शान्ति पर्व

अध्याय 81: नारद का श्रीकृष्ण को बन्धु-कलह पर परामर्श

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकाशीतितमोऽध्यायः ॥

31 श्लोक · 81 में से 372

इस अध्याय में क्या होता है

नारद का श्रीकृष्ण को बन्धु-कलह पर परामर्श

युधिष्ठिर पूछते हैं कि जाति-बन्धुओं और मित्रों का मन कैसे जीता जाए। भीष्म श्रीकृष्ण और नारद का संवाद सुनाते हैं। श्रीकृष्ण कहते हैं कि स्वामी कहलाकर भी मैं बन्धुओं की दास जैसी सेवा करता हूँ; उनके कटु वचन अरणी की तरह मेरा हृदय मथते हैं। बलराम में बल है, गद में कोमलता, प्रद्युम्न में रूप, फिर भी मैं अकेला हूँ। आहुक और अक्रूर के बीच मैं दो जुआरियों की माता जैसा हूँ, जो किसी की हार नहीं चाह सकती। नारद कहते हैं कि यह संकट आपका अपना किया है, आपने राज्य उग्रसेन को दे दिया, अब उसे लौटाया नहीं जा सकता। उपाय है बिना लोहे का शस्त्र: अन्नदान, क्षमा, सरलता, कोमलता और यथोचित सम्मान, जिससे उनकी जिह्वा शान्त हो। फूट संघ का नाश करती है; यादवों को एक रखिए।

युधिष्ठिर उवाच

81.1

एवमग्राह्यके तस्मिञ्ज्ञातिसंबन्धिमण्डले ।
मित्रेष्वमित्रेष्वपि च कथं भावो विभाव्यते

evamagrāhyake tasmiñjñātisaṃbandhimaṇḍale |
mitreṣvamitreṣvapi ca kathaṃ bhāvo vibhāvyate

भीष्म उवाच

81.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं वासुदेवस्य महर्षेर्नारदस्य च

atrāpyudāharantīmamitihāsaṃ purātanam |
saṃvādaṃ vāsudevasya maharṣernāradasya ca

वासुदेव उवाच

81.3

नासुहृत्परर्म मन्त्रं नारदार्हति वेदितुम् ।
अपण्डितो वाऽपि सुहृत्पण्डितो वाप्यनात्मवान्

nāsuhṛtpararma mantraṃ nāradārhati veditum |
apaṇḍito vā'pi suhṛtpaṇḍito vāpyanātmavān

81.4

स ते सौहृदमास्थाय किंचिद्वक्ष्यामि नारद ।
कृत्स्नां बुद्धिं च ते प्रेक्ष्य संपृच्छे त्रिदिवङ्गम

sa te sauhṛdamāsthāya kiṃcidvakṣyāmi nārada |
kṛtsnāṃ buddhiṃ ca te prekṣya saṃpṛcche tridivaṅgama

81.5

दास्यमैश्वर्यवादेन ज्ञातीनां वै करोम्यहम् ।
अर्धंभोक्ताऽस्मि भोगानां वाग्दुरुक्तानि च क्षमे

dāsyamaiśvaryavādena jñātīnāṃ vai karomyaham |
ardhaṃbhoktā'smi bhogānāṃ vāgduruktāni ca kṣame

81.6

अरणीमग्निकामो वा मथ्नाति दहृयं मम ।
वाचा दुरुक्तं देवर्षे तन्मां दहति नित्यदा

araṇīmagnikāmo vā mathnāti dahṛyaṃ mama |
vācā duruktaṃ devarṣe tanmāṃ dahati nityadā

81.7

बलं सङ्कर्षणे नित्यं सौकुमार्यं पुनर्गदे ।
रूपेण मत्तः प्रद्युम्नः सोऽसहायोऽस्मि नारद

balaṃ saṅkarṣaṇe nityaṃ saukumāryaṃ punargade |
rūpeṇa mattaḥ pradyumnaḥ so'sahāyo'smi nārada

