शरीरमापदश्चैव न विदन्त्यविहिंसकाः ।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यते
śarīramāpadaścaiva na vidantyavihiṃsakāḥ |
kathaṃ yātrā śarīrasya nirārambhasya setsyate
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकसप्तत्यधिकद्विशततमोऽध्यायः ॥
15 श्लोक · 271 में से 372
युधिष्ठिर पूछते हैं कि किसी को न सताने वाला मनुष्य अपना शरीर कैसे चलाए। भीष्म कहते हैं कि ऐसे कर्म करे कि शरीर न सूखे और न मृत्यु के वश में हो, और यथाशक्ति धर्म करे। वे राजा विचख्नु की कथा कहते हैं, जिन्होंने यज्ञशाला में कटे अंगों वाला बैल देखा और गायों का विलाप सुना, और गायों को आशीर्वाद दिया। उन्होंने कहा कि हिंसा उन लोगों ने चलाई जिन्होंने सब मर्यादाएँ तोड़ दीं। मनु ने हर कर्म में अहिंसा सिखाई; लोग अपनी इच्छा से वेदी के बाहर पशु मारते हैं। मदिरा, मछली, मधु, मांस और गरिष्ठ भोजन धूर्तों ने चलाए, वेदों में इनका विधान नहीं है। ब्राह्मण हर यज्ञ में विष्णु को ही जानते हैं और खीर तथा फूलों से उनकी पूजा करते हैं।
युधिष्ठिर उवाच
शरीरमापदश्चैव न विदन्त्यविहिंसकाः ।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यते
śarīramāpadaścaiva na vidantyavihiṃsakāḥ |
kathaṃ yātrā śarīrasya nirārambhasya setsyate
भीष्म उवाच
यथा शरीरं न म्लायेन्नैव मृत्युवशं भवेत् ।
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत्
yathā śarīraṃ na mlāyennaiva mṛtyuvaśaṃ bhavet |
tathā karmasu varteta samartho dharmamācaret
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्युना
atrāpyudāharantīmamitihāsaṃ purātanam |
prajānāmanukampārthaṃ gītaṃ rājñā vicakhyunā
छिन्नस्थूणं वृपं दृष्ट्वा विरावं च गवां भृशम् ।
गोगृहे यज्ञवाटे च प्रेक्षमाणः स पार्थिवः
chinnasthūṇaṃ vṛpaṃ dṛṣṭvā virāvaṃ ca gavāṃ bhṛśam |
gogṛhe yajñavāṭe ca prekṣamāṇaḥ sa pārthivaḥ
स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् ।
हिंसायां हि प्रवृत्तायामाशीरेषा तु कल्पिता
svasti gobhyo'stu lokeṣu tato nirvacanaṃ kṛtam |
hiṃsāyāṃ hi pravṛttāyāmāśīreṣā tu kalpitā
अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः ।
संशयात्मभिरव्यक्तैर्हिंसा समनुदर्शिता
avyavasthitamaryādairvimūḍhairnāstikairnaraiḥ |
saṃśayātmabhiravyaktairhiṃsā samanudarśitā
सर्वकर्मग्वहिंसां हि धर्मात्मा मनुरब्रवीत् ।
कामकाराद्विहिंसन्ति बहिर्वेद्यां पशून्नराः
sarvakarmagvahiṃsāṃ hi dharmātmā manurabravīt |
kāmakārādvihiṃsanti bahirvedyāṃ paśūnnarāḥ
तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता ।
अहिंसा ह्येव सर्वेभ्यो धर्मेभ्यो ज्यायसी मता
tasmātpramāṇataḥ kāryo dharmaḥ sūkṣmo vijānatā |
ahiṃsā hyeva sarvebhyo dharmebhyo jyāyasī matā
उपोष्य संशितो भूत्वा हित्वा वेदकृतां शुचिः ।
आचार इत्यनाचारः कृपणाः फलहेतवः
upoṣya saṃśito bhūtvā hitvā vedakṛtāṃ śuciḥ |
ācāra ityanācāraḥ kṛpaṇāḥ phalahetavaḥ
यदि च्छिन्दन्ति वृक्षांश्च यूपांश्चोद्दिश्य मानवाः ।
वृथा मांसानि खादन्ति नैप धर्मः प्रशस्यते
yadi cchindanti vṛkṣāṃśca yūpāṃścoddiśya mānavāḥ |
vṛthā māṃsāni khādanti naipa dharmaḥ praśasyate
सुरां मत्स्यान्मधु मांसमासवं कृसरौदनम् ।
धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् ।
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम्
surāṃ matsyānmadhu māṃsamāsavaṃ kṛsaraudanam |
dhūrtaiḥ pravartitaṃ hyetannaitadvedeṣu kalpitam |
kāmānmohācca lobhācca laulyametatpravartitam
विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः ।
पायसैः सुमनोभिश्च तस्यैव यजनं स्मृतम्
viṣṇumevābhijānanti sarvayajñeṣu brāhmaṇāḥ |
pāyasaiḥ sumanobhiśca tasyaiva yajanaṃ smṛtam
यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः ।
यच्चापि किंचित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् ।
महासत्वैः शुद्धभावैः सर्वं देवार्हमेव तत्
yajñiyāścaiva ye vṛkṣā vedeṣu parikalpitāḥ |
yaccāpi kiṃcitkartavyamanyaccokṣaiḥ susaṃskṛtam |
mahāsatvaiḥ śuddhabhāvaiḥ sarvaṃ devārhameva tat
युधिष्ठिर उवाच
शरीरमापदश्चापि विवदन्त्यविहंसतः ।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यते
śarīramāpadaścāpi vivadantyavihaṃsataḥ |
kathaṃ yātrā śarīrasya nirārambhasya setsyate
भीष्म उवाच
यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा ।
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत्
yathā śarīraṃ na glāyenneyānmṛtyuvaśaṃ yathā |
tathā karmasu varteta samartho dharmamācaret
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)