समागतस्य रामेण पुनरेवातिदारुणम् ।
अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम
samāgatasya rāmeṇa punarevātidāruṇam |
anyedyustumulaṃ yuddhaṃ tadā bharatasattama
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि एकाशीत्यधिकशततमोऽध्यायः ॥
16 श्लोक · 181 में से 196
युद्ध और भयंकर हो जाता है। परशुराम दिन-प्रतिदिन दिव्य अस्त्र चलाते हैं और भीष्म प्रत्यस्त्रों से उन्हें नष्ट करते हैं। क्रुद्ध राम काल की छोड़ी उल्का जैसी जलती शक्ति फेंकते हैं; भीष्म उसे काट डालते हैं। फिर बारह शक्तियाँ आती हैं, जिनका तेज और वेग वर्णन से परे है; भीष्म उन्हें और उनके चारों ओर के बाण-जाल को तोड़ देते हैं। ढाल और खड्ग से और प्रहार रोककर वे राम के घोड़ों और सारथि पर बाण बरसाते हैं। तब टिड्डी-दलों जैसे बाण भीष्म, उनके घोड़ों और रथ को ढक लेते हैं; जुआ और पहिए बिंध जाते हैं और धुरी टूट जाती है। भीष्म बाणों की झड़ी से उत्तर देते हैं, और राम के शरीर से बहुत रक्त बहता है। सूर्यास्त तक दोनों गहरे घायल हो चुके होते हैं।
भीष्म उवाच
समागतस्य रामेण पुनरेवातिदारुणम् ।
अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम
samāgatasya rāmeṇa punarevātidāruṇam |
anyedyustumulaṃ yuddhaṃ tadā bharatasattama
ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशःक ।
अयोजयत्स धर्मात्मा दिवसे दिवसे विभुः
tato divyāstravicchūro divyānyastrāṇyanekaśaḥka |
ayojayatsa dharmātmā divase divase vibhuḥ
तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारत ।
व्यधमं तुमुलेयुद्धेप्राणांस्त्यक्त्वासुदुस्त्यजान्
tānyahaṃ tatpratīghātairastrairastrāṇi bhārata |
vyadhamaṃ tumuleyuddheprāṇāṃstyaktvāsudustyajān
अस्त्रैरस्त्रेषु बहुधा हतेष्वेव च भारत ।
अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे
astrairastreṣu bahudhā hateṣveva ca bhārata |
akrudhyata mahātejāstyaktaprāṇaḥ sa saṃyuge
ततः शक्तिं प्राहिणोद्धोररूपा-
मस्त्रे रुद्धे जामदग्न्यो महात्मा ।
कालोत्सृष्टां प्रज्वलितामिवोल्कां
संदीप्ताग्रां तेजसा व्याप्य लोकम्
tataḥ śaktiṃ prāhiṇoddhorarūpā-
mastre ruddhe jāmadagnyo mahātmā |
kālotsṛṣṭāṃ prajvalitāmivolkāṃ
saṃdīptāgrāṃ tejasā vyāpya lokam
ततोऽहं तामिषुभिर्दीप्यमानां
समायान्तीमन्तकालार्कदीप्ताम् ।
छित्त्वा त्रिधा पातयामास भूमौ
ततो ववौ पवनः पुण्यगन्धिः
tato'haṃ tāmiṣubhirdīpyamānāṃ
samāyāntīmantakālārkadīptām |
chittvā tridhā pātayāmāsa bhūmau
tato vavau pavanaḥ puṇyagandhiḥ
तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः
शक्तीर्घोराः प्राहिणोद्द्वादशान्याः ।
तासां रूपं भारत नोत शक्यं
तेजस्वित्वाल्लाघवाच्चैव वक्तुम्
tasyāṃ chinnāyāṃ krodhadīpto'tha rāmaḥ
śaktīrghorāḥ prāhiṇoddvādaśānyāḥ |