81.8

अन्ये हि सुमहाभागा बलवन्तो दुरासदाः ।
नित्योत्थानेन संपन्ना नारदान्धकवृष्णयः

anye hi sumahābhāgā balavanto durāsadāḥ |
nityotthānena saṃpannā nāradāndhakavṛṣṇayaḥ

81.9

यस्य न स्युर्न वै स स्याद्यस्य स्युः कृत्स्नमेव तत् ।
द्वयोरेनं प्रचरतोर्वृणोम्येकरतं न च

yasya na syurna vai sa syādyasya syuḥ kṛtsnameva tat |
dvayorenaṃ pracaratorvṛṇomyekarataṃ na ca

81.10

स्यातां यस्याहुकाक्रूरौ किं नु दुःखतरं ततः ।
यस्य चापि न तौ स्यातां किं नु दुःखतरं ततः

syātāṃ yasyāhukākrūrau kiṃ nu duḥkhataraṃ tataḥ |
yasya cāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tataḥ

81.11

सोऽहं कित्नवमातेव द्वयोरपि महामुने ।
नैकस्य जयमाशंसे द्वितीयस्य पराजयम्

so'haṃ kitnavamāteva dvayorapi mahāmune |
naikasya jayamāśaṃse dvitīyasya parājayam

81.12

ममैवं क्लिश्यमानस्य नारदोभयदर्शनात् ।
वक्तुमर्हसि यच्छ्रेयो ज्ञातीनामात्मनस्तथा

mamaivaṃ kliśyamānasya nāradobhayadarśanāt |
vaktumarhasi yacchreyo jñātīnāmātmanastathā

नारद उवाच

81.13

आपदो द्विविधाः कृष्ण बाह्याश्चाम्यन्तराश्च ह ।
प्रादुर्भवन्ति वार्ष्णेय स्वकृता यदि वाऽन्यतः

āpado dvividhāḥ kṛṣṇa bāhyāścāmyantarāśca ha |
prādurbhavanti vārṣṇeya svakṛtā yadi vā'nyataḥ

81.14

सेयमाभ्यन्तरा तुभ्यमापत्कृच्छ्रा स्वकर्मजा ।
अक्रूरभोजप्रभवा सर्वे ह्येते तदन्वयः

seyamābhyantarā tubhyamāpatkṛcchrā svakarmajā |
akrūrabhojaprabhavā sarve hyete tadanvayaḥ

81.15

अर्थहेतोर्हि कामाद्वा वीरबीभत्सयाऽपि वा ।
आत्मना प्राप्तमैश्वर्यमन्यत्र प्रतिपादितम्

arthahetorhi kāmādvā vīrabībhatsayā'pi vā |
ātmanā prāptamaiśvaryamanyatra pratipāditam

81.16

कृतमूलमिदानीं तद्राजशब्दसहायवत् ।
न शक्यं पुनरादातुं वान्तमन्नमिव स्वयम्

kṛtamūlamidānīṃ tadrājaśabdasahāyavat |
na śakyaṃ punarādātuṃ vāntamannamiva svayam

81.17

बभ्रूग्रसेनतो राज्यं नाप्नुं शक्यं कथंचन ।
ज्ञातिभेदभयात्कृष्ण त्वया चापि विशेषतः

babhrūgrasenato rājyaṃ nāpnuṃ śakyaṃ kathaṃcana |
jñātibhedabhayātkṛṣṇa tvayā cāpi viśeṣataḥ

81.18

तच्च सिध्येत्प्रयत्नेन कृत्वा कर्म सुदुष्करम् ।
महाक्षयं व्ययो वा स्याद्विनाशो वा पुनर्भवेत्

tacca sidhyetprayatnena kṛtvā karma suduṣkaram |
mahākṣayaṃ vyayo vā syādvināśo vā punarbhavet

81.19

अनायसेन शस्त्रेण मृदुना हृदयच्छिदा ।
जिह्वामुद्धर सर्वेषां परिमृदज्यानुमृज्य च

anāyasena śastreṇa mṛdunā hṛdayacchidā |
jihvāmuddhara sarveṣāṃ parimṛdajyānumṛjya ca

