शान्ति पर्व

अध्याय 60: भीष्म द्वारा चारों आश्रमों का वर्णन

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षष्टितमोऽध्यायः ॥

21 श्लोक · 60 में से 372

इस अध्याय में क्या होता है

भीष्म द्वारा चारों आश्रमों का वर्णन

भीष्म चार आश्रम बताते हैं: ब्रह्मचर्य, गृहस्थ का महाश्रम, वानप्रस्थ और भिक्षुक का जीवन। गृहस्थाश्रम में कर्तव्य पूरा कर चुका मनुष्य पत्नी सहित या अकेला वन में जाए और अक्षर ब्रह्म को प्राप्त हो। भिक्षु जहाँ सूर्यास्त हो वहीं सो जाता है, न अग्नि रखता है न घर, जो मिले उसी पर जीता है, कुछ नहीं चाहता और किसी को नमस्कार नहीं करता। गृहस्थ अपनी पत्नी से सन्तुष्ट, सत्यवादी, कोमल और कृतज्ञ रहकर ब्राह्मणों को भोजन देता है, देवों और पितरों को अर्पण करता है और यज्ञाग्नि रखता है; नारायण का गाया वचन सत्य, अतिथि-सत्कार और पत्नी के साथ सुख की प्रशंसा करता है। ब्रह्मचारी एक ही आचार्य के पास रहकर निरन्तर सेवा करता है, छाया की भाँति उनके पीछे चलता है और दृढ़ व्रत से अध्ययन करता है।

भीष्म उवाच

60.1

आश्रमाणां महाबाहो शृणु सत्यपराक्रम ।
चतुर्णामपि नामानि कर्माणि च युधिष्ठिर

āśramāṇāṃ mahābāho śṛṇu satyaparākrama |
caturṇāmapi nāmāni karmāṇi ca yudhiṣṭhira

60.2

वानप्रस्थं भैक्षचर्यं गार्हस्थ्यं च महाश्रमम् ।
ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्रह्मणेरितम्

vānaprasthaṃ bhaikṣacaryaṃ gārhasthyaṃ ca mahāśramam |
brahmacaryāśramaṃ prāhuścaturthaṃ brahmaṇeritam

60.3

चूडाकरणसंस्कारं द्विजातित्वमवाप्य च ।
आधानादीनि कर्माणि प्राप्य वेदानधीत्य च

cūḍākaraṇasaṃskāraṃ dvijātitvamavāpya ca |
ādhānādīni karmāṇi prāpya vedānadhītya ca

60.4

सदारो वाऽप्यदारो वा विनीतः संयतेन्द्रियः ।
वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात्

sadāro vā'pyadāro vā vinītaḥ saṃyatendriyaḥ |
vānaprasthāśramaṃ gacchetkṛtakṛtyo gṛhāśramāt

60.5

तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् ।
ऊर्ध्वरेताः प्रजा हित्वा गच्छत्यक्षरसात्मताम्

tatrāraṇyakaśāstrāṇi samadhītya sa dharmavit |
ūrdhvaretāḥ prajā hitvā gacchatyakṣarasātmatām

60.6

एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् ।
कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता

etānyeva nimittāni munīnāmūrdhvaretasām |
kartavyānīha vipreṇa rājannādau vipaścitā

60.7

चरितब्रह्मचर्यस्य ब्राह्मणस्य विशांपते ।
भैक्षचर्यास्वधीकारः प्रशस्तो देहमोक्षणे

caritabrahmacaryasya brāhmaṇasya viśāṃpate |
bhaikṣacaryāsvadhīkāraḥ praśasto dehamokṣaṇe

60.8

यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः ।
यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः

yatrāstamitaśāyī syānniragniraniketanaḥ |
yathopalabdhajīvī syānmunirdānto jitendriyaḥ

60.9

निराशीर्निर्नमस्कारो निर्भोगो निर्विकारवान् ।
विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम्

nirāśīrnirnamaskāro nirbhogo nirvikāravān |
vipraḥ kṣemāśramaṃ prāpto gacchatyakṣarasātmatām

60.10

अधीत्य वेदान्कृतसर्वकृत्यः
संतानमुत्पाद्य सुखानि भुक्त्वा ।
समाहितः प्रचरेद्दुश्चरं तं
गार्हस्थ्यधर्मं मुनिधर्मजुष्टम्

adhītya vedānkṛtasarvakṛtyaḥ
saṃtānamutpādya sukhāni bhuktvā |
samāhitaḥ pracaredduścaraṃ taṃ
gārhasthyadharmaṃ munidharmajuṣṭam

