamabravīt

21.20

अस्मद्धितं वाक्यमिदं भीष्मः शान्तनवोऽब्रवीत् ।
पाण्डवानां हितं चैव सर्वस्य जगतस्तथा

asmaddhitaṃ vākyamidaṃ bhīṣmaḥ śāntanavo'bravīt |
pāṇḍavānāṃ hitaṃ caiva sarvasya jagatastathā

21.21

चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम् ।
स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम्

cintayitvā tu pārthebhyaḥ preṣayiṣyāmi sañjayam |
sa bhavānpratiyātvadya pāṇḍavāneva māciram

21.22

स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान् ।
सभामध्ये समाहूय सञ्जयं वाक्यमब्रवीत्

sa taṃ satkṛtya kauravyaḥ preṣayāmāsa pāṇḍavān |
sabhāmadhye samāhūya sañjayaṃ vākyamabravīt

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)