शान्ति पर्व

अध्याय 320: पुरुष प्रकृति से अलग है

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि विंशत्यधिकत्रिशततमोऽध्यायः ॥

22 श्लोक · 320 में से 372

इस अध्याय में क्या होता है

पुरुष प्रकृति से अलग है

याज्ञवल्क्य उत्तर देते हैं कि निर्गुण को गुणवान नहीं बनाया जा सकता। गुणस्वभाव अव्यक्त गुणों में ही बरतता और उन्हीं को भोगता है, अपने को नहीं जानता और समझता है कि उससे परे कुछ नहीं, इसीलिए उसे अचेतन कहा जाता है। वह अपने कर्मों से ही नाम पाता है: सृष्टि, बीज, प्रलय और उत्पत्ति का कर्ता। निर्विकार सिद्ध यति कहते हैं कि अव्यक्त एक है और पुरुष अनेक। पुरुष प्रकृति से अलग है, जैसे मूँज से सींक, गूलर से मच्छर, जल से मछली, हाँडी से अग्नि और जल से कमल अलग है और उसके स्पर्श से लिप्त नहीं होता। साधारण लोग यह नहीं देखते, और जो उल्टा देखते हैं वे बार बार घोर नरक में पड़ते हैं। यह सांख्य दर्शन है, आगे योग का वर्णन होगा।

याज्ञवल्क्य उवाच

320.1

न शक्यो निर्गुणस्तात गुणीकर्तुं विशांपते ।
गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे

na śakyo nirguṇastāta guṇīkartuṃ viśāṃpate |
guṇavāṃścāpyaguṇavānyathātattvaṃ nibodha me

320.2

गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा ।
प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः

guṇairhi guṇavāneva nirguṇaścāguṇastathā |
prāhurevaṃ mahātmāno munayastattvadarśinaḥ

320.3

गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते ।
उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः

guṇasvabhāvastvavyakto guṇānevābhivartate |
upayuṅkte ca tāneva sa caivājñaḥ svabhāvataḥ

320.4

अव्यक्तस्तु न जानीते पुरुषोऽज्ञः स्वभावतः ।
न मत्तः परमोस्तीति नित्यमेवाभिमन्यते

avyaktastu na jānīte puruṣo'jñaḥ svabhāvataḥ |
na mattaḥ paramostīti nityamevābhimanyate

320.5

अनेन कारणेनैतदव्यक्तं स्यादचेतनम् ।
नित्यत्वाच्चाक्षरत्वाच्च क्षरत्वान्न तदन्यथा

anena kāraṇenaitadavyaktaṃ syādacetanam |
nityatvāccākṣaratvācca kṣaratvānna tadanyathā

320.6

यदाऽज्ञानेन कुर्वीत गुणसर्गं पुनःपुनः ।
यदात्मानं न जानीते तदाऽऽत्मापि न मुच्यते

yadā'jñānena kurvīta guṇasargaṃ punaḥpunaḥ |
yadātmānaṃ na jānīte tadā''tmāpi na mucyate

320.7

कर्तृत्वाच्चापि सर्गाणां सर्गधर्मा तथोच्यते ।
कर्तृत्वाच्चापि योगानां योगधर्मा तथोच्यते

kartṛtvāccāpi sargāṇāṃ sargadharmā tathocyate |
kartṛtvāccāpi yogānāṃ yogadharmā tathocyate

320.8

कर्तृत्वात्प्रकृतीनां च तथा प्रकृतिधर्मिता

kartṛtvātprakṛtīnāṃ ca tathā prakṛtidharmitā

320.9

कर्तृत्वाच्चापि वीजानां बीजधर्मा तथोच्यते ।
गुणानां प्रसवत्वाच्च प्रलयत्वात्तथैव च

kartṛtvāccāpi vījānāṃ bījadharmā tathocyate |
guṇānāṃ prasavatvācca pralayatvāttathaiva ca

320.10

कर्तृत्वात्प्रलयानां तु तथा प्रलयधर्मि च ।
कर्तृत्वात्प्रभवाणां च तथा प्रभवधर्मि च

kartṛtvātpralayānāṃ tu tathā pralayadharmi ca |
kartṛtvātprabhavāṇāṃ ca tathā prabhavadharmi ca

320.11

बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च ।
उपेक्षत्वादनन्यत्वादभिमानाच्च केवलम्

bījatvātprakṛtitvācca pralayatvāttathaiva ca |
upekṣatvādananyatvādabhimānācca kevalam

320.12

मन्यन्ते यतयः सिद्धा अध्यात्मज्ञा गतज्वराः ।
अनित्यं नित्यमव्यक्तं व्यक्तमेतद्धि शुश्रुम

manyante yatayaḥ siddhā adhyātmajñā gatajvarāḥ |
anityaṃ nityamavyaktaṃ vyaktametaddhi śuśruma

320.13

अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषास्तथा ।
सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः

avyaktaikatvamityāhurnānātvaṃ puruṣāstathā |
sarvabhūtadayāvantaḥ kevalaṃ jñānamāsthitāḥ

320.14

अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसंज्ञकः ।
यथा मुञ्ज इषीकाणां तथैवैतद्धि जायते ।
न चैव मुञ्जसंयोगादिषीका तत्र बुध्यते

anyaḥ sa puruṣo'vyaktastvadhruvo dhruvasaṃjñakaḥ |
yathā muñja iṣīkāṇāṃ tathaivaitaddhi jāyate |
na caiva muñjasaṃyogādiṣīkā tatra budhyate

320.15

अन्यच्च मशकं विद्यादन्यच्चोदुम्बरं तथा ।
च चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते

anyacca maśakaṃ vidyādanyaccodumbaraṃ tathā |
ca codumbarasaṃyogairmaśakastatra lipyate

320.16

अन्य एव तथा मत्स्यस्तदन्यदुदुकं स्मृतम् ।
न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः

anya eva tathā matsyastadanyadudukaṃ smṛtam |
na codakasya sparśena matsyo lipyati sarvaśaḥ

320.17

अन्यो ह्यग्निरुखाऽप्यन्या नित्यमेवमवेहि भोः ।
न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै

anyo hyagnirukhā'pyanyā nityamevamavehi bhoḥ |
na copalipyate so'gnirukhāsaṃsparśanena vai

320.18

पुष्करं त्वन्यदेवात्र तथाऽन्यदुदकं स्मृतम् ।
न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम्

puṣkaraṃ tvanyadevātra tathā'nyadudakaṃ smṛtam |
na codakasya sparśena lipyate tatra puṣkaram

320.19

एतेषां सहवासं च निवासं चैव नित्यशः ।
याथातथ्येन पश्यन्ति न नित्यं प्राकृता जनाः

eteṣāṃ sahavāsaṃ ca nivāsaṃ caiva nityaśaḥ |
yāthātathyena paśyanti na nityaṃ prākṛtā janāḥ

320.20

ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् ।
ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः

ye tvanyathaiva paśyanti na samyakteṣu darśanam |
te vyaktaṃ nirayaṃ ghoraṃ praviśanti punaḥ punaḥ

320.21

साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यानमुत्तमम् ।
एवं हि परिसंख्याय साङ्ख्याः केवलतां गताः

sāṅkhyadarśanametatte parisaṅkhyānamuttamam |
evaṃ hi parisaṃkhyāya sāṅkhyāḥ kevalatāṃ gatāḥ

320.22

ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् ।
अतः परं प्रवक्ष्यामि योगानामनुदर्शनम्

ye tvanye tattvakuśalāsteṣāmetannidarśanam |
ataḥ paraṃ pravakṣyāmi yogānāmanudarśanam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)