क्व समर्थाः कथंशीला ऋत्विजः स्युः पितामह ।
कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर
kva samarthāḥ kathaṃśīlā ṛtvijaḥ syuḥ pitāmaha |
kathaṃvidhāśca rājendra tadbrūhi vadatāṃ vara
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनाशीतितमोऽध्यायः ॥
21 श्लोक · 79 में से 372
युधिष्ठिर पूछते हैं कि ऋत्विज कैसे हों। भीष्म कहते हैं कि वे छन्द और साम जानें, प्रिय बोलें, परस्पर मित्र हों और सबको समान देखें; सत्य, अहिंसा, दम, लज्जा और क्षमा से युक्त हों; ऐसा व्यक्ति यज्ञ में ब्रह्मा के आसन का अधिकारी है। युधिष्ठिर संशय करते हैं: वेद दक्षिणा निश्चित करता है, पर निर्धन कैसे दे, और कपट से किए यज्ञ में श्रद्धा क्या करेगी? भीष्म चेताते हैं कि वेद का अनादर कभी न करो। दक्षिणा यज्ञ का अंग है, उसके बिना मन्त्र नहीं तारते, पर सामर्थ्य के अनुसार दिया पूर्णपात्र छोटा नहीं। तप यज्ञ से भी श्रेष्ठ है, और सच्चा तप अहिंसा, सत्य, दया और दम है, शरीर सुखाना नहीं। कुटिलता मृत्यु का पद है और सरलता ब्रह्म का।
युधिष्ठिर उवाच
क्व समर्थाः कथंशीला ऋत्विजः स्युः पितामह ।
कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर
kva samarthāḥ kathaṃśīlā ṛtvijaḥ syuḥ pitāmaha |
kathaṃvidhāśca rājendra tadbrūhi vadatāṃ vara
भीष्म उवाच
प्रतिकर्मपरा राजन्वृत्तिरस्य विधीयते ।
छन्दः सामादि विज्ञाय द्विजानां श्रुतमेवच
pratikarmaparā rājanvṛttirasya vidhīyate |
chandaḥ sāmādi vijñāya dvijānāṃ śrutamevaca
ये त्वेकरतयो नित्यं धीराश्च प्रियवादिनः ।
परस्परस्य सुहृदः समन्तात्समदर्शिनः
ye tvekaratayo nityaṃ dhīrāśca priyavādinaḥ |
parasparasya suhṛdaḥ samantātsamadarśinaḥ
आनृशंस्यं सत्यवाक्यमहिंसा दम आर्जवम् ।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः
ānṛśaṃsyaṃ satyavākyamahiṃsā dama ārjavam |
adroho'nabhimānaśca hrīstitikṣā damaḥ śamaḥ
यस्मिन्नेतानि दृश्यन्ते स पुरोहित उच्यते ।
धीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः ।
अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः
yasminnetāni dṛśyante sa purohita ucyate |
dhīmānsatyadhṛtirdānto bhūtānāmavihiṃsakaḥ |
akāmadveṣasaṃyuktastribhiḥ śuklaiḥ samanvitaḥ
अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति ।
एते महर्त्विजस्तात सर्वे मान्या यथार्हतः
ahiṃsako jñānatṛptaḥ sa brahmāsanamarhati |
ete mahartvijastāta sarve mānyā yathārhataḥ
युधिष्ठिर उवाच
यदिदं वेदवचनं दक्षिणासु विधीयते ।
इदं देयमिदं देयं न क्वचिव्द्यवतिष्ठते
yadidaṃ vedavacanaṃ dakṣiṇāsu vidhīyate |
idaṃ deyamidaṃ deyaṃ na kvacivdyavatiṣṭhate
देयं प्रतिधनं शास्त्रमापद्धर्मा न शास्त्रतः ।
आज्ञा शास्त्रस्य घोरे यं न शक्तिं समवेक्षते
deyaṃ pratidhanaṃ śāstramāpaddharmā na śāstrataḥ |
ājñā śāstrasya ghore yaṃ na śaktiṃ samavekṣate
श्रद्धामालम्ब्य यष्टव्यमित्येषा वैदिकी श्रुतिः ।
मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति
śraddhāmālambya yaṣṭavyamityeṣā vaidikī śrutiḥ |
mithyopetasya yajñasya kimu śraddhā kariṣyati
भीष्म उवाच
न वेदानां परिभवान्न शाठ्येन न मायया ।
कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी
na vedānāṃ paribhavānna śāṭhyena na māyayā |
kaścinmahadavāpnoti mā te bhūdbuddhirīdṛśī
यज्ञाङ्गं दक्षिणा तात मन्त्राणां परिबृंहणम् ।
न मन्त्रा दक्षिणाहीनास्तारयन्ति कथंचन
yajñāṅgaṃ dakṣiṇā tāta mantrāṇāṃ paribṛṃhaṇam |
na mantrā dakṣiṇāhīnāstārayanti kathaṃcana
शक्तिस्तु पूर्णपात्रेण संमिता नावमा भवेत् ।
अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्थथाबलम्
śaktistu pūrṇapātreṇa saṃmitā nāvamā bhavet |
avaśyaṃ tāta yaṣṭavyaṃ tribhirvarṇairthathābalam
सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः ।
तं च विक्रेतुमिच्छन्ति न तथा वृत्तिरिष्यते
somo rājā brāhmaṇānāmityeṣā vaidikī śrutiḥ |
taṃ ca vikretumicchanti na tathā vṛttiriṣyate
तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते ।
इत्येवं धर्ममाख्यातमृषिभिर्धर्मकोविदैः
tena krītena dharmeṇa tato yajñaḥ pratāyate |
ityevaṃ dharmamākhyātamṛṣibhirdharmakovidaiḥ
पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यदा भवेत् ।
अन्यायवृत्तः पुरुषो न परस्य न चात्मनः
pumānyajñaśca somaśca nyāyavṛtto yadā bhavet |
anyāyavṛttaḥ puruṣo na parasya na cātmanaḥ
शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः ।
तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम्
śarīraṃ yajñapātrāṇi ityeṣā śrūyate śrutiḥ |
tāni samyakpraṇītāni brāhmaṇānāṃ mahātmanām
तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः ।
तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु
tapo yajñādapi śreṣṭhamityeṣā paramā śrutiḥ |
tatte tapaḥ pravakṣyāmi vidvaṃstadapi me śṛṇu
अहिंसा सत्यवचनमानृशंस्यं दमो घृणा ।
एतत्तपो विदुर्धीरा न शरीरस्य शोषणम्
ahiṃsā satyavacanamānṛśaṃsyaṃ damo ghṛṇā |
etattapo vidurdhīrā na śarīrasya śoṣaṇam
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् ।
अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः
aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam |
avyavasthā ca sarvatra tadvai nāśanamātmanaḥ
निबोध दशहोतॄणां विधानं पार्थ यादृशम् ।
चित्तिः स्रुक् चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम् ।
न शाठ्यं न च जिह्यत्वं कालो देशश्च ते दश
nibodha daśahotṝṇāṃ vidhānaṃ pārtha yādṛśam |
cittiḥ sruk cittamājyaṃ ca pavitraṃ jñānamuttamam |
na śāṭhyaṃ na ca jihyatvaṃ kālo deśaśca te daśa
सर्वं दिह्नं मृत्युपदमार्जवं ब्रह्मणः पदम् ।
एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति
sarvaṃ dihnaṃ mṛtyupadamārjavaṃ brahmaṇaḥ padam |
etāvāñjñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)