60.11

स्वदारतुष्टस्त्वृतुकालगामी
नियोगसेवी न शठो न जिह्नः ।
मिताशनो देवरतः कृतज्ञः
सत्यो मृदुश्चानृशंसः क्षमावान्

svadāratuṣṭastvṛtukālagāmī
niyogasevī na śaṭho na jihnaḥ |
mitāśano devarataḥ kṛtajñaḥ
satyo mṛduścānṛśaṃsaḥ kṣamāvān

60.12

दान्तो विधेयो हव्यकव्याप्रमत्तो
ह्यन्नस्य दाता सततं द्विजेभ्यः ।
अमत्सरी सर्वलिङ्गप्रदाता
वैताननित्यश्च गृहाश्रमी स्यात्

dānto vidheyo havyakavyāpramatto
hyannasya dātā satataṃ dvijebhyaḥ |
amatsarī sarvaliṅgapradātā
vaitānanityaśca gṛhāśramī syāt

60.13

अथात्र नारायणगीतमाहु
र्महर्षयस्तात महानुभावाः ।
महार्थमत्यन्ततपः प्रयुक्तं
तदुच्यमानं हि मया निबोध

athātra nārāyaṇagītamāhu
rmaharṣayastāta mahānubhāvāḥ |
mahārthamatyantatapaḥ prayuktaṃ
taducyamānaṃ hi mayā nibodha

60.14

सत्यार्जवं चातिथिपूजनं च
धर्मस्तथार्थश्च रतिः स्वदारैः ।
निषेवितव्यानि सुखानि लोके
ह्यस्मिन्परे चैव मतं ममैतत्

satyārjavaṃ cātithipūjanaṃ ca
dharmastathārthaśca ratiḥ svadāraiḥ |
niṣevitavyāni sukhāni loke
hyasminpare caiva mataṃ mamaitat

60.15

भरणं पुत्रदाराणां वेदानां चानुपालनम् ।
सेवतामाश्रमं श्रेष्ठं वदन्ति परमर्षयः

bharaṇaṃ putradārāṇāṃ vedānāṃ cānupālanam |
sevatāmāśramaṃ śreṣṭhaṃ vadanti paramarṣayaḥ

60.16

एवं हि यो ब्राह्मणो यज्ञशीलो
गार्हस्थ्यमध्यावसते यथावत् ।
गृहस्थवृत्तिं प्रतिगाह्य सम्य
क्स्वर्गे विशुद्धं फलमश्नुते सः

evaṃ hi yo brāhmaṇo yajñaśīlo
gārhasthyamadhyāvasate yathāvat |
gṛhasthavṛttiṃ pratigāhya samya
ksvarge viśuddhaṃ phalamaśnute saḥ

60.17

तस्य देहं परित्यज्य इष्टकामाक्षया मताः ।
आनन्त्यायोपकल्पन्ते सर्वतोक्षिशिरोमुखाः

tasya dehaṃ parityajya iṣṭakāmākṣayā matāḥ |
ānantyāyopakalpante sarvatokṣiśiromukhāḥ

60.18

वसन्नेको जपन्नेकः सर्वान्वेदान्युधिष्ठिर ।
एकस्मिन्नेव चाचार्ये शुश्रूषुर्मलपङ्कवान्

vasanneko japannekaḥ sarvānvedānyudhiṣṭhira |
ekasminneva cācārye śuśrūṣurmalapaṅkavān

60.19

ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी ।
गुरुच्छायानुगो नित्यमधीयानः सुयन्त्रितः ।
अविचाल्यव्रतोपेतं कृत्यं कुर्वन्वसेत्सदा

brahmacārī vratī nityaṃ nityaṃ dīkṣāparo vaśī |
gurucchāyānugo nityamadhīyānaḥ suyantritaḥ |
avicālyavratopetaṃ kṛtyaṃ kurvanvasetsadā

60.20

शुश्रूषां सततं कुर्वन्गुरोः संप्रणमेत च ।
षट्‌कर्मस्वनिवृत्तश्च न प्रवृत्तश्च सर्वशः

śuśrūṣāṃ satataṃ kurvanguroḥ saṃpraṇameta ca |
ṣaṭ‌karmasvanivṛttaśca na pravṛttaśca sarvaśaḥ

60.21

नाचरत्यधिकारेण सेवेत द्विषतो न च ।
एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते

nācaratyadhikāreṇa seveta dviṣato na ca |
eṣo''śramapadastāta brahmacāriṇa iṣyate

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)