वासुदेव उवाच

81.20

अनायसं मुने शस्त्रं मृदु विद्यामहं कथम् ।
येनैषामुद्धरे जिह्वां परिमृज्यानुमृज्य च

anāyasaṃ mune śastraṃ mṛdu vidyāmahaṃ katham |
yenaiṣāmuddhare jihvāṃ parimṛjyānumṛjya ca

नारद उवाच

81.21

शक्त्याऽन्नदानं सततं तितिक्षाऽऽर्जवमार्दवम् ।
यथार्हप्रतिपूजा च शस्त्रमेतदनायसम्

śaktyā'nnadānaṃ satataṃ titikṣā''rjavamārdavam |
yathārhapratipūjā ca śastrametadanāyasam

81.22

ज्ञातीनां वक्तुकामानां कटुकानि लधूनि च ।
गिरा त्वं हृदयं वाचं शमयस्य मनांसि च

jñātīnāṃ vaktukāmānāṃ kaṭukāni ladhūni ca |
girā tvaṃ hṛdayaṃ vācaṃ śamayasya manāṃsi ca

81.23

नामहापुरुषः कश्चिन्नानात्मा नासहायवान् ।
महतीं धुरमादाय समुद्यम्योरसा वहेत्

nāmahāpuruṣaḥ kaścinnānātmā nāsahāyavān |
mahatīṃ dhuramādāya samudyamyorasā vahet

81.24

सर्व एव गुरुं भारमनङ्वान्वहते समे ।
दुर्गे प्रतीतः सुगवो भारं वहति दुर्वहम्

sarva eva guruṃ bhāramanaṅvānvahate same |
durge pratītaḥ sugavo bhāraṃ vahati durvaham

81.25

भेदाद्विनाशः सङ्घानां सङ्घमुख्योऽसि केशव ।
यथा त्वां प्राप्य नोत्सीदेदयं सङ्घस्तथा कुरु

bhedādvināśaḥ saṅghānāṃ saṅghamukhyo'si keśava |
yathā tvāṃ prāpya notsīdedayaṃ saṅghastathā kuru

81.26

नान्यत्र बुद्धिक्षान्तिभ्यां नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र धनसन्त्यागाद्गुणः प्राज्ञेऽवतिष्ठते

nānyatra buddhikṣāntibhyāṃ nānyatrendriyanigrahāt |
nānyatra dhanasantyāgādguṇaḥ prājñe'vatiṣṭhate

81.27

धन्यं यशस्यमायुष्वं स्वपक्षोद्भावनं सदा ।
ज्ञातीनामविनाशः स्याद्यथा कृष्ण तथा कुरु

dhanyaṃ yaśasyamāyuṣvaṃ svapakṣodbhāvanaṃ sadā |
jñātīnāmavināśaḥ syādyathā kṛṣṇa tathā kuru

81.28

आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ।
षाङ्गुण्यस्य विधानेन यात्रा यानविधौ तथा

āyatyāṃ ca tadātve ca na te'styaviditaṃ prabho |
ṣāṅguṇyasya vidhānena yātrā yānavidhau tathā

81.29

यादवाः कुकुरा भोजाः सर्वे चान्धकवृष्णयः ।
त्वय्यायत्ता महाबाहो लोका लोकेश्वराश्च ये

yādavāḥ kukurā bhojāḥ sarve cāndhakavṛṣṇayaḥ |
tvayyāyattā mahābāho lokā lokeśvarāśca ye

81.30

उपासन्ते हि त्वद्बुद्धिमृषयश्चापि माधव ।
त्वं गुरुः सर्वभूतानां जानीषे त्वं परां गतिम्

upāsante hi tvadbuddhimṛṣayaścāpi mādhava |
tvaṃ guruḥ sarvabhūtānāṃ jānīṣe tvaṃ parāṃ gatim

81.31

त्वामासाद्य यदुश्रेष्ठमेधन्ते वादवाः सुखम्

tvāmāsādya yaduśreṣṭhamedhante vādavāḥ sukham

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)