tāsāṃ rūpaṃ bhārata nota śakyaṃ
tejasvitvāllāghavāccaiva vaktum
किन्त्वेवाहं विह्वलः संप्रदृश्य
दिग्भ्यः सर्वास्ता महोत्का इवाग्नेः ।
नानारूपास्तेजसोग्रेण दीप्ता
यथाऽऽदित्या द्वादश लोकसंक्षये
kintvevāhaṃ vihvalaḥ saṃpradṛśya
digbhyaḥ sarvāstā mahotkā ivāgneḥ |
nānārūpāstejasogreṇa dīptā
yathā''dityā dvādaśa lokasaṃkṣaye
ततो जालं बाणमयं विवृत्तं
संदृश्य भित्त्वा शरजालेन राजन् ।
द्वादशेषून्प्राहिणवं रणेऽहं
ततः शक्तीरप्यधमं घोररूपाः
tato jālaṃ bāṇamayaṃ vivṛttaṃ
saṃdṛśya bhittvā śarajālena rājan |
dvādaśeṣūnprāhiṇavaṃ raṇe'haṃ
tataḥ śaktīrapyadhamaṃ ghorarūpāḥ
ततो राजञ्जामदग्न्यो महात्मा
शक्तीर्घोरा व्याक्षिपद्धेमदण्डाः ।
विचित्रिताः काञ्चनपट्टनंद्धा
यथा महोल्का ज्वलितास्तथा ताः
tato rājañjāmadagnyo mahātmā
śaktīrghorā vyākṣipaddhemadaṇḍāḥ |
vicitritāḥ kāñcanapaṭṭanaṃddhā
yathā maholkā jvalitāstathā tāḥ
ताश्चाप्युग्राश्चर्मणा वारयित्वा
खङ्गेनाजौ पातयित्वा नरेन्द्र ।
बाणैर्दिव्यैर्जामदग्न्यस्य सङ्ख्ये
दिव्यानश्वानभ्यवर्षं ससूतान्
tāścāpyugrāścarmaṇā vārayitvā
khaṅgenājau pātayitvā narendra |
bāṇairdivyairjāmadagnyasya saṅkhye
divyānaśvānabhyavarṣaṃ sasūtān
निर्मिक्तानां पन्नगानां सरूपा
दृष्ट्वा शक्तीर्हेमचित्रा निकृत्ताः ।
प्रादुश्चक्रे दिव्यमस्त्रं महात्मा
क्रोधाविष्टो हैहयेशममाथी
nirmiktānāṃ pannagānāṃ sarūpā
dṛṣṭvā śaktīrhemacitrā nikṛttāḥ |
prāduścakre divyamastraṃ mahātmā
krodhāviṣṭo haihayeśamamāthī
ततः श्रेण्यः शलभानामिवोग्राः
समापेतुर्विशिखानां प्रदीप्ताः ।
समाचिनोच्चापि भृशं शरीरं
हयान्सूतं सरथं चैव मह्यम्
tataḥ śreṇyaḥ śalabhānāmivogrāḥ
samāpeturviśikhānāṃ pradīptāḥ |
samācinoccāpi bhṛśaṃ śarīraṃ
hayānsūtaṃ sarathaṃ caiva mahyam
रथः शरैर्मे निचितः सर्वतोऽभू-
त्तथा वाहाः सारथिश्चैव राजन् ।
युगं रथेषां च तथैव चक्रे
तथैवाक्षः शरकृत्तोऽथ भग्नः
rathaḥ śarairme nicitaḥ sarvato'bhū-
ttathā vāhāḥ sārathiścaiva rājan |
yugaṃ ratheṣāṃ ca tathaiva cakre
tathaivākṣaḥ śarakṛtto'tha bhagnaḥ
ततस्तस्मिन्बाणवर्षे व्यतीते
शरौघेण प्रत्यवर्षं गुरुं तम् ।
स विक्षतो मार्गणैर्ब्रह्मराशि-
र्देहादसक्तं मुमुचे भूरि रक्तम्
tatastasminbāṇavarṣe vyatīte
śaraugheṇa pratyavarṣaṃ guruṃ tam |
sa vikṣato mārgaṇairbrahmarāśi-
rdehādasaktaṃ mumuce bhūri raktam
यथा रामो बाणजालाभितप्त-
स्तथैवाहं सुभृशं गाढविद्धः ।
ततो युद्धं व्यरमच्चापराह्णे
भानावस्तं प्रतियाते महीध्रम्
yathā rāmo bāṇajālābhitapta-
stathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ |
tato yuddhaṃ vyaramaccāparāhṇe
bhānāvastaṃ pratiyāte mahīdhram
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)